सर्वेषां नरसिंहजयन्तीपर्वणः शुभाशयाः । जगदाद्यन्तं अस्मान् पीडयन्तीं कोरोनामहामारीं जगतः विद्रावयितुं कृतपरिकराः जगद्गुरवः श्री 1008 श्री सत्यात्मतीर्थाः 14,000 नरसिंहमन्त्रजपं कर्तुं आज्ञापयापासुः । अस्मिन् नरसिंहजयन्ती पर्वणि तत्समारोपं पुरस्कृत्य नरसिंहमन्त्रस्थपदकदम्बेन समुल्लसन्तीं कांश्चन कवितां जनोयं उपनिबबन्ध । तदास्वाद्यतां पद्यरसः ।
उग्रं ह्युग्रनखत्विषा प्रमुषिताज्ञानान्धकारापदं
वीरं घोररिपुप्रचण्डनिनदप्रध्वंससर्वाननम् ।
मुत्योर्मृत्युमनन्तसौख्यदमहाविष्णुं नृसिंहाकृतिं
वन्दे भद्रमभद्रभीषणमहं प्रत्युज्वलन्तं हरिम् ।।
