श्रीजयतीर्थगुरुभ्यो नमः
अथ कदाचित् विश्वावसुकृशानू स्वर्धुनीप्रतीरोपकण्ठं प्रवर्तमानमहामहिमवन्महमासेदतुः । ददृशतुश्च वैयासकिं वैयात्यादिविततविद्युतिम् । सङ्कथाः प्रावर्तिषुः प्रावृषि प्रवर्षमिव ।
भगवान् बादरायणिराह – अथ समगमच्छरदां शतम् । प्रतनः पृथिवीपतिरिक्ष्वाकुकुलसम्भवो नाभागः । नाभागोपि नाभिर्भूभागं निश्शेषमेवाशिषत् । समयः समवर्तत । अम्बरीषः सम्बभूव । यो हि विभववरैरप्यविभाव्यः, जलधिरिव तेजस्वी, स्वर्णदीव स्वर्णचरणचरी, नन्दिनीजनक इव नन्दिनीवत्सलतापरिबद्धः, कल्पवृक्ष इव शतकल्पकल्पनाकल्पितप्रदो द्वितीयपाकशासनोsद्वितीयोsपाकशासनः । अमुना हि –
रमापतिपदाम्भोजनिष्यन्दमकरन्दकः । अन्धोपममिव स्वादं स्वादमास्वादितोsनघः ।।
सदा देवं पश्यत्यथ भवति साशङ्कनयनो दृशौ देवस्यात्ति प्रवितरितभोज्यं न हि मृषा ।
नमत्यद्धा देवं ह्यथ जपति गायत्यवितथं निसर्गोsयं दैवो हरिभजनसम्मूढहृदयः ।।
अतार्प्सीत् हरिमत्यन्तमहासीदखिलं जगत् । अहार्षीत् दैवमानन्दं व्यनैषीत्कालमीदृशः ।।
तितर्पिषुर्देवदेवं चिकीर्षुरमलां कृतिम् । जिहीर्षुर्मुक्तिमार्गेस्मिन् दधार द्वादशीवर्तम् ।।
अथ व्रतान्ते मध्वरिं मधुवने आरिराधयिषुः त्र्यह उपोषितः कलिन्दमपदरजोरञ्जितायां कालिन्द्यां विजगाहे । समाराधयाम्बभूव च अम्बुसम्भवसम्भवम् । महत्या परिचर्यया महामय्या माहेय्या च यावद्भूति विप्रानममहत । अथ स्वादुङ्कारं सर्वे भोजिताः । प्रवव्राज च तत्र भवान् परिव्राट् दूर्वासाः ।
तमभ्यर्हणपाद्यादिविधिनाsनुननाथ सः । प्रतिनन्द्याह्निकायाथ प्रस्थिता निस्तलासनः ।।
अथार्धमुहूर्तमवशिशेष । किं मया पारणयितव्यम् अथ महते निरीक्षयितव्यम् ।
विरुद्धकृत्यसङ्घर्षात् द्वैधीभवति मे मनः । बीजमङ्कुरसम्भेदादिव मध्यविघूर्णितः ।।
मा त्वरिष्ठाः मा च विपदं गमो मनः ।
रोगो नाम स हि जायुहतो भवेद्यो पापं हि तद्भवति यत्प्रतिकर्महर्तृ ।
द्वेषो हि नाम स हि सौहृदसंविभग्नः कष्टं हि तद्भवति यत्परिहारहारि ।।
इत्येवमनुचिन्त्य ………… पयःपानं पारणोपममपि उपोषणोपम् । तदेवं सलिलसुभगनिपानेन धर्ममनुरुन्धे न चात्र कश्चिदागःपूगः इति सलिलमासस्वादे । अत्रान्तरे ऋषिरार्छत् ।
– अनुवर्तते
Leave a comment