।।श्रीः।।
श्रीलक्ष्मीवेङ्कटेशाय नमः । श्रीमदानन्दतीर्थभगवत्पादाचार्यगुरुभ्यो नमः
श्रीजयतीर्थगुरुभ्यो नमः
श्रीगणेशाय नमः
साङ्ख्यकारिकाव्याख्यायां साङ्ख्यतत्त्वकौमुद्यां सत्कार्यवादनिरूपणम्

- अन्तरात्मा राचूरि । antaratmarachuri@gmail.com
प्रणम्य गुरुपादाब्जं स्तुत्वा नारायणं प्रभुम् ।
सत्कार्यवादस्य मया क्रियते प्रतिपादनम् ।।
इह खलु सकलप्राणिनां त्रिविधदुःखनिरसनपूर्वकं शाश्वतसुखावाप्तेः हेतुभूतं कमपि उपायं मार्गयित्वा याज्ञिकहिंसा अनभ्युपायमिति मत्वा तत्र भवान् ईश्वरकृष्णः तद्विपरीतः श्रेयान् (सा.का 2) इत्युक्तदिशा प्रशस्ययोः१आनुश्रविकवेदसत्वपुरुषान्यतासाक्षात्कारयोर्मध्ये सत्वपुरुषान्यतासाक्षात्कारं श्रेयःसाधनमिति प्रतिपाद्य शास्त्रमारेभे । श्रोतृधीसमवधानाय साङ्ख्यतत्त्वानां सङ्क्षेपेण प्रतिपादनं व्यधात् । तमर्थं प्रामाणिकं कर्तुं प्रमाणसामान्यलक्षणं प्रतिपाद्य प्रत्यक्ष-अनुमान-आप्तश्रुतिरूपप्रमाणानां लक्षणं लक्षणविषयकातिरिक्त-प्रमाणविषयकपूर्वपक्षनिरसनपूर्वकं निरूप्य प्रत्यक्षलक्षणावयवार्थं निरूप्य प्रधानस्य सौक्ष्म्यात् अनुपलब्धित्वं कार्यानुमेयत्वं च निरूप्य तत्कार्यं निरूपितम् । अत्र कार्यकारणसम्बन्धे वादिनां बहवो विप्रतिपत्तयः सन्ति । केचित् नैयायिकादयः असतः सज्जायते इत्याहुः । एकस्य सतो विवर्तः कार्यजातं न वस्तु सत् इति वेदान्तिनः । अन्ये सतः असज्जायते इति । किन्तु सतः सदेव जायते इति साङ्ख्या आहुः । तथाहि तत्र साङ्ख्यकारिका-
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्यस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ।।सां.का.९।।
सत् कार्यं भवति । कुतः ? १. असदकरणात् २. उपादानग्रहणात् ३.सर्वसम्भवाभावात् ४.शक्यस्य शक्यकरणात् ५.कारणभावाच्च । अस्यां कारिकायां सत् कार्यमित्यस्य कारणव्यापारात् प्रागपि कार्यं सदेव भवतीत्यर्थः । अतः असतः सज्जायते इति नैयायिकानामेव मतस्येदं पुनःप्रतिपादनम् इति सिद्धसाधनतारूपदोषः न सम्भवति । पूर्वमेव युक्तिभिः सिद्धस्य प्रमेयस्य पुनः साधनं हि सिद्धसाधनता । अत्र तु प्रागसिद्धस्य सतः कार्यस्य प्रतिपादनात् न सिद्धसाधनतावकाशः ।
(बौद्धिमतनिरासः) |
तत्र प्रथमं तावत् असदकरणात् इत्यनेन हेतुना असतः सज्जायते इति मन्वानान् बौद्धान् निराकरोति । तन्निराकरणप्रकारश्च वाचस्पतिमिश्रेण स्वीयन्यायवार्तिकतात्पर्यटीकायां सविस्तरं उपपादितः । तदत्र विस्तरभयात् नानूद्यते किन्तु सङ्ग्रहेण तन्निरसनप्रकारः अनूद्यते । तत्र बौद्धाः वदन्ति – सर्वेषां कार्यांणां कश्चन प्रध्वंस एव कारणम् । यथा अङ्कुररूपकार्यस्य बीजध्वंसः एव कारणम् । अतः असतः (प्रध्वंसात्) सत् कार्यमुत्पद्यते इति ।
तन्न । सर्वत्र यद्यपि बीजप्रध्वंसानन्तरम् अङ्कुरस्य उत्पत्तिरुपलभ्यते । मृत्पिण्डप्रध्वंसानन्तरं घटस्योत्पत्तिरपि । तथाऽपि तत्र प्रध्वंसस्य कारणत्वं न सम्भवति । किन्तु भावस्यैव इत्युक्तौ सत एव बीजादेः कारणत्वम् । अभावात् भावस्योत्पत्तिरित्यङ्गीकारे कारणाभावस्थलेपि सर्वत्र सर्वदा सर्वकार्योत्पत्तिप्रसङ्गः। तथा हि – कारणाभावसिद्धिः ऊषरादिष्वपि सुलभैव अस्ति । तस्मात् ऊषरे अङ्कुरोत्पत्तिप्रसङ्गः स्यात् । एवमेव आकाशे पुष्पोत्त्पत्तिप्रसङ्गः स्यात् । कारणविनाशस्य सर्वत्रापि सद्भावात् शालीबीजात् एव शाल्यङ्कुरो जायते न यवबीजात् इत्यत्र किं नियामकम् ? यतः शालीबीजनाशः यवबीजनाशेन समानः । अतः एतद्विज्ञायते यत् तत्तत्कारणे भिन्नभिन्नशक्तिविशेषः अस्ति यस्मात् भिन्नभिन्नं कार्यमुत्पद्यते । सा विशिष्टशक्तिः भावकारणस्यैव धर्मः नत्वभावकारणस्य इति न असतः कारणत्वं इति पक्षः युक्तः ।।
