गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
recent posts
about
Category: Uncategorized
-
श्रीजयतीर्थगुरुभ्यो नमः
-
उन्नीलोत्पललासकाब्जललनापर्यङ्कलासः प्रभु- र्मौर्वीशिञ्जितरञ्जकारवचणः सोमाभमौञ्जीधरः । स्वीयापाङ्गविलासलासितसुरो लावण्यवारां निधिः सौधामोदकरम्भसम्भृतहृदः स्वापाङ्गहासैः क्रियात् ।। (स्वकीयः श्लोकः)
-
श्रीजयतीर्थगुरुभ्यो नमः अम्बाचुम्बितचन्द्रबिम्बवदनं साम्बोर्वपाङ्गोन्नतं डिम्भाकारमरन्दसम्मधुकरम्भोरुप्रियं नन्दनम् । आरम्भाञ्चितसत्पदं कलितविश्वम्भर्तृविश्वम्भरा– भिख्यं नौम्युरुविघ्ननिघ्नममलं रम्भोरुलम्बोदरम् ।।
-
श्रीजयतीर्थगुरुभ्यो नमः Happy Ganesha Chuturthi उमाकराब्जजो हि सावुमावचः सुपालको । वरेक्षुदण्डखण्डसेवनप्रियो मुदावहः ।।।। Brought into life by the lotus hands of Goddess Uma, who is ever obedient to the Mother, relishes of the sweet sugar cane, the harbinger of joy, कपालभृन्महात्रिशूलखण्डेतोरुसन्मुखम् । पुनःसुलब्धजीवनं व्रजामहे निरन्तरम् ।।।। the one who head was cut off by the…
-
श्रीजयतीर्थगुरुभ्यो नमः
-
उत्तुङ्गाङ्गसृतिः स्वकीयरभसा गङ्गा ललाटे स्थिता भङ्गाडम्बरसिन्धुसङ्गमहितः श्रृङ्गारवीरुद्ध्रदः । लावण्याब्धिरभङ्गकीर्तिकविभूरुत्तुङ्गशृङ्गिस्फुटो वेदाङ्गागमगम्यलब्धविभवो देशो निजो दीप्यताम् ।।1।। Let Our divine country shine, where the holy Ganga is flowing with full force from the towering peaks of Himalaya. A land which is made serene by the dancing waves of the holy river Sindhu, ever enchanting with lush green forests…
-
श्रीजयतीर्थगुरुभ्यो नमः The one who is adorned with extra ordinary charms, the one who is embellished by the tint of the black cloud, the one who has the burnish of lightning, the one who is extolled by Lord Brahma and other celestials, the one who outshines the glow of the moon. By his birth, the…
-
वधूकदम्बलास्यहासहासिताासिताननम् । मधूदकाधराधृतं वधूधुरीणमानसम् । विभावरीविलासकान्तिकान्तकान्तिभासुरम् । सुवेणुगीतगाथकं जगद्बलाबलाश्रितम् ।। महालकालिनादपङ्कजाननेनभासुरम् । महोत्सवोत्सुकाङ्गिनं रतिप्रतीक्षणोत्सुकम् ।। सुगोपिकापिकस्वरस्वनत्वरासरोत्सुकम् । विनोदनोदिताबलं निशाविषण्णमानसम् ।। करेण वेणुरेणुशोणितेन कानितोन्नतम् । महारसासमोत्युकोद्रतिप्रियं प्रियंवदम् ।। महालिकाप्तचन्दनं मरन्दमन्दिताधरम् । नमामि नन्दनन्दनं रमाचकोरतन्दिरम् ।।
-
श्रीजयतीर्थगुरुभ्यो नमः