नवरात्रोत्सवे दुर्गामाहात्म्यम्
विदितमेव तत्र भवतां भवतां यत् –
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत्
गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ।।
इत्यादिना भारतस्य पुण्यक्षेत्रत्वेन प्रसिद्धिः संवर्तते । इह भारते उत्पन्नाः पुण्यकर्मिणः पुण्यात्मान इत्येव गदितुमलम् । भारतीयाः खलु उत्सवप्रियाः। वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्वचित् प्रचलत्येव । महती खलु भारतीया सांस्कृतिकपरम्परा । विदेशेषु अपि उत्सवाः क्रियन्ते तथापि नैव ते भारतीयोत्सवसदृशाः । तेषु धार्मिकतापि विरलायते । विरामदिनेेष्वेव उत्सवानां आचरितत्वेन उत्सवाः इच्छानुगुण्येन कादाचित्काः न अवश्यमेव आचरणीया इति वैदेशिकाः मन्यन्ते । भारते तु दीपवली गणेशचतुर्दशी होलिका कृष्णाष्टमी इत्यादयः उत्सवाः स्वीय-सांस्कृतिकतायाः धार्मिकतायाश्च प्रतीकाः सन्तः इहत्यजनानां आचारनिष्ठां अध्यात्मनिष्ठां च प्रतिमानयन्ति । भारतीयाजनानां आचारान्तर्गतत्वेन एते उत्सवाः आचारा इत्येव कथ्यन्ते । तथा च भारतीयानामाचारा एव उत्सवा इति सिद्ध्यति । एतेषु आश्वीनशुक्लप्रतिपदमारभ्य आश्वीनशुक्लदशम्यन्तं आचर्यमाणः नवरात्रोत्सवः अन्यतमः सर्वेषां मुदावहः उत्सवः वर्तते । नवानां रात्रीणां समूहः नवरात्रिरिति कथ्यते । नवरात्रमिति नवरात्रिरिति च व्यपदिशन्ति जनाः । जनैः नवरात्रोत्सवे भगवती अष्टादशभुजवती महालक्ष्मीस्वरूपिणी चतुःसिंहरथस्थिता दुर्गा प्रपूज्यते ।
स्वसृष्टमिदमापीय शयानं सह शक्तिभिः।
तदन्ते बोधयाञ्चक्रुस्तैर्लिङ्गैः श्रुतयः परं ।।
इत्युक्तरीत्या भागवते अपि श्रुतिगीतायां दुर्गायाः माहात्म्यं कथितम् । स्वेन(भगवता) सृष्टं इदं(विश्वं) प्रलयाकाले आपीय(संहृत्य) शक्तिभिः(शक्तिशब्दवाच्य-श्रीभूदुर्गाः ताभिः) सह शयानं तं परं परमात्मानं श्रीभूदुर्गाः बोधयाञ्चक्रुः (समस्तुवन्)।। मूलप्रकृतिः श्रीभूदुर्गारूपैः नारायणेन सह प्रलयकाले शेते। लक्ष्मीः श्रुतिनामकेन दुर्गारूपेण विष्णुं जयजयेत्यादिभः वचनैः स्तवीति । महालक्ष्मीस्वरूपिणी दुर्गा अनन्तेषु वेदेषु काळी,भद्रेत्यादि नाना शब्दवाच्या भवति । श्रीभूदुर्गाः सृष्टिस्थित्यन्तकारिण्यः । तत्र श्रीरूपेण सृजति, भूरूपेण रक्षति, दुर्गारूपेण च नाशयति । एवं लक्ष्मीरेव रूपभेदेन महान्तं