(अद्वैतमतनिरासः)
साम्प्रतमद्वैतसिद्धान्तः निरस्स्यते । विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् इत्यनुमानेन अस्य प्रपञ्चस्य मिथ्यात्वं साधयन्ति अद्वैतिनः । तन्न युक्तम् । कुत इति चेत् – शुक्तौ इदं रजतमिति ज्ञानं तावत् इन्द्रियदोषेण जायते । किन्तु असदेव रजतमिदं प्रत्यभात् इति बाधोत्तरकालं रजतस्य असत्वानुभवः भवति । तथा च भ्रमकाले प्रतीतं रजतं मिथ्या इति वक्तुं शक्यते । परं प्रतीयमानस्य शब्दादिप्रपञ्चप्रत्ययस्य प्रबलप्रमाणभूतस्य बाधः नोपलभ्यते इति कृत्वा बाधाभाववतः जगतः मिथ्यात्वं कथितुं नैव शक्यते । अतः विश्वं मिथ्या इति अद्वैतमतं अनुपपन्नमेव ।
(न्यायमतनिरासः)
असदकरणादित्यनेन हेतुना न्यायमतनिरासः |
एवं वेदान्तिमतं निरस्य अवशिष्टं कणादादक्षपादप्रवर्तितं वैशेषिकन्यायमतं निरस्यते । जगति तावत् कारणेन कार्यं जायते इति प्रसिद्धम् । अनेन सर्वकार्याणां कारणपूर्वकत्वमवगम्यते । यथा मृद्रूपकारणेन घटरूपकार्यम् उत्पद्यते । यद्यपि सतः मृदादेः घटरूपकार्यं जायते इति कारणं तावत्सदेव इति सर्वैरङ्गीक्रियते । तत्र नास्ति कस्यापि विप्रतिपत्तिः । तथा कारणव्यापारानन्तरमपि, इत्युक्तौ दण्डभ्रमणरूपकरणव्यापारानन्तरमपि, कार्यं सदेव इत्यत्रापि नास्ति सन्देहगन्धोऽपि । किन्तु उत्पत्तेः पूर्वं घटरूपं कार्यं सद्वा असद्वा इति विषये तु अस्ति महती विप्रतिपत्तिः । अत्र उत्पत्तेः पूर्वं इत्यस्य कारणव्यापारात्पूर्वमित्यर्थः । तत्र तावत् नैयायिकाः कार्यस्य उत्पत्तेः पूर्वं कार्यमसदेव इति मन्यन्ते । यथा असन् घटः इति प्रतीत्या घटस्योत्पत्तेः प्राक् असत्त्वं विज्ञायते ।
तत्र तन्मते दोषान् दृष्ट्वा तन्मतमपाकृत्य साङ्ख्यमतरीत्या निर्दुष्टसिद्धान्तप्रतिपादनार्थम् अत्र असदकरणात् इति कारिकायां “सत् कार्यं” इति ग्रन्थकारेण ईश्वरकृष्णेन प्रतिज्ञातम् । तस्यार्थस्तु कार्यं सदेव, इत्युक्तौ कारणव्यापारत् पूर्वमपि सदेव इत्यर्थः । न तु केवलं कारणव्यापारानन्तरम् । कारणव्यापारात् पूर्वं कार्यम् असद्भवति चेत् अस्य सत्त्वं कर्तुं केनापि न शक्यम् । यथा स्वभावतः नीलवर्णं सहस्रशिल्पिभिरपि पीतवर्णकं कर्तुं न शक्यते । तथा च कार्यं सत् असदकरणात्, यदसत् तदकरणं, यथा शशश्रृङ्गम् इत्यनुमानमुक्तं भवति । अत्र अकरणमित्यत्र न करणम् अकरणम् इति विग्रहः । करणमित्यस्य उत्पत्तिः इत्यर्थः । तथा च असतः अकरणमित्यस्य असतः उत्पत्तेरभावः । तस्मात् असतः उत्पत्त्यभावादित्यर्थः । अस्मिन् अनुमाने कार्यं पक्षः। सत्वं साध्यम् । असतः उत्पत्त्यभावः हेतुः । यद्यप्ययं व्यधिकरणः । असतः उत्पत्यभावः पक्षीभूते कार्ये न वर्तते । सः असतः उत्पत्त्यभावः इति हेतुकथने कार्ये तस्यासत्वात् कथं तस्य पक्षधर्मता इक्याकाङ्क्षायां उत्पत्त्यभावः कार्ये स्वप्रतियोगिनिरूपिताश्रयतासम्बन्धेन वर्तते । स्वम् अभावः तस्य प्रतियोगी उत्पत्तिः तदाश्रयः कार्यम् । तत्वसम्बन्धेन हेतुभूतः असतः उत्पत्त्यभावः पक्षीभूते कार्ये वर्तते इति