१) वन्दे गङ्गां स्वाङ्गसङ्गपापभङ्गविलक्षणाम् ।
तुङ्गामीशकृतावासां मङ्गलां शिवदां शिवाम् ।।
२) विपाकपक्वजनतापापशाखासुदाहकृत् ।
नोष्णा नापि च कृष्णाध्वा वह्निज्वालेव नूतना ।।
विपाकः – असत्कर्मफलम्
३) शिलाघट्टनसंजातशीकरा बहु शीतलाः ।
पापप्रदाहसम्रम्भजातधूमा इवाबभुः ।।
४) सामान्यैरपि सम्प्राप्या यागावासामरैर्नुता ।
गङ्गा कीर्तितटोत्तुङ्गा त्रयीव प्रतिभासते ।।
गङ्गापक्षे – समान्यैः – सामान्यजनैरपि । यागावासा – या अगावासा (पर्वतनिवासिनी)
श्रुतिपक्षे – सामान्यैः – सा मान्यैः (मान्यजनैरेव) । यागावासा – होमादिषु निवसन्ती
५) निखिलदुरुतशस्त्रम् पावितानेकगोत्रम्
विशसितमुनिसत्रम् विष्णुपादाब्जसक्तम् ।
भवदुरितलवित्रम् सत्चरित्रम् पवित्रम्
जलधिपतिकलत्रम् पातु लावण्यपात्रम् ।।
विशसितः – विध्वस्तः
६) निहतनिखिलदैत्यानीककीलालसिक्ता-
हितखरतरचक्राद्यङ्किताङ्घ्र्यब्जसङ्गा।
विमलतरचरित्रा पादसंसर्गपात्रा
कलुषयति जनानां मानसं देवगङ्गा
कलुषयति जनानां मानसं देवगङ्गा – इत्यस्याः समस्यायाः पूरणत्वेन विरचितः श्लोकः
७) कादम्बिनीरुचिकदम्बवती सुवर्णा
सिञ्जद्विहंसकगणाप्यगणेयमुक्ता ।
उत्कर्षितप्रमदसानुरियं धरित्र्याः
काञ्चीव भासयति तुङ्गरसा हि गङ्गा ।।
८) भस्माच्छन्नवपुः कपालभृदपिप्रध्वस्तकल्याणकः
यत्सङ्गात् शिवतामवाप हरिणा दग्घाश्च नाकं श्रिताः ।
किं वा कर्म मया कृतं यदधुना निश्रेयसे नासि यद्
रिक्तं किं शुभकर्मसञ्चयमथ श्रेयःप्रदानेप्सितम् ।।
।। श्रीकृष्णार्पणमस्तु ।।

Leave a comment