
युगादिपर्वाखिलदुःखनर्म
दिशत्वखर्वं सुखशान्तिवर्गं
गान्धर्वसर्वामरतोषपर्व ।
वल्लीसुमल्लीगणफुल्लकं नः ।।१।।
सम्फुल्लमल्लीकबरीरमेशश्चूतैः सुवल्लीयुतमल्लिकाभिः ।
सपल्लवां गामपि निर्विपल्लवां प्लवो भवाब्धेर्विदधातु तुष्टाम् ।।२ ।।
कौमारारुणभास्करोदयविभासंफुल्लसत्पल्लवैः
वल्लीफुल्लसुमल्लिकाकलितसद्वातैः प्रकृत्युद्भवैः ।
सन्तापं बत निम्बबिम्बमखिलं हित्वा युगादौ नराः
सौधामोदकरम्भसम्भृतगुडैस्तुष्यन्तु सन्तः सदा ।।३।।
धूपायति सन्तापं गोपायति सज्जनान् सहितमोदान् ।
तदिदं पर्व युगादिर्विपाशयतु दुःखपङ्किले निमग्नान् ।।४।।