गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

अयि सृहदः,

साम्प्रतं नूतनवर्षोदयः । आदधाति कामपि विनूतनां शोभाम् । पल्लविता नववनराजिः । स्वागतीकरोति एनां कोकिलध्वनिः । समुल्लसति नृणां चेतसि कापि आशाज्योतिः । प्राप्तकालोयं विकारिवर्षस्य करोनाकृतान् विकारान् विस्मृत्य प्लवं आरुढाः सन्तः दुःखसागरं तर्तुम् । यद्यप्यस्ति प्लवेपि करोनासङ्कटः । किन्तु नूतनाब्दस्य नवीनस्फूर्तिः प्लव इव क्लेशात् अस्मात् संतारयिष्यति इति आशास्यते । प्लवेति अस्य नूतनवर्षस्य अन्वर्थकं नाम । तदिदं पद्यम् –

दुःखानलोत्तप्तधियां नराणां

क्लेशाम्बुधौ लीनमनोरथानाम् ।

वितारकाणां प्लवनोत्सुकानां

भूयात् प्लवोऽयं प्लवनामकोऽब्दः ।।

Posted in

Leave a comment