यतिकुलतिलकाः श्रीजयतीर्थाः

श्रीजयतीर्थगुरुभ्यो नमः

माध्वग्रन्थान् स्वबन्धूनिव सरसहृदाऽऽलिङ्ग्य विज्ञातभावः

संयोज्यालङ्कृताभिः स्वसहजमतिसम्भूतवाग्भिर्वधूभिः ।

कृत्वान्योक्तीश्च दासीर्बुधहृदयगृहं प्रौढवृत्तीश्च वृत्ती-

र्दत्वाऽन्योन्याभियोगं जयमुनिरसकृद्वीक्ष्य रेमे कृतार्थः ।।

तीर्थप्रबन्धः,पूर्वप्रबन्धः,१८ तमः श्लोकः
यस्य वाक् कामधेनुर्नः कामितार्थान् प्रयच्छति । सेवे तं जययोगीन्द्रं कामबाणच्छिदं सदा ।।

भ्लाशिष्ट प्राक् अरुण इव प्रखरप्रभः, गुरुसूर्यविकसितपद्मः आचरितसकलगुरुवाक् लेखीकृतसकलप्रमेयः जयदाता स्वजयभक्तानां , विरक्त ऐश्वर्येऽपि जयकरतीर्थप्रणेता अनुव्याख्याननलिनभृङ्गायमानः भानुकोटितेजाः सरस्वतीकृपासाकारमूर्तिः मध्वमानसह्रदहंसः छत्रीकृताशीविषराट् प्रमेयकुलिषप्रमोडितकुमतिनमुचिः गुर्वपाङ्गनीराजिताङ्गः कामाक्षीमानसोल्लासः व्याख्यातदशप्रकरणसूत्रभाष्यानुव्याख्यानः पत्नीकृतप्रमाणपद्धतिः कागिणीवातस्पृष्टाङ्गः यतिकुलमुक्तावलिः मङ्गलवेडाभिजनः श्रीजयार्यो नाम । सोऽयं विठ्ठलकृपामूर्तिः नायकरघुनाथगेहोद्भव अद्योतत कुलाकाशे । अध्यैष्ट शस्त्रास्त्राणि । कदाचिदौखत् सैन्धवमारुह्य । भ्रमता राज्ञा काले पिपासाच्यावितोत्साहः पपौ स सलिलमनाकुलमनवतरन् ह्रदे । वृत्तान्तमनुपश्यन् जयतीर्थदिग्दर्शनाचार्य अक्षोभ्यतीर्थनामा वादिहिंस्रः किं पशुः पूर्वदेहे ? इति वाचोभङ्ग्या अस्मारयत् पूर्वजन्मचरितम् । उपदेशवागग्निना पवित्रीकृत इव विहायाज्ञानशामिकां , निर्मोक इव परित्यक्तगृस्थाश्रमः परमहंसलक्षणं वपुः अवेष्टत । अचिरादेव करतलामलकीकृतनिगमागमः व्याचख्यौ अष्टादश माध्वग्रन्थान् । पलाययामासान्यवादिनः । आर्जयत् सर्वज्ञकल्पत्वनाम । प्रविवेश वृन्दारण्यम् अनुध्यायन् राघवम् ।

सस्सिद्धान्तपतङ्गमार्यरचितं दुर्वादवृक्षैर्गुरुर्

गूढं सन्नयनेभ्य ईक्षितुमलं नो शक्तमित्येव वै ।

चिच्छेदाशु कुवादिदुष्टविपिनं सन्दर्शयामास नः

श्रीमन्न्यायसुधायुधेन जयराट् दद्यात् सुविद्यां सदा ।।

(मदीयः श्लोकः)

मलखेटपुरे स विवेश रमारमपादयुगं शितधीर्जयराट् । कमलारमणं वरमध्वनुतं मनसा स्मृतवान् मदनेषुजयी ।। (मदीयश्लोकः)