पक्षधर्मता सिद्ध्यति । असतः उत्पत्त्यभावरूपहेतुः दृष्टान्ते शशशृङ्गे अस्तीति समन्वयः । अनेन अयमर्थः फलति – यच्च करणकं तत् सत् यथा घटः । शशविषाणतुल्यात् असतः कारणात् सतः कार्यस्य उत्पत्तेः असम्भवात् कारणमसत् न भवितुमर्हति । कारणव्यापारात् पूर्वं कार्यम् असद्भवति चेत् अस्य सत्त्वं कर्तुं केनापि न शक्यम् । यथा स्वभावतः नीलवर्णं सहस्रशिल्पिभिरपि पीतवर्णकं कर्तुं न शक्यते । अतः कार्यं असाधारणकारणव्यापारात् पूर्वमपि सदेव ।।
(पूर्वपक्षः) |
नैयायिका एवं मन्यन्ते – कार्यस्य असत्त्वं शशविषाणवदत्यन्तासत् न अपितु यथा पाकात् पूर्वं घटस्य श्यामता पाकानन्तरं तस्य रक्तता अनुभूयमाना अस्ति। तद्वदेव घटे असत्त्वं श्यामतातुल्यं सत्वं रक्ततातुल्यं च अस्ति । सत्वम् असत्वं च विकाररूपं यत्कार्यं तस्य धर्मावेव । यदि इमे विकाररूपकार्यमात्रस्य इत्युक्ते मृद्विकारभूतघटस्य धर्मौ इति नाङ्गीक्रियेते तर्हि सन् घटः असन् घटः इति व्यवहारः न स्यात् । सत्वस्य तथा असत्वस्य स्वकारणाधीना उत्पत्तिः भवति इति कृत्वा तौ सत्वासत्वधर्मौ कादाचित्कौ एव शशविषाणवत् सर्वदा असती न इत्यस्माकमभिप्रायः इति ।
(सिद्धान्तः)
सदसत्वे असतः घटस्य धर्मौ इति यदुक्तं तच्चिन्त्यम् । घटः असन् इत्युक्ते असति घटे सदसद्धर्मौ न भवतः । धर्मिणः एव असत्वात् । अतः असति धर्मिणि सत्वासत्वरूपौ धर्मौ न स्तः । असन् घटः इत्यत्र घटस्य तदैव धर्मेण सह सम्बन्धः कथितुं शक्यते यदैव असत्वाख्यः धर्मः घटे वर्तते अथवा घटः असद्रूपः भवति। नीलं कमलमित्यत्र नीलगुणरूपधर्माश्रयः कमलमिति बोधः जायते । किन्तु असन् घटः इत्यत्र असत्वरूपधर्माश्रयो घटः इति बोधः भवति किन्तु तथा कथितुं न शक्यते । यतः कमलेन सह यथा नीलस्य सम्बन्धः अस्ति तथा अविद्यमानेन घटेन सह असत्त्वरूपधर्मस्य सम्बन्धः नास्ति । अतः कारणव्यापारत्पूर्वं घटः असन् इति कथितुं न शक्यते । तस्मात् यथा असाधारणकारणानन्तरं कार्यं सत् तथैव कारणव्यापारात्पूर्वमपि कार्यं सदेव ।
अभिव्यक्तिः |
ननु यदि कारणव्यापारात् पूर्वमपि कार्यं सदेव भवति तर्हि कुतः कारणव्यापारः । यथा यन्त्रमर्दनव्यापारात्पूर्वमेव तिलेषु तैलस्य सद्भावात् कुतः यन्त्रव्यापारः । एवमेव गोदाहोत् पूर्वमपि क्षीरस्य सद्भावात् कुतः गोदोहः करणीयः इति आशङ्कायां सतः अभिव्यक्तिः अर्थात् आविर्भावः अवशिष्यते । यदि कार्यं सदित्यङ्गीक्रियते तर्हि अस्य अभिव्यक्तिः उपपद्यते । यथा तिलस्य मर्दनेन तैलस्य अभिव्यक्तिरुत्पद्यते । धान्यानां कुट्टनेन तण्डुलस्य अभिव्यक्तिर्भवति । गोदोहेन गवि क्षीरस्याभिव्यक्तिः उपपद्यते ।
एवं नैयायिकवैशेषिकान् असदकरणदादिति हेतुना निरस्य साम्प्रतं कार्यं सदित्यत्र द्वितीयं हेतुं वदति उपादानग्रहणादिति –
उपादानग्रहणात् इति द्वितीयो हेतुः |
उपादीयते अनेन इति उपादानं४ कारणम् । उपादानस्य ग्रहणम् उपादानग्रहणम् । तस्मात् । उपादानैः कारणैः कार्यस्य यस्मात् सम्बन्धः वर्तते तस्मात् कार्यं सत् इत्यर्थः। कार्येण सह सम्बद्धं कारणं कार्यस्य जनकं भवति । यथा घटरूपेण कार्येण सह सम्बन्धवत् मृद्रूपं कारणं घटरूपकार्यस्य जनकं भवति । तादृशकारणसम्बन्धः असतः कार्यस्य न सम्भवति । यथा मृद्रूपकारणेन सह पटरूपकार्यस्य सम्बन्धो नास्ति । अतः मृदादयः उपादानकारणत्वात् स्वसम्बद्धस्यैव कार्यस्य जनकाः न त्वसतः असम्बद्धस्य शशविषाणादेः जनकाः इति सत् कार्यम् ।
