लेखकः- अनन्तः राचूरि
आसीत् पुरी सर्वमनोभिरामा रमानिवासातिशयप्रकृष्टा ।
पाञ्चालनाम्नी दयिता जनानां विचित्रधिष्ण्या प्रसृतप्रथा सा ।।१।।
तां काञ्चनोद्दीप्तविशालसौधां प्रतिस्फुरत्कान्तिजितार्कभानुम् ।
सविस्मयोद्भूतवचःप्रतोष्यां पुरीं मनोज्ञां ददृशुर्नृपेन्द्राः ।। २।।
विशत्सु राजानुमतेषु तेषु मीनाक्षिलक्ष्येषु सकत्थनेषु ।
रेजे सभा बद्धझषानुधावितिमिङ्गिलानां निवहो यथाब्धिः ।।३।।
अथोपविष्टे नरदेवलोके पुरस्कृतभ्रातृसखीवृतेयम् ।
इतःस्ततःसंनतवक्त्रलक्ष्या विवेश रङ्गान्तरमङ्गरङ्गा।।४।।
तां सञ्चलन्तीं तपनप्रभूतां स्वस्पर्शसंहर्षितपद्महस्ताम् ।
सविस्मयाविष्टदृशाsनुसस्रुर्यथा मरीचिं प्रति सूर्यकान्ताः ।।५।।
प्रगृह्य कृष्णां सहजोग्निसूनुः असूत वाचं वदतां गरिष्ठः ।
यो भेत्ति मत्स्यं कृतनीरशीर्षाः स उद्वहेत् मत्सहजां महेक्षः ।।६।।
इत्यूचिवान् चापममोघवीर्यं सपञ्चबाणं पुरतो निधाय ।
नृपेक्षणालक्षितमञ्चमध्यात् समञ्चितात्मा ह्यथ पार्श्वतोभूत् ।।७।।
त आशुगा लक्ष्यविभेदपक्षाः विपक्षकक्षक्षपणक्षमाश्च ।
दशार्धसंख्या निशिता सिताभाः कन्दर्पबाणा इव संविरेजुः ।।८।।
स्ववीर्यदृप्ताः परितप्तचित्ताः शुष्यन्मुखाः स्तब्धशरीरचेष्टाः ।
तथापि मुग्धा मदनाभिभूता नाशक्नुवन् चालयितुं शरासनम् ।।९।।
समस्तभूखण्डनृपे विशीर्णे नोत्सर्पति स्वासनतोभिषङ्गात् ।
चिन्ताकुले राजकुले सलोके एकोभ्यतिष्ठत् भुवनप्रहर्शः ।।१०।।
तं विप्रवेशं नृपवृन्दमध्य उत्प्लुत्यमानं जहसुर्नृपेन्द्राः।
न साम्प्रतं भोभ्यवहारकालः प्रतीक्षतां यवदुतास्य कालम् ।।११।।
इतीर्यमाणोप्यविकाररूपः वेषान्तरालीनतनुर्महात्मा ।
रराज राजन्यसुधाम विभ्रत् यथारुणो मेघविलीनबिम्बः ।।१२।।
सम्प्राप्य मञ्चान्तिकमिन्द्रभासाः ध्यातादिदेवः कृतनित्यकर्मा ।
सलीलमुद्धृत्य शरासनं तत्प्रपूरयामास गुणप्रकृष्टम् ।।१३।।
आलोकयन् शाखिशिखावलम्बिविसारबिम्बं विमलाम्बुमध्ये ।
संयोज्य बाणं निशिताग्रबुद्धिः कर्शन्नसून् वा प्रमुमुमोच वीरः ।।१४।।
सम्प्राप्तलक्ष्यं ज्वलनप्रभं तं निरस्तशत्रुं जितकामरूपम् ।
मन्दक्रमा फुल्लसुपुष्पमालां कण्ठे निधायाथ च पार्श्वतोभूत् ।।१५।।
।।श्रीकृष्णार्पणमस्तु ।।
Leave a comment