गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

Category: प्रबन्धाः

  • नवरात्रिवैभवम् – श्रीमदुत्तरादिमठे उत्सववैशिष्ट्यम् सनातनधर्मस्य वैशिष्ट्यं तस्य ज्ञानपरम्परायां विभिन्नेषु आचारपद्धतिषु च निहितमस्ति । काले काले आचर्यमाणाः उत्सवाः न केवलं वैय्यक्तिकस्थरे अपि तु सामाजिकस्थरे अपि नवनवोल्लासं समासजन्ति । ते च हृदयङ्गमाः उत्सवाः न केवलं आबालगोपालं अनुरञ्जयन्ति अपि तु प्राकृतिक-पौराणिक-सामाजिक-आध्यात्मिकस्थरेषु कस्मैचित् आत्यन्तिकप्रयोजनाय च प्रकल्पन्ते । प्रायः उत्सवाः प्रशस्तेषु पर्वकालेषु आचर्यन्ते । योग्यकाले तेषां आचरणेन लोके शान्तिसम्पदः समुल्लसन्ति…