विविधक्षेत्रेषु नवरात्र्युत्सवः

।। भारतस्य प्रतिष्ठे द्वे संस्कृतं सांस्कृतिस्तथा ।।

इत्युक्तरीत्या भगवती सुरभारती संस्कृतिश्च भारतदेशे देदीप्यते। सेयं संस्कृतिः अस्मद्देशं प्रतिबिम्बयति । देशश्च संस्कृतिम् । संस्कारेण या संशुध्दा वर्तते सैव संस्कृतिरिति कथ्यते । संस्कृतिः जनपदमाश्रित्य वर्धते यथा भाषा । प्रतिदिनं भाष्यमाणा भाषा जीवतीति यथोच्यते एवं  संस्कृतैः जनैः आचारपदमानीता एव संस्कृतिः जीवतीति वक्तुं युक्तम् । भारतीयाः जनाः संस्कृताः सन्तः स्वीयं भारतीयत्वं ज्ञापयन्ति । इयं च संस्कृतिः बहुरूपेण देशीयेषु जनेषु अन्तर्हिता । सैव संस्कृतिः आचार इति व्यपदेशं भजते । आचारेष्वन्यतमश्च नवरात्रिः । नवानां रात्रीणां समाहारः नवरात्रिः ।  नवरात्रिः शरदृतौ आश्वयुजमासे आचर्यते इति शरन्नवरात्रिरित्यभिधां प्राप । यत्र हि नवदिनेष्वपि देवी दुर्गा कुमारिका, त्रिमूर्तिनी , कल्याणी, रोहिणी, काली, चण्डिका, शाम्भवी, दुर्गा इति नवरूपैः नवदिनेष्वाराध्या भवति ।  अत्र हि कथा – पुरा महिषो नाम महासुरः स हि सज्जनानपीपिडत् । तदसहमाना दुर्गा सज्जनानुग्रहेच्छया क्षित्यामवततार । अवतीर्य महिषासुरमर्दनेच्छया  नवदिनान्ययुध्यत । दशमेहनि महिषासुरममर्दयत्  ।  तथा च तत्संस्मरणपुरस्सरं कार्तज्ञनिवेदनाय नवदिनानि दुर्गां प्रपूजयन्ति । विशेषतः दशमदिने विजयदशमीं आचरन्ति । दुर्गतिनाशाय दुर्गां पूजयेत् इति आर्योक्तिः। तदुक्तं ।। दुर्गां दुर्गतिनाशाय पूजयेन्मनुजःसदा ।। इति । तथा च भक्ताः स्वर्णमयीं रजतमयीं ताम्रमयीं मृण्मयीं वा यथाशक्ति दुर्गाकृतिं कृत्वा  प्रपूजयन्ति । एवं इमं उत्सवं आसेतुहिमाचलं हिन्दुजनाः आचरन्ति। कर्नाटका, गुजरात्, आंध्रा, तेलंगाणा, ओडिस्सा, बेंगाल, इत्यादि नैकेषु राज्येषु विविधैः प्रकारैः विवधैः नामभिः प्रसिद्धोयं महः । कर्णाटकराज्ये महिषपुरस्य महाराजस्य कालतः एव राजवंशीयाः विजयदशमीप्रयुक्तं विजयोत्सवं घनवैभवेन आचरन्ति स्म  । अस्मिन् सन्दर्भे महीषूरराजवंशस्य कुलस्वामिनीं भगवतीं श्रीचामुण्डेश्वरीं विविधोपचारैः पूजयन्ति प्रार्थयन्ति  । नानाविधरत्नकाञ्चनाभरणैः अलङ्कृत्य समलङ्कृतगजस्योपरि राजमार्गे राजयात्रां कुर्वन्ति । भगवती महिषासुरमर्दिनी अस्मदुद्धिधीर्षया समायाति इति सन्तोषेण नानाविधभूषणैः भूषिताः जनाः विविधनृत्यगीतवाद्यैः राजमार्गे स्वामिन्याः दर्शनोत्सुकाः भजन्ते । तस्याः वैभवं प्रत्यक्षीकर्तुं अनुग्रहरसपिपासवः देशविदेशीयाः नैकसङ्ख्याकाः भक्तजनाः सादरं समायान्ति । भगवत्याः दर्शनेन आनन्दतुन्दिलाः भवन्ति । 

