न्यायप्रवृत्तिः नाम न्यायेन प्रवृत्तिः । न्यायश्ब्दश्च धर्मापरपर्यायः । स च धर्मः वेदैकसमधिगम्यः । वेदश्च अपौरुषेयत्वेन स्वतः प्रमाणभूतः । स सर्वधर्माणां आश्रयभूतः । अत एव वेदोखिलो धर्ममूलम् इत्युक्तं भागवते । वेदोक्तः धर्मः दुरूह्यः दुर्निरूप्यः दुरधिगम्यः दुरनुष्ठेयश्च सर्वमानवैः । स च वैदिकधर्मः सदृष्टान्तं निरूपतः व्यासरूपिणा स्वयं नारायणेन । कोह्यन्यः पुण्डरीकाक्षात् महाभारतकृद्भवेत्, नष्टधर्मलोककृपालुभिः ब्रह्मादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार इत्यादिवचनैः विज्ञायते । पञ्चमो वेदानां वेदः इति महाभारतस्य पञ्चमवेदत्वं शास्त्रेषु प्रथितम् । स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने इति महाभारते यो धर्मो निरूपितः, स ब्रह्मज्ञानसम्पादनायालं इति तत्रैवाभाणि सत्यवतीवशंवदेन व्यासेन ।।
एवं धर्मप्रवृत्तस्य सकलपुरुषार्थसम्पत्तिः सम्पत्स्यते । न्यायप्रवृत्तस्य न केवलं दैवमेव सहकरोति अपि तु लौकिकाः किमुत पशवः, प्राणिनः, स्थावराः, जङ्गमाः सर्वेपि सहकुर्वन्ति । रामायण, महाभारतादिदृष्टान्तेन वयमेतत् सदृष्टान्तं विज्ञातुं प्रभवामः ।
रामायणे न्यायप्रवृत्तस्य रामस्य तिर्यञ्चोपि कपयः सहायकाः किल । तथैव न्यायप्रवृत्तानां पाण्डवानां च देवाः, नरपतयश्च, ऋषिपुङ्गवाश्च सहायकाः अभूवन् । यश्च न्यायादपेतो भवति तं स्वकीयजनाः अपि मुञ्चन्ति । स्वावरजोपि विभीषणः रावणं व्यमुञ्चदिति नैतदाश्चर्यम् । दुर्योधनं च अधर्मप्रवृत्तं विदुरादयः व्यमुञ्चन् । स्वानुजः युयुत्सुरपि तं विहाय पाण्डवपक्षं प्रविवेश ।
अतः श्रोयोभिलाषिभिः सज्जनैः न्यायमार्ग एव अनुसर्तव्यः । अधर्ममार्गः त्यक्तव्यः ।
एतदेवोक्तं अनर्घराघवे –
यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोपि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चति ।। – अनर्घराघवम्