अत्र कार्येण सम्बद्धमेव कारणं कार्यस्य जनकमिति कथितम् । किन्तु कारणेन असम्बद्धमेव कार्यं कुतो न जन्यते ? इत्याशङ्कायां एवं विवक्षणे असदेव कार्यमुत्पत्स्यते । यदि असम्बद्धमेव कार्यं जन्यते तर्हि मृद्रूपकारणात् पटरूपकार्योत्पत्तिप्रसङ्गः । एवं सर्वकारणात् सर्वकार्योत्पत्तिः नास्तीति कृत्वा कारणेन असम्बद्धं कार्यं कार्यासम्बद्धेन कारणेन जन्यते । सम्बद्धमेव कारयं सम्बद्धेन कारणेन जन्यते । यथाहुः –
असत्वे नास्ति सम्बन्धो कारणैः सत्वसङ्गिभिः ।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ।।। इति
सत्वसम्बद्धैः कारणैः असत्वे सम्बन्धः नास्ति । कारणासम्बद्धस्य कार्यस्य सृष्टिमिच्छतः जनस्य क्षीरात् जलोत्पत्तिप्रसङ्गः अङ्गीकर्तव्यः भवति । इति ।।
शक्यस्य शक्यकरणात् |
साम्प्रतं शक्यस्य शक्यकरणात् सत् कार्यमिति कथयति। ननु शक्तं असम्बद्धमपि कार्यमुत्पादयति । कारणव्यापारात्पूर्वमपि असतः एव कार्यस्य शक्तेर्भेदात् उत्पत्तिः भवति । अत्र मृदः एव घटः जायते इत्यत्र कारणे शक्तिरस्ति इत्यत्र किं प्रमाणमित्युक्ते – सा शक्तिः कार्यानुमेया भवति इत्युक्ते कार्यं दृष्ट्वा शक्तिः अनुमीयते । यथा मृदः एव घटरूपकार्यं जायते नान्येन इत्यत्र मृदः एव घटरूपकार्यजनने कारणनिष्ठा काचिच्छक्तिः अस्तीत्यनुमानेन ज्ञायते। अनुमानप्रकारश्च – कपालः घटोत्पादकशक्तिमान् घटजनकत्वात् इति । एवं शक्तिमतः कारणस्य अङ्गीकारे सर्वस्मात् सर्वोत्पत्तिरूपाव्यवस्था न भवति इति नैयायिकाः आक्षिपन्ति ।
नैयायिकानामेवमुक्तस्य खण्डनार्थं ग्रन्थकारः शक्तस्य शक्यकरणादित्याह । कारणगता शक्तिः सर्वकारणेष्वस्ति वा उत शक्ये एव वा ? यदि सर्वत्र वर्तर्ते इत्यङ्गीक्रियते तर्हि मृद्रूपकारणे पटाद्युत्पत्तिप्रसङ्गः इत्यव्यवस्था स्यात् । यदि शक्तिः शक्ये अस्तीति कथ्यते तर्हि असति शक्ये कथं सद्रूपायाः शक्तेः सम्बन्धः कथं वक्तुं शक्यते ? असति सतः सम्बन्धः वक्तुं न शक्यते । अत्र नैयायिकः वदति – सा शक्तिः सर्वत्र वर्तते । तेन सर्वेषां कार्याणां उत्पत्तिः एकस्मात् कारणात् एव भवतीति न मन्तव्यम् । अपितु शक्तिविशेषः कश्चिदस्ति, कस्यचित् कारणविशेषात् एक एव कार्यविशेषः उत्पद्यते न सर्वकार्याणि उत्पद्यन्ते । अतः मृद एव घटः तन्तोरेव घटःइतीयं व्यवस्था असत्कार्यवादिनामुपपन्ना एव इति चेत्, हन्त भोः! कारणगतः शक्तिविशेषः कार्येण सम्बद्धो वा असम्बद्धो वा । यदि शक्तिविशेषः सम्बद्धः तर्हि असता सम्बन्धः न घटते । असम्बद्धश्चेत् पुनः मृदः घटोत्पत्तिप्रसङ्गः स्यादिति कार्यं सदेव इति सिद्धम् ।
एवं ग्रन्थकारः असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणादित्यनेन पूर्वपक्षनिरासपूर्वकं असाधारणकारण-व्यापारात्पूर्वमपि कार्यं सदेव इति निरूप्य साम्प्रतं सिद्धान्तं कारणभावाच्च इति हेतुना कथयति । कार्यं उत्पत्तेः प्रागपि सत् कारणात्मकत्वात् । कारणात्मकत्वं नाम कार्यस्य कारणादभिन्नत्वम् । कारणं तु सदेव । तर्हि कारणादभिन्नं कार्यं कथमसत् भवति ? अतः कार्यं सदेव ।
ननु कार्यस्य कारणाभेदे किं प्रमाणम् ? अत्र कारणभावात् इति हेतुः पक्षे नास्ति इति स्वूरपास्धिः अस्ति इत्युक्ते तत्र कार्यस्य कारणाभेदसाधनानि प्रमाणानि उक्तानि –