अपि च तेलङ्गाणाराज्ये नवदिनेषु नवविधालङ्कारैः नवदुर्गां पूजयन्ति । जनाः दुर्गापूजया सह विशेषतया गौरीपूजां च विदधति । तस्याः नाम बृहदम्बा (बतुकम्मा) इति । वेमुलवाडानगरस्थराजराजेश्वरस्य पत्नीं राजराजेश्वरीं बृहदम्बारूपेण पूजयन्ति । शरद्ऋतौ यानि यानि पुष्पाणि विकसन्ति तानि तानि पुष्पाणि वर्तुलाकारेण शिखरमिव संयोज्य मध्ये गोमयेन हरिद्रया च गौरीं कृत्वा मृदा लक्ष्मीं च (बोड्डेम्म) संस्थाप्य कृतालङ्काराः सुवासिन्यः देव्यौ परितः गायन्त्यः स्तुवन्त्यः प्रदक्षिणां विदधति । विजयदशम्यां श्रीदुर्गया सह लक्ष्मीगौर्यौ च निमज्जयन्ति । 

एवमेव आन्ध्रप्रदेशे तिरुमलक्षेत्रे कलियुगप्रत्यक्षदेवः भक्तेष्टचिन्तामणिः आपद्भान्धवः अनाथरक्षकः  सप्तशैलेश्वरः श्रीनिवासः विलसति । आश्वयुजशुक्लप्रतिपदमारभ्य ब्रह्मादयः तं गिरिं प्राप्य वेङ्कटेशं विशेषतो पूजयन्ति । ब्रह्मोत्सवः इति तस्य दशदिनात्मकस्य उत्सवस्य नाम । अखिलाण्डकोटिब्रह्माण्डनायकः वेङ्कटेशः भक्तवरदो भूत्वा दशदिनानि यावत् मन्दिरात् बहिरागत्य राजवीथ्यां सूर्यप्रभवाहन चन्द्रप्रभवाहन कल्पवृक्षवाहन मुक्तपल्लकी अश्ववाहन गजवाहन शेषवाहन गरुडवाहन हनुमद्वाहन इत्यादिवाहनानां मध्ये विराजमानः सन् अनुगृह्णाति । अस्मिन् मङ्गलोत्सवे लक्षाधिकाः भक्ताः मधुकरा इव भगवन्नामस्मरणरवैः भगवदनुग्रहरूपं मकरन्दं आप्नुवन्ति । दशस्वपि दिनेषु नृत्यगीतवाद्यान्दोलिकाभिः वेदघोषैः भगवन्नामस्मरणैः वेङ्कटाद्रिः प्रतिध्वन्यते ।

एवमेव विजयवाडानगरे इन्द्रकीलाद्रौ श्रीकनकदुर्गा विलसति । दशसु दिनेष्वपि वैभवेन अम्बां अर्चयन्ति । विजयदशम्यां पर्वतस्य अधः प्रवहन्त्यां कृष्णायां उडुपोत्सवं आचरन्ति । तस्मिन् उत्सवे भेतालनृत्यप्रदर्शनं कुर्वन्ति । विजयवाडानगरस्थवैशिष्ट्येषु अन्यतममिदम् । 

