श्रीजयतीर्थगुरुभ्यो नमः
श्रीरघूत्तमतीर्थगुरुभ्यो नमः
श्रीसत्यप्रमोदतीर्थगुरुभ्यो नमः
उपक्रमः
अवातंसदिमं भरतवर्षं पुरा अशेषसांयुगीनभीमार्जुनभ्राता पादपीठन्यस्तसमस्तमही-शासनभागधेयकिरीटः अरिप्रापितपञ्चत्वः मदोत्कटरभसगामी प्रजाविशङ्कटसङ्कटसातिः धृतमहाहेतिः युधिष्ठिराभि-धानश्चक्रवर्ती । स च विधिभ्रुकुटिपटलविन्यासेन कैतव-पराभूतनिखिलधनकनकः प्रतस्थे प्रडीनोड्डीनसण्डीनसङ्कुलं स्वप्रविष्टत्वादनाकुलं वनकुलम् । कन्दमूलादिसमाकुलेऽपि कानने राकाननविकासकतुल्यो राजा भास्करा-त्ताक्षयभाजनेन संततर्प ब्रह्मबन्धुपारिकाङ्क्षिणः । अथ च चरितसकलाङ्गपावनतीर्थक्षेत्रः एकहायनमुवास सयवीयो विराटभवने वेषान्तरभस्मलीनः । अथ च समाप्ताज्ञातवासः यवीयैर्विजित-त्रिगर्तकौरवः स्वानुजात्मजविराटात्मजोत्तरापाणिग्रहणं कारयित्वा सम्प्रा-प्ताच्युतदर्शन अवात्सीदुपप्लाव्यपदे नगरे । अथ च भगवान् कृष्णः युधिष्ठिरहितचिकीर्षुः धर्मं रिरक्षयिषुः सन्धानेन वञ्चयितुमरीन् कुरून् प्रास्थत् । तत्र दौत्यैन वञ्चयित्वारीन् सकलजगतीविभवप्रभवविपत्तिकरमात्मानमपि बन्धितुमुत्सुकान् धूर्तान् स्वविश्वरूपेण मोहयित्वा तिरस्कृतभीष्मद्रोणदुर्योधनहार्घोपधः उज्झितबहुधनं कौरवधार्मिकविदुरगृहं जगाम । तत्र संवीक्ष्य कुन्तीं युधिष्ठिरसन्देशं भवत्या किं दीयत इत्यप्राक्षीत् । तदा बभाषे कुन्ती वाचम् ।
“हे केशव, त्वमिमां वाचं कुरु युधिष्ठिरकर्णपुटसङ्क्लिन्नम् । ‘हे युधिष्ठिर त्वया संस्थातव्यः धर्मः अन्तं प्राप्तुकामोऽस्ति । हे पुत्रक वृथा मा जहिहि कर्तव्यं धर्मम् । यथा मन्दत्वावगूढमनसः अविवेकावृतस्य श्रोत्रियस्य स्वान्तं वेदवाक्यानुवाकैर्हीयते एवं त्वदीया मतिरपि तुच्छधर्मे आसक्ता वस्तुतो महीभुग्भिराचरणीयं धर्मं विस्मरन्ती अस्ति । विश्वसृट् अस्राक्षीत् भूभुजान् स्वबाहुभ्यो बाहुना जीवितुम् । ते प्रजाः पालयितुं नृशंसकर्माणि कर्तुं च सृष्टाः । विषयेऽस्मिन् पुरा मया गुरुभिरुपन्यस्तो वृत्तान्त एकः स्मृतिपथे विहरति ।
पुरा सकलजगद्वसुरक्षको गुह्यकेश्वरः मुचुकुन्दाय प्रादादिमां क्षपाम् । स च न स्वीचकार । स अभाणीत् ‘अहमुपबुभुक्षामि स्वबाहुवीर्यार्जिताम्” इति । आकर्ण्येदं धीरं वचः व्यस्मेष्ट धनदः । ततश्च क्षत्रधर्ममनुव्रतः स्वभुजवीर्येणैव महीमिमां स्वहस्तन्यस्तां व्यधत्त ।
हे युधिष्ठिर, यं धर्मं राज्ञा गुप्ताः प्रजाः चरन्ति तस्य धर्मस्य चतुर्थमंशं विन्दति राजा । धर्मः साङ्ग आचरितो राज्ञा अमृतान्धःस्वभावप्रदो भवति । आचरिते ह्यधर्मे निरयगतरक्तसि-क्तद्वारातिथिर्भवति राजा । राजप्रयुक्ता दण्डनीतिः चातुर्वर्ण्यं नियच्छति । अपिच अधर्मपङ्किलानङ्कितान् विधत्ते । यदा राजा अधिगतसकलदण्डनीतिर्महीभुजो शास्ति दण्डनीतं तदानीमेव सकलजगतीप्रमोद-सम्भारप्रह्वीभूतजनसम्मर्दावतंसितः कृतयुगो भवति । “कालो वा कारणं राज्ञः राजा वा कालकारणम् । इति ते संशयो मा भूद्राजा कालस्य कारणम् ।।”