
देदीप्यते मे चित्तरङ्गे भारद्वाजद्रौणिदौर्योधनिधार्तराष्ट्रैकहिंस्रः अर्जुनसुभद्रामन्दानन्दः अभ्यस्तविद्यास्त्रः कृष्णात् कार्ष्णिः प्रतिदिवसोपजायमानोदयः पाण्डवलक्षणोपबृंहितः पुत्रीभूतपरीक्षित् कौरवपर्वतद्युमणिः भेरीव सकलज्ञातस्वनः कुमारः सौभद्रो नाम । उपमितनवेन्दुवंश्यप्रदीपः दारकृतोत्तरः पद्मव्यूहस्फोटकः सदसत्प्रीत्यप्रीतिकरणेन उपमितेन्दुद्युमणिः सः श्रुतपद्मव्यूहोत्क्रमणः अर्जुनेन अवायत् भियम् । अकोकत विद्याम् । नित्यमच्योतत् स्वभक्तिसस्यम् । अरोठदरिचक्रम् ।
आजिदिग्गजानामपि भीकरे समरे एकः प्रविष्टो ह्यष्टादशहायनः सिंहशावक इव बलिष्ठसंहननः लक्ष्मणमलक्षमं विदधौ । बाणैः प्रस्वेदितकुरुभारद्वाजाङ्गप्रवीरः तैः कपटेन पटुतरं छेदितगात्रोऽपि पटुतया तान् न्यरुणत् । विधिभ्रूविभ्रमेन तैः पापैः वञ्चतः धरामश्लिक्षत् । हीनप्राणस्यापि समज्ञा व्याश्नुते अधुनापि ! अतः
महात्मनां कीर्तिरलं जीवत्येव भवेन्नहि ।
गुणबाहुल्यवन्नॄणां मरणेऽप्यापगायति ।। (मदीयः श्लोकः)
टिप्पणी
कार्ष्णिः – अर्जुनः । तदुक्तम् –
व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामिस्रयक्षकलिनीलगुणेषु कृष्णः इति भास्करः
द्युमणिः – द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विभावसुः इत्यमरः
उपमितनवेन्दुवंश्यप्रदीपः – नवश्चासाविन्दुश्च नवेन्दुः । नवेन्दोः वंशः नवेन्दुवंशः । नवेन्दुवंशे भवाः नवेन्दुवंश्याः । दिगादिभ्यो यत् (४.३.५४) इति यत् प्रत्ययः । नाम उदयमानचन्द्रवंशप्रसूतयः । नवेन्दुवंश्यानां प्रदीपः नवेन्दुवंश्यप्रदीपः । कृष्ण इत्यर्थः । उपमितः नवेन्दुवंश्यप्रदीपः येन (अभिमन्युना) सः उपमितनवेन्दुवंश्यप्रदीपः ।
अकोकत विद्याम् – विधिपूर्वकं गुरुमुखात् विद्यां जग्राह । कुक आदाने ९१ इत्यतो लङात्मनेपदम् ।
अरोठत – रुठ प्रतिघाते ३३६। प्रतिघातः पीडनम् । अपीडयदित्यर्थः ।
नित्यमच्योतत् स्वभक्तिसस्यम् – स्वस्मिन् विद्यमानभक्ताख्यसस्यं सदा आसिषेच । च्युतिर् आसेचने ४० । आसेचनम् – आर्द्रीकरणम् । ईषत्सेकः ।
अवायत् – शुष्कं चकार । ओवै शोषणे ९२१ ।
समज्ञा – कीर्तिः । यशः कीर्तिः समज्ञा च इत्यमरः ।
व्याश्नुते – प्रसरति । वीत्युपसर्गात् अशू व्याप्तौ १७२७ ।
महात्मनां कीर्तिरलं जीवत्येव भवेन्नहि । गुणबाहुल्यवन्नॄणां मरणेऽप्यापगायति ।। (मदीयः श्लोकः)
महात्मनां यशः तेषु जीवत्स्वेव प्रसरतीति न । किन्तु गुणस्य बाहुल्यं येषां नराणां वर्तते तेषां मरणे सत्यपि गङ्गावत् प्रसरति