बेंगालराज्यस्थकोल्कत्तानगरे वङ्गदेशीयाः, सप्तमी-अष्टमी-नवमी-दिनेषु भगवत्याः दुर्गायाः पूजां वैभवेन कुर्वन्ति नवदिनेष्वपि राज्ये सर्वत्र हरिकथाः पुराणप्रवचनानि च प्रचलन्ति । नवम्यां दुष्टजनमनस्थैर्यापहन्त्र्याः सज्जनेष्टदात्र्याः श्रीकाळ्याः दर्शनार्थं  नैकप्रदेशेभ्यः भक्ता समागच्छन्ति । अन्तिमे दिने (नवम्यां) हुग्लीनद्यां मातरं निमज्जन्ति, तस्मिन् दिने कुमारीपूजां च विशेषतया कुर्वन्ति । 

ओडिस्साराज्ये अपि “दशहरा “इति नाम्ना इमं उत्सवं निर्दिशन्ति । तत्रस्थ “कथक्” कलाकारैर्निमितभगवत्याः दुर्गायाः मूर्तीः नैकासु वीथीषु प्रतिष्ठाप्य वैभवेन पूजा-अर्चन-गान-भजन-नृत्यैः भगवतीं संतोषयन्ति । नवरात्रोत्सवे तत्रत्याः पात्रविशेषे तण्डुलधान्यं संस्थाप्य लक्ष्मीनारायणं पूजयन्ति । तथैव मार्गशीर्षमासेऽपि अनेनैव प्रकारेण लक्ष्मीं पूजयन्ति। इमं प्रकारं “मान बान” इति व्यपदिशन्ति ॥ विजयदशम्यां भगवती दुर्गा विजयप्रदेति मत्वा पूजां कुर्वन्ति । दशहरा इति नाम तु रामरावणयोर्युद्धे रामः रावणं अवधीदिति हेतोः दशकण्ठहरोयमुत्सव इति तथा व्यपदेशः । रावणप्रतिकृतिं विधाय बाणेन प्रज्वालयन्ति । रामः रावणोपरि विजयं संसाधितवानिति चिन्तनेन अस्माकमपि विजयो भवतीति ते विश्वसन्ति । 

गुर्जरदेशीयास्तु पार्वतीं शक्तिरूपेण पूजयन्ति ।  प्रतिगृहं हरिद्रया चक्रत्रिशूलचिह्नैः अलङ्कुर्वन्ति । तत्पुरतः क्षेत्रादाहृतया मृदा वेदिकां निर्माय तस्योपरि यवान् गोधूमान् च स्थापयित्वा मृण्मयपात्रं शुद्धाद्भिः पूरयित्वा तस्मिन् पूगीं रजतनाण्यं ताम्रनाण्यं वा संस्थाप्य तत् पात्रं भगवती इति सम्भाव्य तस्मिन् देव्याः प्रतिष्ठां कृत्वा अर्चयन्ति । अस्याः कुम्भीप्रतिष्ठा इति नाम । दुर्गाष्टम्यां यागादीन् विधाय दशम्यां मातुः निमज्जनं कुर्वन्ति । तदनन्तरं आपौर्णमास्यं गर्भा इति सुप्रसिद्धमुत्सवं आचरन्ति । विशेषतः उत्सवे स्त्रियः ऩृत्यन्ति । तथैव श्रीरामः रावणवधात् प्राक् शमीं संप्रार्थ्य रावणं जितवानिति, एवं पाण्डवा अपि शमीपूजनेनैव स्वीयं जयं अज्ञातवासात्प्रभृति समसाधयन्निति अधुनापि वयं विजयदशम्यां शमीपत्रैः भगवदर्चां विधाय स्वात्मानं धन्यं मन्यामहे । 

शमी शमयते पापं शमी शत्रुविनाशिनी ।

अर्जुनसय धनुर्धारी रामस्य प्रियदर्शिनी ।। इति

 ।। सर्वेभ्यः नवरात्रीपर्वणः शुभाशयाः ।।

लेखकौ – मधुकृष्णसुधर्माणौ

Posted in

Leave a comment