कार्यजातं सम्पादयति । एवं लक्ष्मीरूपेष्वन्यतमं यद्दुर्गारूपं सैव नवरात्रिसन्दर्भे विशिष्य पूजनीया बहुषु देशेषु तत्प्रान्तमाश्रिताः विवधरूपेण पूजयन्ति । सैव महिषासुरमर्दिनी दुर्गा भविष्यत्काले केरळदेशे पयस्विनीतटे समुद्भूता सती सर्वान् दुष्टजनान् संहृत्य शिष्टजनान् परिरक्षति । एषा एव हि दुष्टं सर्वजनभयप्रदं कंसं भाययितुं कंसहस्तात् नभस्थलमुत्पपात । अपि च धर्मस्थितः धर्मराजः विराटयुद्धार्थं प्रस्थितस्सन् सन् बहुधा दुर्गां अस्तावीत् । तया स्तुत्या सन्तुष्टया महादेव्या अनुगृहीतः सः सङ्ग्रामे शत्रान् अजैषीत् । तस्याः स्मरणमात्रेणैव चिन्तितं सर्वमपि सम्पन्नं भवति । यथोक्तम् – दुःखदारिद्र्यनाशाय संग्रामे विजयाय च । क्रूरशत्रुविनाशर्थं तथोग्रकर्मसाधने । दुर्गाञ्च पूजयेत् भक्त्या परलोकसुखाय च इति। दुर्गायाः पूजा दुखदारिद्र्यनाशाय, सङ्ग्रामे विजयाय, परलोकसुखाय समर्था भवति । दुर्गाशब्दोच्चारणमाहात्म्यं तु – दकारः दैत्यनाशकः,उकारः विघ्ननाशकः,रेफः रोगघ्नः, गकारः पापघ्नः,अकारः भयनाशकः। सर्वाणि दुर्गाणि नाशयति इति दुर्गा । दुर्गापूजा विशिष्य नवरात्रोत्सवे तदीयदुष्टमहिषासुर -संहाररूपघटनायाः स्मरणार्थं नवरात्रोत्सवम् आचरन्ति । विजयदशम्याः संयोजनेन अयं दशदिनोत्सवः सम्पद्यते । मैसूरुनगरस्य राजसु नवमः ‘राजवडेयर’ इति ख्यातनामधेयः राजा दशाधिकषोडशशत (१६१०)तमे क्रिस्ताब्दे नवरात्रमहोत्सवं प्रारभत । श्रीरङ्गपत्तनम् उत्सवस्य स्थानम् आसीत् नवनवत्यधिकसप्तदशशत (१७९९) तमे वर्षे मुम्मडिकृष्णराजवडेयरमहोदयः मैसूरुनगरे नवरात्रोत्सवम् आचरितुम् आरब्धवान् । तत आरभ्य मैसूरुनगरे महता वैभवेन अनुष्ठीयते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः मैसूरुनगरे अतिशयेन वैभवेन अनुवर्तते । राजस्थानराज्ये महालक्ष्मीं पूजयन्ति । तत्र जनाः महालक्ष्मीदेवालयस्य गमनमेव जैत्रयात्रा इति मन्यमानाः भगवत्याः
देवालयं गत्वा पूजाम् अर्पयन्ति । महाराष्ट्रराज्ये अलङ्कृतानां गजानां शोभायात्रा प्रचलति । उत्तरभारते नवरात्रदिनेषु ‘रामलीला’ इति प्रसिद्धम् उत्सवं आचरन्ति। बहुषु राज्येषु शमीपूजा, शमीपत्रवितरणं च प्रवर्तते । नवतिथिषु दुर्गारूपिण्याः महालक्ष्म्याः नवरूपाणि पूज्यन्ते १)शैलपुत्री २)ब्रह्मचारिणी ३)चन्द्रघण्टा ४)कूष्माण्डा ५)स्कन्दमाता ६)कात्यायनी ७)कालरात्रिः ८)महागौरी ९)सिद्धिदात्री एताः नवदुर्गाः नवरात्रे पूज्यन्ते । नवभिर्लभते भूमिमैश्वर्यं लभते ननु इत्युक्तदिशा दुर्गायाः नवरूपपूजनेन विद्यापेक्षिणः विद्यां, धनार्थिनः धनं लभन्ते । भगवती जगदम्बा दुर्गामाता जगति सर्वेभ्यः श्रद्धालुभ्यः शक्ति-विद्या-बुद्धि-मेधेत्यादिभिः संपुष्णातु ।।
Leave a comment