(१) पटस्तन्तुभ्यो न भिद्यते तन्तुधर्मत्वात्, यत् यतो भिद्यते तत् स्य धर्मो न भवति, यथा गौरश्वस्य, न चायं तथा, तस्मान्न तथा इति प्रथममनुमानम् । अत्र पटः पक्षः । तन्तुभेदाभावः साध्यम् । तन्तुधर्मत्वं हेतुः । यत् गौः यतः अश्वात् भिद्यते भिन्नः भवति तत् गौः तस्य अश्वस्य धर्मः न भवति । अत्र व्यतिरेकव्याप्तिः । यत्र तन्तुधर्मत्वाभावः तत्र तन्तुभेदाभावः । न चायं तथा पटः तन्तुभेदव्यापकः, तन्तुधर्मत्वाभववान् न, तन्तुधर्मत्ववानेव तस्मान्न तथा तस्मात् तन्तुधर्मत्वाभावाभावात् न तथा न तन्तुभिन्नः इति प्रथममनुमानम् ।
(२) तन्तुः तन्तुपटौ न अर्थान्तरौ (भिन्नपदार्थौ न) उपादानोपादेयभावात् (कार्यकारणभाववत्वात्) ययोरर्थान्तरत्वं तयोरुपादानोपादेयभावो न यथा घटपटयोः । इमौ तन्तुपटौ उपादानोपादेयभावाभाववन्तौ न तस्मात् उपादानोपादेयभावाभावाभाववत्त्वात् न अन्थान्तरत्वम् इति द्वितीयानुमानम् ।
(३) तन्तुपटौ उपादानोपादेयभावाभावाभववन्तौ न संयोगाप्राप्त्यभावात्, यत् कुण्डं यस्मात् बदरात् भिद्यते भिन्नो भवति तस्मात् कुण्डबदरौ अर्थान्तरौ । अथवा यत् हिमवात् यस्मात् विन्ध्यात् भिद्ध्यते तस्मात् तौ अर्थान्तरौ । तन्तुपटयोः संयोगो वा अप्राप्तिर्वा नास्ति, अतः इमौ नार्थान्तरौ । अथ पटः तन्तुभ्यो कथं न भिद्यते इति चेत् –
(४) पटः तन्तुभ्यो न भिद्यते गुरुत्वान्तरकार्याग्रहणात् यत् यस्मात् भिन्नं तत् तस्मात् तस्य गुरुत्वान्तरं कार्यं गृह्यते । अत्र पटः पक्षः, तन्त्वभेदः साध्यम्, गुरुत्वान्तरकार्याग्रणं हेतुः इत्युक्ते अन्यत् गुरुत्वं गुरुत्वान्तरम्, तस्य यत्कार्यम् अधिकतुलोन्नमनं तस्य अग्रहणात् अदर्शनात् इत्यर्थः । यत् तुलायामेकपार्श्वे विद्यमानम् एकपलात्मकं२ ग्रैवेयकं यस्मात् अन्यपार्श्वे स्थापितात् विंशतिपलात्मकग्रैवेयकात् भिन्नं तस्मात् विंशतिपलात्मकग्रैवेयात् तस्य एकपलात्मकं ग्रैवेयकं तत् गुरुत्वावान्तररूपं कार्यं गृह्यते । ननुअत्र गुरुत्वान्तराग्रहणात् इति कथनं विहाय गुरुत्वान्तरारपकार्यग्रहणमिति कार्यपदं कुतः निवेशितम्? इति प्रश्ने गुरुत्वान्तरस्य ग्रहणं नाम गुरुत्वान्तरस्य प्रत्यक्षः साक्षात्कारः इत्यर्थः ।
गुरुत्वान्तरस्य प्रत्यक्षेण अग्राह्यत्वात् गुरुत्वान्तरग्रहणमिति कथितुं न शक्यते । किन्तु कथं गुरुत्वान्तरस्य अस्तित्वं विज्ञायेत इति चेत् गुरुत्वान्तरस्य अवनतिरूपेण कार्येण गुरुत्वान्तरमनुमीयते । अत्र गुरुत्वान्तरस्य कार्यं प्रत्यक्षम् । तथाच गुरुत्वान्तरं कार्यानुमेयम् अप्रत्यक्षत्वे सति अवनतिकारणत्वात् । अतः गुरुत्वान्तरकार्यस्यैव ग्रहणं भवतीति गुरुत्वान्तरकार्यग्रहणमित्युक्तम् । तुलादण्डस्य उन्नमनावनमनाभावेन परिमाणपरिमेययोः समानता सूचिता भवति । यदा तु परिमाणनिष्ठगुरुत्वापेक्षया परिमेयगरुत्वस्याधिक्यं भवति । तदा परिमेयद्रव्यनिष्ठगुरुत्वस्य अवनतिरूपकार्यविशेषेण तुलादण्डः अधिकमवनमति । यदि पटः तन्तुभ्यः भिन्नः तर्हि तन्तुनिष्ठगुरुत्वकार्ययापेक्षया पटनिष्ठगुरुत्वस्य अवनतिरूपकार्यविशेषः दृश्यते । प्रकृते तुलादण्डे पटतन्तुनिवेशे अवनतिरूकार्यविशेषः न दृष्यते इति इमौ पदार्थौ न अर्थान्तराविति ज्ञायते । इत्येतानि कार्यकारणाभेदसाधकानि अवीतानुमानानि ।
एवं कार्यकारणोरभेदः अनुमानेन सिद्धः । अत्र पुनः नैयायिकाः कथयन्ति – उपर्युक्ताभेदसाधकानुमाने सत्प्रतिपक्षरूपदोषं वदन्ति साध्याभावसाधकं हेत्वरन्तरं यस्य विद्यते स सत्प्रतिपक्षः ।
