Author: अनन्तः

  • लेखकः- अनन्तः राचूरि आसीत् पुरी सर्वमनोभिरामा रमानिवासातिशयप्रकृष्टा । पाञ्चालनाम्नी दयिता जनानां विचित्रधिष्ण्या प्रसृतप्रथा सा ।।१।। तां काञ्चनोद्दीप्तविशालसौधां प्रतिस्फुरत्कान्तिजितार्कभानुम् । सविस्मयोद्भूतवचःप्रतोष्यां पुरीं मनोज्ञां ददृशुर्नृपेन्द्राः ।। २।। विशत्सु राजानुमतेषु तेषु मीनाक्षिलक्ष्येषु सकत्थनेषु । रेजे सभा बद्धझषानुधावितिमिङ्गिलानां निवहो यथाब्धिः ।।३।। अथोपविष्टे नरदेवलोके पुरस्कृतभ्रातृसखीवृतेयम् । इतःस्ततःसंनतवक्त्रलक्ष्या विवेश रङ्गान्तरमङ्गरङ्गा।।४।। तां सञ्चलन्तीं तपनप्रभूतां स्वस्पर्शसंहर्षितपद्महस्ताम् । सविस्मयाविष्टदृशाsनुसस्रुर्यथा मरीचिं प्रति सूर्यकान्ताः ।।५।। प्रगृह्य…

  • महानवरात्रिः यस्माच्च कलिना लोका मज्जिता दुःखसागरे ।। एकपादोपि क्षरति रुदन् धर्मो दिने दिने  ।। कलौ काले जनाः केवलं स्वार्थपरायणाः । धनपरायणाः न साधनपरायणाः । धनार्थं कमपि जनं  निघ्नन्तः परवञ्चनादिना केनापि प्रयत्नेन स्वल्पमेव सुखं सम्पादयितुं ईहन्ते । न च सुखोपलब्धिसाधनानि विजानन्ति । दुखस्य कारणीभूतं कर्म विधाय सुखं वाञ्छन्ति । तदेवं यदा कथमपि कलिकालजनानां पापनिर्मोक्षः एव  सुगमः…

  • गङ्गाष्टकम्

    १) वन्दे गङ्गां स्वाङ्गसङ्गपापभङ्गविलक्षणाम् ।     तुङ्गामीशकृतावासां मङ्गलां शिवदां शिवाम् ।। २) विपाकपक्वजनतापापशाखासुदाहकृत् ।     नोष्णा नापि च कृष्णाध्वा वह्निज्वालेव नूतना ।। विपाकः – असत्कर्मफलम् ३) शिलाघट्टनसंजातशीकरा बहु शीतलाः ।     पापप्रदाहसम्रम्भजातधूमा इवाबभुः ।। ४) सामान्यैरपि सम्प्राप्या यागावासामरैर्नुता ।     गङ्गा कीर्तितटोत्तुङ्गा त्रयीव प्रतिभासते ।। गङ्गापक्षे – समान्यैः – सामान्यजनैरपि ।…

  • श्री जयतीर्थगुरुभ्यो नमः श्री पादानां वर्धन्तीनिमित्तं रचितः श्लोकः श्लोकरचयिता – अनन्तः

  • श्रीजयतीर्थगुरुभ्यो नमः

  • श्रीजयतीर्थगुरुभ्यो नमः मुनिः भरतः तदीयं नाट्यशास्त्रम् च मुनिभरतः रससम्प्रदायस्य प्राचीतमः आचार्यः अस्ति । एतन्मतेन नाटके रसस्यैव प्राधान्यं तिष्ठति । कालिदासेन तु आचार्यमेनं देवतानां नाट्याचार्यं इति उल्लिख्य नाटकेष्वष्टरसानां विकासः तथा अप्सराद्वा तदभिनयः पूर्वसञ्जातः इति निर्दिष्टं तथा च विक्रमोर्वशीये – मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः प्रयुक्तः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ।। अनेन अपि अस्य…

  • श्रीजयतीर्थगुरुभ्यो नमः Happy Ganesha Chuturthi उमाकराब्जजो हि सावुमावचः सुपालको । वरेक्षुदण्डखण्डसेवनप्रियो मुदावहः ।।।। Brought into life by the lotus hands of Goddess Uma, who is ever obedient to the Mother, relishes of the sweet sugar cane, the harbinger of joy, कपालभृन्महात्रिशूलखण्डेतोरुसन्मुखम् । पुनःसुलब्धजीवनं व्रजामहे निरन्तरम् ।।।। the one who head was cut off by the…