गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
recent posts
about
Category: Uncategorized
-
गोपीसङ्गीतभङ्गीमधुरितमधुरस्वात्महृत्सङ्गिचोरः श्रृङ्गारापाङ्गवीक्षोत्किरदमरमनोमोहिनीकान्तिकान्तः । सोत्तुङ्गाङ्गस्थरम्यस्वधरसृतसुधावातरेणुस्ववेणुः स्पर्धल्लक्ष्मीस्वमालः कलयतु धिषणां गोपलीलः सुबालः ।। श्रीकृष्णपादरजसा परिपावितायां द्वारावतीपुरि विचन्द्रवने समुद्रः । तद्रम्यकाम्यदमुखाम्बुजदर्शनेन तत्सङ्गवर्धिततरङ्गनिजाङ्गकोऽभूत् ।। भ्राजद्गोकुलवल्लवे तदबलावृन्दस्मिते मन्दिरे वल्लीफुल्लसुमल्लिकाकलितसद्दोलासुलोलस्य ते । आस्यस्यन्दिसुधाम्बुचुम्बितनिषादादिस्वरां त्वन्मुखात् गोपस्वापदवेणुनादलहरीं श्रोष्यामि कस्मिन् युगे ।। सदा सदागतिस्तुतं वने वनेचराकृतिं सुरासुरार्तिजन्मदं कलौ कलौकसं प्रभुम् । समन्युमन्युखण्डिनं रमारमत्स्ववक्षसं मुदा मुदाकृतिं समानमामि गोपगोपतिम् ।। वन्दे कुन्देन्दुलक्ष्मीहरमधुरसुमन्दस्मितं वन्दिदेश- न्देवं गोपीभुजोरुव्रततिपरिवृतं सेन्दिरावन्दिताङ्घ्रिम् ।…
-
श्रीजयतीर्थगुरुभ्यो नमः बन्धीकृता इन्द्रमुखामराः श्रीर्दितिप्रजागन्धमहेन चेति । भुवङ्गता सत्कविमेरुमूर्धविराजिता नापि निवर्ततेधुना । जृम्भद्भास्वरशब्दवारशुभगर्भोद्भूतसुस्पष्ट- सच्छब्दार्थायुगमन्दबोधरसनासीमासमाभासना । सन्मेरूत्तमतुङ्गमङ्गलमहामूर्धोल्लसत्पिङ्गला- नङ्गाशङ्कितसत्किरीटविमला राराज्यते देवगीः ।। श्रीकृष्णार्पणमस्तु
-
चञ्चलभुजहस्तन्यस्तविपक्षदक्षदमनोद्भासिगदाविपुलविहृतिभयस्विन्ननिजदुर्बलाङ्गः दृष्टपितामहाचार्यानुजराजविपत्तिः तप्ता आम्बिकेयतोकः । अचाल्यवीर्यः सचतुर्दशेऽहनि प्रचूर्णसक्थ्यस्थिरभूद्यदङ्गतः । अयं जरासन्धबलार्धभाग्भवन् मूहूर्तकेनेन निपात्यतेऽत्र ।।१।। यदङ्गसङ्गादपि शैशवेऽस्य शतं विभक्तो गुरुसानुरद्रिः । तेनैव वैरं परिवर्धयित्वा नूनं धरयां पतति प्रणष्टः ।।२।। वनेचरो वन्यपलादहिस्रो दोर्दण्डसङ्खण्डितचण्डदैत्यः । जायापमानोत्थकृधा समेत्यं नूनं पिनष्टीश्वरमाजिमुख्ये ।।३।। सेनाचरो गोगणनामिषेण सस्त्रीस्वमित्रो विगतस्वराज्यान् । पार्थान् सकृष्णानवतप्यमानान् पुनः पुनस्तापयितुं खलोऽसौ ।।४।। तदेतगन्धर्ववधूसुकामुको ज्ञातो तदीयै परिनीयमानः । हा तात…
-
।।श्रीः।। श्रीलक्ष्मीवेङ्कटेशाय नमः । श्रीमदानन्दतीर्थभगवत्पादाचार्यगुरुभ्यो नमः श्रीजयतीर्थगुरुभ्यो नमः श्रीगणेशाय नमः साङ्ख्यकारिकाव्याख्यायां साङ्ख्यतत्त्वकौमुद्यां सत्कार्यवादनिरूपणम् अन्तरात्मा राचूरि । antaratmarachuri@gmail.com प्रणम्य गुरुपादाब्जं स्तुत्वा नारायणं प्रभुम् । सत्कार्यवादस्य मया क्रियते प्रतिपादनम् ।। इह खलु सकलप्राणिनां त्रिविधदुःखनिरसनपूर्वकं शाश्वतसुखावाप्तेः हेतुभूतं कमपि उपायं मार्गयित्वा याज्ञिकहिंसा अनभ्युपायमिति मत्वा तत्र भवान् ईश्वरकृष्णः तद्विपरीतः श्रेयान् (सा.का 2) इत्युक्तदिशा प्रशस्ययोः१आनुश्रविकवेदसत्वपुरुषान्यतासाक्षात्कारयोर्मध्ये सत्वपुरुषान्यतासाक्षात्कारं श्रेयःसाधनमिति प्रतिपाद्य शास्त्रमारेभे । श्रोतृधीसमवधानाय…
