गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

Category: Uncategorized

  • सर्वेपि अद्य कोविद्-२०१९ इत्यस्मात् वैराणोः संत्रस्ताः । सकलमपि विश्वं भयभ्रान्तमकरोत् अयं वैराणुः । न कोपि देशः अद्यत्वे अवशिष्टः यः अनेन वैराणुना अपरिमृष्टः । अतिसुलभतया अन्यसङ्क्रामकत्वमेव एतस्य बलम् । केवलं सम्पर्कमात्रेण एकस्मात् पुरुषात् अन्यपुरुषं संक्रम्य तमपि कोविदं (कोविद्-ग्रस्तं) करोत्येष वैराणुः । यद्येवं सर्वेपि अनया भङ्ग्या कोविदः भवेयुः तर्हि नारायणावतारस्य भगवतो व्यासस्य किं कृत्यं अवशिष्यते । मन्दजनान्…

  • नमः सर्वेभ्यः,     अहं आचार्य राघवेन्द्रः । संस्कृतच्छात्राणां भवतां समेषां अभिनन्दनानि आशीर्वचांसि च । भवन्तः सर्वे जानन्त्येव यत् संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति जेगीयमानायाः संस्कृतमातुः वरपुत्राः वयं एतद्देशप्रसूताः प्रगल्भभारतीयाः । प्रतिवर्षं श्रावणपूर्णिमायां विश्वसंस्कृतदिनस्य आचरणं विश्वाद्यन्तं संस्कृतप्रेमिभिः क्रियते । आत्माश्रमेपि एष्यत् श्रावणपौर्णिमायां विशेषतया संस्कृतदिनाचरणं भविष्यति । विशेषपूजा, पारायणं, भजनं, संस्कृतकार्यक्रमाश्च तस्मिन् दिने आयोजयिष्यन्ते…

  • श्रीजयतीर्थगुरुभ्यो नमः लक्ष्मीरक्षीणचक्षुः कलुषविघटनातिक्षमप्रेक्षणान्ता पक्षीशाविष्टरेक्षाक्षरणविलसितप्रेक्षणाक्षीणभूतिः । संक्षुब्धानेकभङ्गोच्छिशिरकरमहाकर्षणोद्भूतमूर्तिः चक्षुःक्षोभाप्तभूतिः कलयतु लयलेशाक्षतोरुप्रबोधा ।।1।। तस्यार्थश्च- कलुषविघटनातिक्षमप्रेक्षणान्ता यदपाङ्गतः पापौघनाशः पक्षीशाविष्टरो भगवान् तस्येक्षाक्षरणतो विलासितप्रेक्षणा शोभनेक्षणा अक्षीणभूतिः । संक्षुब्धः अनेकभङ्गः समुद्रः भङ्गस्तरङ्ग ऊर्मिरिति । उच्छिशिरकरश्चन्द्रः तस्य महाकर्षणवान् यः सुमद्रः तत्रोद्भूतमूर्तिः चक्षुःशोभया आप्ता सृष्टाद्यनेकभूतिः लयेपि अक्षता अविनावदखिलचेतना लक्ष्मीः अक्षीणचक्षुः कलयतु प्रददातु । समेषां वरलक्ष्मीमहस्य शुभाशयान् प्रेषयत्ययं जनः ।। श्रीकृष्णार्पणमस्तु

  • कविकुलचूडामणिः माघः

    निश्चप्रचं यत् सुमधुरसरसभरितगीर्वाणवाण्यां संस्कृतभाषायां नानाविधविकटकाव्यानि राराज्यन्ते इति। तानि काव्यानि जनमनोविकासाय विद्यन्ते। तेषां काव्यानां समुद्रायमानेषु साहित्यक्षेत्रेषु काव्यानि रत्नायमानानि भवन्ति। यदि एतानि काव्यानि रत्नायमानानि तदा तेषां कर्तारः रत्नप्रकाशा इव दरीदृश्यन्ते । तेषां कवीनां पाण्डित्यपदलालित्ये तेषु काव्येषु प्रतिसर्गं प्रतिपादं दोदुह्येते१ च प्रकटीकुरुतः। एतानि काव्यानि मिथः संस्पर्धन्त एव भान्ति । कवीनां शिखिस्वरैः२ रसिकानां मनांसि आकर्ष्यन्ते। अधुना अहं कविकुलमुष्टिंधमस्य३ कविचूडामणेः…

  • श्रीजयतीर्थगुरुभ्यो नमः पुरासीत् ऋषिवरोऽभीष्टसम्पूरघनाघनो अष्टापदत्विण्मिषप्रकाशितास्यो नष्टमनीषोद्धृतिपराशरात्मजाभक्तानुश्रवसंरतोत्कृष्टधराधरेन्द्राधृतव्रततिततिप्रतिमसटाघटोधृष्टानेकमानिनीनेता सम्मृष्टसत्तत्वो मुनिः कश्यपो नाम । सत्सोर्वीषु योषासु पतिगतिमतिरदितिर्नष्टात्मतनयविभवानुनययुगमलपदयुगनया सा पतिमाह । यथा पठन्ति भागवताः – ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ।। इति तदोवाच कश्यपः भद्रे भद्रं काद्रवेयभोगाभोगिनं मुदा उपतिष्ठस्वेति । शिशिरे हि शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते पयोव्रताभिधं लोकेशगीतं लोकेशेशप्रतोषमिदमाचरेति ।…

  • प्रिय संस्कृतबन्धो, संस्कृतेन संभाषणं दिनं दिनं अस्माकं यशोवर्धनम् । किल विद्यालयविजयलाञ्छनं गुरुचरणानामेतदञ्चनम् ।। मन्ये नैतदविदितं भवतां संस्कृतं अस्माकं देशभाषाणां मातृरूपेण विराजते इति । अस्माकं देशे बहूनि राज्यानि सन्ति यत्र विभिन्नाः भाषाः प्रोच्यन्ते । उत्तरे देशे हिनदीं तद्विकाराः भाषाः विद्यन्ते । दक्षिणे तेलुगु, तमिल् , कन्नड, मळयाळम् इत्यादयः भाषाः प्रोच्यन्ते । पश्चिमे देशे कोङ्कणि, तुलु, मराठी…

  • कश्चित् कोविदनामकोसुरवरो बंभ्रम्यमाणो भुवि चीनादेशसुलब्धजन्मविभवो नागात् सुतृप्तिं क्वचित् ।। नानादेशजनादनोददहनो दृप्तो हिरण्याभिधस् तं त्वं संहर संहराशुनखराग्रेतं नृसिंहाग्रणीः ।। कोविद् नामकः कश्चन असुरः चीनादेशे जातः । साम्प्रतं सः विजृम्भते सर्वदेशगतजनान् सः संहरति दुःखं च ददाति । एवंभूतोपि स अधुनापि तृप्तिं न प्राप । हे सर्वोत्तम नरसिंह, त्वं तं सद्य एव स्वनखराग्रगतं कृत्वा संहर संहर इति प्रार्थना…