गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

वेणीसंहारं, नवरसमयसमभावं, नवनाटकसंभारम् .

भीमसेनघनगर्जितसारं, द्रौपदीहृदयशल्यापहारम् … वेणी

दुर्जनसंहारं, दुर्योधनकृतवैरं, प्रकृतमहासमरमतिघोरं,

रुधिरप्रियवसागन्धविहारं, अतिरथमहामहारथवीरम् – 1

अश्वत्थामपितृशोकं रविजगुरुजवाग्द्वन्द्वविरावं

भीषणदुःशासनदुर्मरणं भीमविहित-रुधिरासवपानम्  – 2

दुष्टचार्वाककुटिलप्रमोषं, धर्मजविजयविनोदं,  मधुसूदनकृतप्रसादं

व्यासभार्गवमुनिवृन्दनन्दितं सज्जनहृदयाह्लादनिदानम् – 3

रचयिता – डा. राघवेन्द्राचार्य राचूरि, सङ्गीतं गायनं च – तिरुमले श्रीनिवासः
Posted in

Leave a comment