(विशेषः -प्रकृतानुमितिप्रतिबन्धकानुमितिजनकज्ञानविषयत्वं सत्प्रतिपक्षदोषलक्षणम् । पटस्तन्तुभ्यो न भिद्यते तन्तुधर्मत्वात्, यत् यतो भिद्यते तत् स्य धर्मो न भवति, यथा गौरश्वस्य, न चायं तथा, तस्मान्न तथा इति अनुमाने प्रकृतानुमितिः पटः तन्तुभेदाभाववानित्यनुमितिः, तस्य प्रतिबन्धिकः या अनुमिति पटः तन्तुभेदाभावाभाववानिति अनुमितिः , तज्जनकं यज्ज्ञानं पटः तन्तुभेदाभावाभाववानिति अनुमित्यात्मकं ज्ञानम् । तद्विषयः तदीयोत्प्रत्याख्यक्रियाभेदः हेतुः तद्विषयत्वम् – तीयोत्पत्त्याख्यक्रेयाभेदे इति हेतुः सत्प्रतिपक्षदोषदुष्टः। )
पञ्चानुमानानां सत्प्रतिपक्षरूपदोषः उक्तः भवति । तद्यथा
पटः तन्तुभिन्नः तदीयोत्पत्त्याख्यक्रियाभेदात् इति प्रथमानुमाने, पटः तन्तुभिन्नः तदीयविनाशात्मक-निरोधभेदात् इति द्वितीयानुमाने, पटः तन्तुभिन्नः अयं पटः इति बुद्धिभेदात्, पटः तन्तुभिन्नः पट इति व्यपदेशभेदात्, पटः तन्तुभिन्नः प्रावरणाद्यात्मार्थकक्रियाभेदात् (पटस्य कार्यं तन्तुः कर्तुं न शक्नोति इति अर्थभेदः, तन्तुः आवरणयोग्यः न भवति) । इति सत्प्रतिपक्षः ।
पटात्मकतन्तौ क्रियाभेद-निरोधभेद-बुद्धिभेदव्यपदेशभेद-अर्थप्रियाभेदाः औपाधिकभेदाः (नैमित्तिकभेदा) ऐकान्तिकं स्वाभाविकं भेदं साधयितुं नार्हन्ति । इत्युक्ते क्रियाभेदादयः औपाधिकभेदाः पटतन्त्वोः स्वाभाविकं भेदं साधयितुं नार्हन्ति । तन्तौ पटस्य आविर्भावः भवति चेत् पटः जायते इति प्रतीतिर्जायते । यदि तिरोभावः भवति तर्हि पटः ध्वस्तः इति प्रतीतिर्जायते इति नास्ति काप्यनुपपत्तिः । यथा कमठस्याङ्गानि हस्तपादादीनि कूर्मशरीरे अन्तर्निविशमानानि अदृश्यानि भवन्ति, बहिरागच्छन्ति न तु कूर्मात् उत्पद्यन्ते अथवा प्रध्वस्ता भवन्ति । एवमेव घटः मृदः घटविशेषा आविर्भवन्तः उत्पद्यन्ते । अथवा सुवर्णात् मुकुटादिविशेषाः आविर्भवन्तः उत्पद्यन्ते । निविशमानाः अदृश्याः भवन्ति विनश्यन्तीति व्रवह्रियन्ते । न तु असतः सज्जायते, सतः वा निरोधः वक्तुं शक्यते । उक्तं च भगवता बादरायणेन भगवद्गीतायां – नासतो विद्यते भावो नाभावो विद्यते सतः (भगवद्गीता २.१६) असतः भावः (उत्पत्तिर्नास्ति) , सतः अभावः (नाशः) नास्ति इति । अथ बुद्धिभेदोऽपि कार्यकारणयोः भेदसाधकः न भवति – कमठः स्वावयवहस्तपादादिभ्यः सङ्कोचाविर्भावेभ्यः बुद्धिभेदे अपि (अयं हस्तः,अयं कमठः इति बुद्धिभेदे सत्यपि) यथा न भिन्नः एवमेव पटघटादयः स्वकारणीभूतमृच्चामीकरादिभ्यो भिन्नाः न भवन्ति । अत्र व्यपदेशभोऽपि कथयितुं न शक्यते – समूहादेकदेशो भिद्यते इति न्यायेन वने तिलकाः इत्यत्र वनतिलकयोः३ व्यपदेशभेदे सत्त्वेऽपि यथा तिलकं वनान्न भिद्यते एवमेव पट-तन्त्वोः व्यपदेशभेदे सत्यपि तौ न अर्थान्तरौ । अपि च अर्थक्रियाभेदः (प्रावराद्यर्थक्रियाभेदः) अपि कार्यकारणयोः भेदं न साधयति । वस्तुनः एकत्वे सत्यपि लोके तस्यैव भिन्नाः क्रियाः दृष्टाः यथा अग्निरेव पचति, अग्निरेव अर्थं प्रकाशयति, स एव दुःखं जनयति । एवमेव भागवते श्रीकृष्णपरमात्मा एकश्चेदपि अशनिक्रियावा, स्मरक्रियावान् इत्यादिभिन्नक्रियावान् दृष्टः ।
तदुक्तं श्रीमद्भागवते –
मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।
मृत्युर्भोजपतेर्विधातृविहितस्तत्वं परं योगिनां
वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ।। इति ।
अपि च अर्थक्रियाभेदः कार्यकारणोर्भेदसाधने कारणं भवितुमर्हति – तन्तुः पटकार्यभूतावरणक्रियां न करोति खलु इत्युक्ते ते तन्तवः व्यस्ताः वा समस्ताः (अव्यवहिततया स्थिताः) अर्थक्रियाव्यवस्थां प्रावरणादिरूपां कुर्वन्ति । यथा प्रत्येकं शिबिकावाहकाः मार्गदर्शनमेव कुर्वन्ति । एकः एव शिबिकां न वहति । सर्वे मिलित्वा शिबिकां वहन्ति । एवमेव तन्तवः प्रत्येकं प्रावरणं न कुर्वन्ति चेदपि मिलित्वा आवरणादिक्रियां कुर्वन्ति । इति न सत्प्रतिपक्षः ।
अत्र नैयायिकाः पुनः साङ्ख्यवादिनमाक्षिपन्ति –
अत्र आविर्भावः असाधारणकारणव्यापारात् पूर्वं सन् वा असन् वा ? यदि असन् इत्यङ्गीक्रियते तदा सिद्धसाधनता । यदि सन् इत्यङ्गीक्रियते तर्हि कारणव्यापारस्य प्रयोजनं किं भवति। यदि तन्तुरेव पटः तर्हि पटस्य आवश्यकता का अस्ति । अथ च कारणव्यापरस्य आविर्भावः प्रयोजनमित्युक्ते अनभिव्यक्ताविर्भावः पूर्वम् अनभिव्यक्तः । तस्य अभिव्यक्तये अन्यस्य अभिव्यक्तिः । तस्य अभिव्यक्तये अन्यस्य अभिव्यक्तिः इति अभिव्यक्तिपरम्परया अनवस्था स्यात् । इति वदन्ति । अस्य आक्षेपस्य समर्पकं समाधानं साङ्ख्यशास्त्रे न उपलभ्यते किन्तु परमते अपि समानं दोषमुद्भाव्य स्वसिद्धान्तः स्थाप्यते –
एवं वक्तुं त्वया न शक्यते । यतो हि असतः सज्जायते इति भवन्मते अपि अयमेव दोषः अस्ति । असतः सज्जायते इत्यत्र उत्पत्तिः सती वा असती वा ? सती चेत् तुरीवेमादेः आवश्यकता न स्यात् । असती चेत् तस्या उत्पत्तिः पूर्वमनुत्पन्ना । तस्या उत्पत्तिः पूर्वमुत्पादनीया । साप्युत्पत्तिः अनुत्पन्ना, अतः तस्या अपि उत्पत्तिः अपेक्षते । तस्या अपि अन्या उत्पत्तिरुत्पादनीया इति उत्पत्तिपरम्परया अनवस्था स्यात् । अतः तूष्णीमास्स्व ।
नन्वथापि उत्पतिः पटात् न अर्थान्तरम् । अपि तु पट एव इयमित्युक्ते पटः इत्येवदुच्चारणेन उत्पद्यते इति ज्ञानं जायते । । अतः पटः इत्युक्ते अग्रे उत्पद्यते इति न कथनीयम् । पुनरुक्ततारूपदोषसद्भावात् । पटः इत्युक्ते उत्पत्तिः इति कारणतः उत्पत्तिः उत्पत्तिः इति पौनरुक्त्यं स्यात् । विनश्यति इत्यपि वक्तुं न शक्यते । पटः उत्पत्तिः । उत्पत्तिविनाशयोः युगपत् एकत्र विरोधः दृष्यते इति कारणतः ।
अपि पटोत्पत्तिः पट एव इति त्वया उच्यते । पटोत्पत्तिः नाम स्वकारणभूततन्तौ समवेतत्वं वा, पटरूपकार्ये सत्तारूपजातिसमवायो वा । पक्षद्वये अङ्गीकृते अपि उत्पत्तिर्नोत्पद्यते । स्वम् – पटोत्पत्तिः । स्वकारणं तन्तुः । तस्मिन् तन्तौ समवायसम्बन्धरूपपटोत्पत्तिः अपि अस्ति । अतः पटोत्पत्तौ पटमात्रधर्मता कथितुं न शक्यते। यदि स्वसत्तासमवायः अङ्गीक्रियते तर्हि स्वं – पटकार्यम् । तस्मिन् यः स्वसत्ताजातिः अस्ति तस्य समवायात्मिका पटोत्पत्तिः नाम स्वसत्तासमवायः एव पटोत्पत्तिः इति वक्तव्यम्। किन्तु उत्पत्तेः उत्पत्तिः असम्भवा भवति । यदि समवायः नित्यः तर्हि असता पटेन सह समवायसम्बन्धः कथं, स्वजातिसमवायो वा । यतः असति सत्सम्भवस्य असम्भवात् । अतः पटः अपि सन् इति कथनीयम् । कार्योत्पत्तिरूपप्रयोजनार्थं तुरीवेमादिकारणव्यापाराणामावश्यकता त्वया अङ्गीकृता । तथैव मम मते कारणव्यापारात्पूर्वमपि सतः पटादेः आविर्भावरूपकारणव्यापारः अपेक्षितः ।
