महानवरात्रिः

यस्माच्च कलिना लोका मज्जिता दुःखसागरे ।।

एकपादोपि क्षरति रुदन् धर्मो दिने दिने  ।।

कलौ काले जनाः केवलं स्वार्थपरायणाः । धनपरायणाः न साधनपरायणाः । धनार्थं कमपि जनं  निघ्नन्तः परवञ्चनादिना केनापि प्रयत्नेन स्वल्पमेव सुखं सम्पादयितुं ईहन्ते । न च सुखोपलब्धिसाधनानि विजानन्ति । दुखस्य कारणीभूतं कर्म विधाय सुखं वाञ्छन्ति । तदेवं यदा कथमपि कलिकालजनानां पापनिर्मोक्षः एव  सुगमः नास, तदा कथं वा साधनादिना भगवत्प्रीतिसम्पादनपुरस्सरं मोक्षोपलब्धिः इति नारदो भगवन्तं अप्राक्षीत् । सोसौ दयालुरुपायमुवाच । तस्याथ सारो निरूप्यते । तथा हि – आचारप्रभवो धर्म इति वचनानुसारेण  सदाचरेण धर्मः उत्पाद्यः । न केवलं तावदेव प्रियो हि ज्ञानिनोत्यर्थं इत्युक्तदिशा भगवत्प्रीतिं कामयमानैः सदाचारेण सह ज्ञानसाधनमपि अनुष्ठेयम् ।  श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च । साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥ न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन इत्युक्तेः । प्रकृते च अवश्यानुष्ठेयानि कर्माणि द्विविधानि । नित्यानि नैमित्तिकानि चेति । नित्यानि यथा सन्ध्यावन्दनादीनि । अहरहः सन्ध्यामुपासीत इति वेदवाक्यादवगतानि । नैमित्तिकानि च निमित्तात्क्रियमाणानि । यथा कृष्णजन्मनिमित्तात् आचर्यमाणा कृष्णाष्टमी । नैमित्तिकानि च निमित्तभेदात् भिद्यन्ते । यथा मासभेदात् प्रतिमासं क्रियमाणानि कर्माणि । प्रकृते आश्विनमासप्रयुक्तानि कर्माणि कानीति विजानीमः । आश्विनशब्दस्य आश्वयुजः इषः इत्यादयः पर्याया भवन्ति । तत्र मासमाहात्म्ये तावत् मासि चाश्वयुजे नरैः । नवरात्रव्रतं कार्यं शुभं दारिद्र्यभीरुभिः ।  इति कथितम् । अस्य माहात्म्यमपि तत्रैव –    

यथा विष्णुश्च देवेषु सर्वधर्मेषु वैष्णवः।

शरत्काले तथा तद्वन्नवरात्रमुपोषणम् ।। (भविष्योत्तरपुराणम्)

भगवान् नारायणः सनत्कुमारं कथयति । हे सनत्कुमार, देवेषु यथा विष्णुः उत्तमः,  यथा सर्वधर्माणां अन्तरे वैष्णवः धर्मः श्रेष्ठः,  तथा नवरात्रिरेव श्रेष्ठः व्रतः इति महाव्रतत्वेन कथितमस्ति । उत्सवः नाम उत्कृष्टः सवः (भगवत्पूजारूपो यागः) । पुण्यसाधनाय भगवता प्रकल्पितः अत्युत्तमः अवकाशः यस्मिन् काले अस्माभिः महत् पुण्यं आप्तुं शक्यते येन नः मोक्षादिपुरुषार्थः लभ्यते । तथैव एतादृशाः उत्सवाः आधुनिकेपि काले जनेषु सङ्घटनात्मकदृष्टिमुद्बोधयन्तः परस्परकथासल्लाप-भगवन्माहात्म्यश्रवणपुरस्सरं जनैर्निवर्त्यन्ते । साम्प्रतिकाः खलु जनाः नूनं कार्यमग्नाः न इतस्ततः परिजानन्ति । न विदन्ति बन्धुजनदुःखादि । नापि सम्मिलन्ति । मोबैल् लोके अभिनिविष्टमतयः बाह्यलोकमेव विस्मरन्ति । यद्वा काल एव विस्मारयति । विस्मापयति च लोकान् । ईदृशा अपि भवन्ति ननु इति । परं उत्सवनिमित्तेन तत्सर्वमपि अतिहाय सर्वेपि एकं उदात्तं भावमुद्वहन्तः एकत्र मिलिताः सोल्लासं सोत्साहं स्वसंस्कृतिषु सज्जन्ति । एवं स्वकर्मणि सज्जयन्ति उत्सवाः । तादृशेषु उत्सवेषु आश्विने मासि आचर्यमाणः नवरात्रोत्सवः विशिष्यते । तस्यायं विधिः । कुम्भस्थापनं दुर्गापूजा महानवमीप्रयुक्ता आयुधपूजा अन्तिमदिने क्रियमाणा शमीपूजा इति । एवं तत्रैव पुराणे चण्डीयागस्य अनुष्ठानमपि विहितम् । विशिष्य राज्ञां विजयाद्यनेकसम्पत्सम्पत्त्यर्थं विजयस्तम्भपूजा अश्वपूजा गजपूजा एवं स्वायुधादिपूजाश्च विहिताः । आयुधपूजासन्दर्भे अस्मत्संरक्षणार्थं प्रार्थनापुरस्सरपूजा, तत्र स्तुतिः – 

छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते ।

प्रोत्सारणाय दुष्टानां साधुसङ्ग्रहणाय च ।। इत्यादि ।

एवं लोहाभिसाराख्यं  लोहपूजनकर्मापि विहितम् । दशमे दिने पुरान्निष्क्रम्य शमीपूजा विधेयेत्यपि विहिता । दशमदिनं अत्युत्तममिति प्रथितं – 

स कालो विजयो नाम सर्वकार्यार्थसाधकः ।। 

दशम्यां तु दिने सम्यक् पूजनीयोपराजितः ।। इत्याद्युक्तेः । 

एवं शमीपूजां विधाय राज्ञा वैरिणः प्रतिकृतिं विधाय पुरोहितादिभिः सहितः तदुपहितसकलमङ्लाशीराशिः तां प्रदह्य विजयोत्सवत्वेन आचरणीय इति । य एवं वर्षे वर्षे मङ्गलं कर्माचरति स माङ्गलिकः आयुरादीन् लभते । अस्मिन् काले एव दुर्गापि पूज्या इत्याह आगमः ।  एवं दशसु दिनेष्वेव सरस्वती अपि भक्त्या द्वितीयादिनमारभ्य पूजनीया इति । यथापरम्परं केचित् त्रिरात्रोत्सव-पञ्चरात्रोत्सवभेदेन सरस्वतीं पूजयन्ति । न तदा अधीयते । दशमीप्रभृति शान्तिपाठपुरस्सरं अध्याय इति सम्प्रदायविदः वदन्ति । सद्बुद्धिव्रतमिति एतद्व्रतं व्यपदिशन्ति । अनेनाचरणेन सद्विद्या प्राप्यते इति । सोयं पर्वकालः । अस्मिन् काले पुण्यसम्पादनाय वेदपारायणं भागवतश्रवणं श्रीनिवासकल्याणकथाश्रवणं मार्कण्डेयपुराणपारायणं कर्तव्यं इत्युद्बोधयति भविष्योत्तरपुराणं मासमाहात्म्यखण्डे । यदि कश्चित्   पारायणकर्मणि स्वयमशक्तः तर्हि पारायणिकान् वा पश्येदिति भणति पुराणम् । यथाह – तेषां दर्शनमात्रेण ब्रह्महत्या व्यपोहति इति ।    भागवतश्रवणविषयेपि इत्थं श्रूयते –

अशक्तो विधिवद्राजन् क्रिया भागवतस्य तु ।

श्रुतं भागवतं तच्च समं पारायणं मतम् ।। इति ।

वेदपारायणे अशक्तो भागवतं वा श्रुणुयात् । एवं भगवता उपदिष्टः नारदः परमां मुदं अनुबभूव ।  अतः कलिमलनाशाय सर्वैः नवरात्रिः भक्त्या आचरणीया ।

किञ्च पावने भूवैकुण्ठे तिरुमलक्षेत्रे ब्रह्मरथोत्सवोपि नवरात्रिसन्दर्भे एव प्रचलति । ब्रह्मणा कृतोयं उत्सवः ब्रह्मोत्सवः ब्रह्मरथोत्सव इति च व्यपदिश्यते । अस्य उत्सवस्य किमर्थं नवरात्रिः इति नाम इति विषये इत्थं चिन्तयितुं शक्नुमः । रात्रिरिति रात्र्यभिमानिनी देवता कथ्यते । तथा च रात्र्यभिमानिनी लक्ष्मीस्वरूपिणी दुर्गा भगवता सह यत्र पूज्यते सा नवरात्रिः । अथवा अज्ञानमस्मान् परमार्थात् प्रच्यावयतीति अज्ञानं रात्रिरिति उच्यते । यस्मिन् काले भगवत्पूजारूपकर्माचरणेन अज्ञानस्य विनाशात् भगवत्प्राप्तिः सा नवरात्रिः । कर्मणा ज्ञानं सम्पाद्य तेन अज्ञानं निरसनीयम् । सफलः क्लेशः न क्लेशत्वाय कल्पते । उक्तं खलु कालिदासेन – क्लेशः फलेन हि पुनर्नवतां विधत्ते इतिरात्रिव्यपदेशं अज्ञानं निरस्य ज्ञानसम्पादनमेव नवीकरणम् । अत एव नवरात्रिः इति अन्वर्थकः व्यपदेशः । इदं नवीकरणं च श्रद्धया भक्त्या च अनुष्टितया व्रतचर्यया सुसम्पाद्यम् ।  एतदेव देवताप्रसादस्य सोपानम् । एवं प्रसन्ना परदेवता संसारबन्धात् अस्मान् विमोच्य परमं पदं प्रापयति । एतदनुसन्धानयुक्तं उत्सवाचरणमेव सार्थकं भविष्यति ।     

श्रीकृष्णार्पणमस्तु

लेखकौ – अनन्तशुुभाङ्गौ     

Posted in

Leave a comment