-
ननु भुवि भारते वशीकृतसरस्वत्यः अधीतिबोधाचरणप्रचारणाः स्वशास्त्रप्रणेतारः स्वशास्त्रं प्रवर्तयन्तः आसन्। इह भारते दर्शनानि षडेव वर्तन्ते प्रधानानि – काणादस्याक्षपादस्य व्यासस्य कपिलस्य च। पातञ्जलेर्जैमिनिश्च दर्शनानि षडेव हि।। इति वचनात् काणादः वैशेषिकदर्शनप्रवर्तकः, अक्षपादः न्यायदर्शनप्रवर्तकः, वेदव्यासः वेदान्तदर्शनप्रवर्तकः, कपिलः साङ्ख्यदर्शनप्रवर्तकः, पतञ्जलिः योगदर्शनप्रवर्तकः जैमिनिः मीमांसादर्शनप्रवर्तकः इति । तत्र किं नाम दर्शनं इति प्रश्नः घटते । दर्शनमित्यस्य दृश्यते (ज्ञायते) (आत्मा) अनेन इति दर्शनम्…
-
वीक्षस्व । सम्प्रत्ययं प्रावृट्कालः । नभः इरम्मदस्रक् बलाहकैः सञ्छन्नं भाति । नीलोत्पलाभकान्तयः मेघाः मिमते । सर्वत्र वृष्टिधाराः धरणीमार्द्रयन्ति । पृथिवीरेणूत्किराः वाताः वान्ति । अयं कालः चातकानां मोदकालः । आब्दं तृषा परिक्लिष्यमाना स्वदाहं वृष्टिपयसा शमयन्ति । पश्य सर्वे नरः शैत्येन त्रस्ताः स्वीयेषु निवा-सेषु वसन्ति । किन्तु कृषीवलाः वृष्टिमविलक्ष्य क्षेत्रे यवान् वपन्ति । जलाशयाः पूर्णसलिलाः जननयनानि आकर्षन्ति…
-
सकलसुगुणधाम्नः साकेतपूरीधाम्नः श्रीरामनाम्नः दिव्यनाम जयश्रीराम जयश्रीराम इति जेगीयत्कोटिकोटिभक्तवृन्दैरद्यावधि स्रवन्नयनसुनिरीक्षितवेलासम्प्राप्ता इति कस्येदानीं चेतः नानन्दतुन्दिला । ममापि च मानसे रामोत्सवानन्दजनितवेगः कश्चन मां मुखरयति अनवद्यपद्यगुम्फनाय । यथा हि – नृत्यत्यद्यवसुन्धरा तनुरुहप्रोत्फुल्लरोमाञ्चिताखेलत्तुङ्गविहङ्गमेन्दुवदनस्वच्छन्दमन्दस्मिता ।कूजत्कोकिलकम्रकण्ठकवनस्वानन्दसंपूरिता ।श्रीसाकेतपुरीपरापरिलसद्रामालयाडम्बरा ।। जय श्रीराम जय श्रीराम जय जय श्रीराम!!!
-
मोमुद्यते मे स्वान्तं यदद्य आत्माश्रमगुरुकुले श्रावणपौर्णिमाचन्द्रकिरणपरिशोभिते विश्वसंस्कृतदिवसे प्रतिदिनं प्रवर्त्यमानायाः संस्कृतदीपिकायाः छात्रैः सह कार्यक्रमः अन्तर्जालद्वारा प्रचलितः इति । अस्मिन् नैके छात्राः भागमवहन् । पञ्चवादने अनन्त-श्रीराम-लक्ष्मीनारायणानां मधुर-वेदवाण्या अयमुत्सवः प्रारब्धः । अनन्तरं भगवत्पादैः मध्वाचार्यैः विरचितस्य महाभारततात्पर्य-निर्णयस्य रामवर्णस्तोत्ररूपं गीतं शुभाङ्गान्तरात्मानौ अगायेताम् । ततः शुभाङ्गः सुभाषितमुवाच । अन्तरात्मा काव्यवाचनं,आत्माश्रमस्य परिचयं चाकरोत् । ततः संस्कृतदीपिकामाध्यमेन पञ्चसु दिवसेष्वेव आचार्याणां राचूरि-आचार्याणां मार्गदर्शनेन शिक्षितसंस्कृताः…