गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

सद्यः प्रद्योतनत्विड्विकसितकमलप्रोदयेनैव गोभिः

प्रातर्लोकोयाप्तिर्भवति जगति सद्भास्करोद्यत्करैश्चेत् ।

एवं सत्यात्मतीर्थस्फुटशुचिकमलोद्यन्मनोज्ञोदयेन

प्राप्नोत्वानन्दतीर्थागममहदुदयो मन्मनीषाप्रपञ्चे ।।1।।

वाग्धाटीशोधिताशः पटुकरणनतासङ्ख्यकोटीश्वरो यः

शाटीभाषस्तटी यो भवपृथुजलधेः पाटिताशेषदोषः ।

टीकाप्रज्ञो नटी यः स्फुटहरिभगवत्पादभावप्रकाशे

टीकामाटङ्क्य चित्ते दिशतु पदरतिं श्रीसदात्मा गुरुर्मे ।।2।।

Posted in

Leave a comment