बालानां मुग्धता सर्वान् आकर्षत्येव । अस्माकं गुरुकुले अद्य बालानां मुग्धभावं अधिकृत्य आशुश्लोकरचनस्पर्धा समभवत् । तत्सन्दर्भे मया सह छात्रैः गुम्फितेयं पद्यावली अत्र प्रस्तूयते ।

किं रे त्वं वद जग्धवानिह मृदं रामो वदत्यग्रजो

नैवाम्बाहमनिन्दितो न जघस प्रेक्षस्व कामं मुखम् ।

इत्येवं प्रसमीक्ष्य बालचरितं तस्थौ स्मयन्ती प्रसूः

बालानां किल मुग्धचेष्टितरसैः को वा न सन्तुष्यति ।। – मदीयं पद्यं

अन्तरात्मा राचूरि

मुग्धास्यस्रुतपीतदुग्धसुचणैः आस्यस्थतत्तर्जकैः

जग्धिप्राशनदुःसहद्विजजनिप्रोद्दष्टताताङ्गजैः ।

मासृण्यापटुवाग्भिराशु मसृणप्रोद्गण्डसच्चूटनैः

मुग्धैः बालकलस्मयैर् जितहृदो धन्याः पितृृणां गणाः ।।

शुभाङ्ग कट्टे

पयःफेनस्मायो मधुरवदनोद्भूतचिबुक-

प्रभूताभीष्वाश्लिष्टसकलजनोन्मेषनयनः ।

कलाकीर्णव्यामोहरसनिनदोन्मेषलसितः

करार्धास्यो बालः कमिह मुदितं नोपचिनुते ।।

हसितसुवदनप्रभूतलालारसमसृणश्रमताम्यदुद्घलीलः ।

करकलितलवामितक्षिपः सच्छिशुरशिवं न रुणद्धि कं महान्तम् ।।

अनन्तराचूरि

क्वचित् विमुच्यासमयान् सुगोधनान्

हसन् स्वगोप्यः परिपीडयिष्यति ।

कुर्वन् ह्यकार्याण्यपि मोहयन् प्रजाः

मुग्धस्वभावैः परिपातु नः प्रभुः ।।

Posted in

One response to “बालानां मुग्धभावः”

  1. राचूरी मधुसूदन Avatar
    राचूरी मधुसूदन

    A beautiful expression from the cultured and growing talent of the young disciples of Atmashrama! Kudos to these disciples who are bound to carry the Samskruta parampara on their shoulders to showcase the depth of our culture and the beautiful language- Samskrutam.
    An translation in English and Kannada will make it more interesting to all uninitiated. धन्यवाद:

    Liked by 1 person

Leave a comment