(महा.उद्यो.१३१.१८) राजैव कृतयुगस्रष्टा स एव त्रेताया द्वारस्याथवा कलियुगस्य । यदि राजा धर्माचरणचणं कृतं सृजति स त्रिदिवगसुधापान-प्रमोदसम्भृतोऽश्नात्यन्तं स्वर्गम् । त्रेतायाः करणान्नाश्नोति तावन्तं सुखम् । द्वापरस्य च निर्माणात् एकमेवात्ति स्वर्गफलम् । कलेः सर्जनात् प्रभूतं पापमश्नाति । ततश्च शाश्वतीः समाः वसति नरके । राजदोषेण जगत् स्पृश्यते । जगद्दोषेण राजापि स्पृश्यते । हे पाण्डुतनय पितृपैतामहोचितान् राजधर्मानवेक्षस्व, त्वं यत्र स्थातुमिच्छसि तन्नास्माकं पितृपैतामहोचितं कार्यम् । वैक्लव्यसंस्पृष्टो वा अभिघातिषु आनृशंस्ये व्यवस्थितो वा कोऽपि राजा प्रजापालनसम्भूतं फलमलप्सीत् । त्वमिदानीं त्वन्मेधया यथा चरसि तामाशिषं न पाण्डुर्नचाहं नवा पितामहः पूर्वं ते प्रायुञ्ज्महि । यज्ञो दानं तपः शौचं प्रजा सन्तानं माहात्म्यं बलमोजश्च मया आशंसितम् । हे कुलीन कुलीनाः तदुचितां वृत्तिमनाचरन्ति ते नपण्डिताः । यत्र दानपतिं शूराः क्षुधिताः पृथिवीचराः । प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ।।(महा.उद्यो.१३१.३०) प्रतिगृह्णीयादभिषिक्तो धार्मिको राजा प्रजाः दानबलसामादिभिः । ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् । वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ।। क्षित्रियत्वादेव तव भैक्षं विप्रतिषिद्धम् । कृषिरपि नोपपद्यते । किन्तु क्षत्रियस्त्वं तद्बाहुबलैकजीवातून् पौरान् कण्टकेन त्राता असि । हे महाबाहो निमग्नं पित्र्यमंशं सामादिभिरुपायैः पुनरुद्धर । इतो दुःखतरं किं नु यदहं हीनबान्धवा । परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दनम् ।
युध्यस्व राजधर्मेण मा निमज्जेः पितामहान् ।
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ।।
कुन्ती । महाभारतम् । उद्योगपर्व । भगवद्यानपर्व १३१.३६
विदुलावृत्तान्तः
अत्रास्मिन्नेव विषये कथयन्ति सूरयो कथां विदुला-सृञ्जयसंवादांसलाम् । पुरा प्रावातंसीत् इमं भरतवर्षं कुलीना सकलाशाप्रसृतनिजाच्छलकीर्तिः दीर्घदर्शिनी दुष्टेषु मन्युमती बहुश्रुतराजविद्यातत्वा सम्यज्ज्ञाना विदुला नाम साध्वी सीमन्तिनी । तस्या औरस्यो अजनिष्ट सृञ्जयाभिधेयः । अथ च सिन्धुदेशसिन्धुपराभूतमत एव दीनचेतस्तं शयानमनन्दनं द्विषतां हर्षवर्धनं पुत्रं जगर्हे विदुला । अरे रे कुनन्दन द्विषद्धृदयप्रमोदसम्भारभरणकारिन् न मया त्वं न च पित्रा जातः क्वाभ्यागतो ह्यसि । निर्मन्युः क्लीबसमः यावज्जीवं निराशोऽसि । कल्याणाय वह धुरम् । न जातु आत्मानमवमन्यस्व किञ्च अल्पैरेव वस्तुभिस्तृप्त्या मा जीवनं व्यथापय । मनः कल्याणविषयविषयं विधाय भीतिं प्रतिसंहर ।