अथाऽपि पटरूपेण कारणानां सम्बन्धः अङ्गीक्रियते इत्युक्ते सोऽपि न अङ्गीकर्तुं शक्यते । पटरूपं – गुणः । तस्य परिणामादि स्वरूपं गुणः न क्रिया । कारणस्य तन्तोः तत्कार्यकार्यभूतपटरूपस्य सम्बन्धः नास्ति । अर्थात् स्वकारणस्य पटस्य यत्कारणं तन्तुरूपं तस्य अन्यथासिद्धिः भवति । इति आक्षिपन्ति ।
अत्र व्यापारद्वारा व्यापारवानन्यथासिद्धो न भवति । यथा घटोत्पादने व्यापारः चक्रभ्रमणम् । व्यापारवान् दण्डः तस्य अन्यथासिद्धिं कथितुं न शक्यते। तुर्यादिव्यापारवद्द्वारापटादिव्यापारेण पटादिस्वरूपं परिमाणादि उत्पद्यते । अतः अनयोः असम्बद्धता नास्ति । अत्र तुर्यादिकारणानां तत्कार्यभूतपटेन जन्यजनकभावसम्बन्धः भवति न तु अकार्यरूपकार्यकार्येण पटरूपेण सह इति ।
अत्र वैयाकरणानां सिद्धान्तः – क्रियासम्बन्धित्वं कारकत्वम् । तदनुसारेण पटरूपे गुणे वैयाकरणाभिमतक्रियात्वं न भवति इति तेन सह सम्बन्धः अपि कथयितुं न शक्यते। अत्र च व्याप्तिरस्ति – यत् कारकं (तन्तु) तत् क्रियासम्बन्धि (पटरूपसम्बन्धि) । एवञ्च यत्र क्रियासम्बन्धित्वाभावः तत्र कारकत्वाभावः । अत्र कारके तन्तौ पटरूपक्रियासम्बन्धित्वं नागच्छति इति कारकत्वं तन्तोर्नागतम् । तस्मात् सत्कार्यवादः निर्दुष्टः अस्ति । अस्मिन् कथमपि किम्प्रकारेणापि दोषाः न उपलभ्यन्ते । तस्मात् कारणव्यापारात्पूर्वमपि कार्यं सदेव इति सिद्धान्तः निर्बाधितः ।।
साङ्ख्यागमाब्धिसम्भूतभ्रभ्रंषितचेतनः ।
गुरुकारुण्यनावाद्य पारगः साङ्ख्यसागरात् ।।
प्रबन्धेऽस्मिन् भवा दोषाः स्वीयकारुण्यधारया ।
क्षम्यन्तां गुरुभिः सर्वे नीरक्षीरविवेकिभिः ।।
।।श्रीकृष्णार्पणमस्तु।।
Foot Notes
- अनुश्रूयते गुरुमुखादित्यानुश्रवो वेदः अध्यात्मादेष्ठञिष्यते (वा.४.३.६०) इति वार्तिकेन ठञ्प्रत्ययः
- पलम् – मानं तुलाङ्गुलिप्रस्थैर्गुञ्जा पञ्चाद्यमाषकः । ते षोदशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् इत्यमरेण तस्य परिमाणम् 5 गुञ्जा = 1 आद्यमाषक । 16 आद्यमाषक = 1 कर्ष । 4 कर्ष = 1 पलम् । 100 पलं = 1 तुला (11.6 grams) इति भाषायाम् । 20 तुलाः (232 grams) = 1 भारः तादृशभारशतात्मकं किरीटं (23.2 K.G) तिरुपतिवेङ्कटेशः शुक्रवासरे धरति ।
- तिलकः – तिलकः क्षुरकः श्रीमान् इत्यमरः । वृक्षविशेषः ।
- उपादानम् – कृत्यल्युटो बहुलम् [३.३.११३] इति कर्मार्थे ल्युट्प्रत्ययः।
Bibliography
- ईश्वरकृष्णविरचितसाङ्ख्यकारिकाव्याख्या साङ्ख्यतत्वकौमुदी (तत्वप्रकाशिकाहिन्दीव्याख्यासहिता) – चौखम्बा संस्कृत सीरीज् आफिस् वाराणसी
- पाणिनिमहर्षिविरचिता अष्टाध्यायी – दीक्षितपुष्पाकृतप्रकरणनिर्देशसमन्विता – संस्कृतभारती नवदेहली
- अमरसिंहविरचितं नामलिङ्गानुशासनं नाम अमरकोषः (कन्नडभाषायाम्) – रङ्गनाथशर्मा – रामकृष्णाश्रमः मैसूरु
- ashtadhyayi.com/ अन्तर्जालपुटः । – श्रीमान् नीलोशः बोडस ।
- शब्दार्थकौस्तुभः -प्रायौगिकसंस्कृतकर्णाटकशब्दकोशः – विद्वान् चक्रवर्तिश्रीनिवासगोपालाचार्यः । बाप्को प्रकाशनम्, बेङ्गलूरु प्रेस्, बेङ्गलूरु
- श्रीमद्भागवतम् (विजयध्वजीयपाठानुसारि) – विद्वान्.पि.एस्.शेषगिरि-आचार्यः – पूर्णप्रज्ञसंशोधनमन्दिरम्, बेङ्गलूरु २०१६।
- तर्कसङ्ग्रहः – न्यायबोधिनी-विषयमालासमहितः – डा.ए.वि नागसम्पिगे, डा.माधवाचार्यः पाण्डुरङ्गि – पूर्णप्रज्ञसंशोधनमन्दिरम्, बेङ्गलूरु ।