टिप्पणी

स्वजयभक्तानाम् – सु-शोभनः यः अजयः-श्रीहरिः तस्य भक्तानाम् ।

जयकरतीर्थप्रणेता – जयदानशीलशास्त्रविरचयिता । निपानागमयोस्तीर्थम् इति कोशः ।

छत्रीकृताशीविषराट् – छत्रवत् कृतः आशीविषानां – सर्पाणां राट् – राजा येन सः । आशीविषो विषधरश्चक्री इत्यमरः ।

अवेष्टत – वेष्ट वेष्टने इत्यतो लङ् आत्मनेपदम् ।

सैन्धवः – अश्वः । हयसैन्धवसप्तयः इत्यमरः ।

सर्वज्ञकल्पाः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति कल्पप् प्रत्ययः ।

कुलिशंम् – वज्रम् । कुलिशं बिदुरं पविः ।

मोडितम् – मुडँ मर्दने इत्यतः क्त ।

शामिका – लोहान्तरसंसर्गात्मको दोषः ।

औखत् – जगाम । उखँ गतौ इत्यतो लङ् ।

भगीरथः

श्रीजयतीर्थगुरुभ्यो नमः

भगीरथोऽपि राजर्षिर्निन्ये भुवनपावनीम् ।

यत्र स्वपितृणां देहा भस्मीभूताः स्म शेरते ।।

श्रीमद्भागवतम्,नवमस्कन्धः,अष्टमोऽध्यायः

साम्प्रतम् अहम् आजन्मशुद्धानां त्यागाय सम्भृतार्थानां सत्याय मितभाषिणां यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् अन्ववायजस्य भगीरथस्य वृत्तम् ईषदिव स्वरामि । हन्त! श्रूयतां मानवो वंशः ।

आसीत्पुरा अशेषराजन्यसम्पूजितशासनः प्रवाहितस्वर्धुनीः व्यूढोरस्कः आरब्धान्तगामी आफलोदयक्रियः विराट् भगीरथो नाम । स राजर्षिर्देवान् अयष्ट । अधिजगे वेदान् ।

सगरसप्ततन्तौ हयान्वेषणसमये कपर्दिकपिलभ्रूविजृम्भभस्मीभूतसगरजसमूहस्य समद्धृत्यै तप्ततपसा अंशुमता स्वर्धुन्यवताराय इषत्प्रायति । तत्सुतेन दिलीपेनाप्ययति । पितृपुत्रयोः नैरस्येऽनुभूते फलस्याकार इव पुण्यमूर्तिमानिव राजर्षिर्भगीरथः आसनसिंहासनहंसतूलिकाहेमलक्ष्मीर्विहाय निक्षिप्ताङ्गुष्ठमात्रः लज्जीकृतस्वावरतपस्वी आयनसहस्रं हिमशीतवर्षपरितापपुरःसरानविगणय्य तप्ततपाः दुर्द्रुश्यमपि द्रुहिणं प्रासादयत् । कथितस्वाभिप्रायोऽयं विरिञ्चिणा गङ्गावतारः अचिरादेव भवितेति विज्ञापितः गङ्गौघसहनाय शिवं सम्यगावर्षमुपतस्थे । तुष्टश्शिवः लसच्छ्रीतुलसीविमिश्रकृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्रीं दवीयोभिः क्षीरधारामिव भावितां गाङ्गमङ्गलतरङ्गां स्वात्मानमपि (रुद्रं) पातालं नेतुमिच्छन्तीं स्वरजसा पररजोनिवारिकां वैष्णवदासाग्रणीः स्वसटया धृत्वा अपवत् । अथ जटास्थायां स्वर्धुन्यां भग्नाशो राजा देहावस्थामविगणय्य शाङ्करं तपस्तेपे । तुष्टो हरः गङ्गां न्यदिशत् । तेन गङ्गोदकेन सागरान् तर्पयामास । ततः भारतमिदमुन्मत्तगङ्गं समभवत् । स्वपितामहोद्धाराय भूमिमानिनाय विष्णुपदीं यः तं सादरं पणे ।

क्व भूमिर्वाराही क्व च सुरनरेन्द्रस्य भवनं

न सोढुं शक्तासौ सुरजलममोघं गततुलम् ।

तथाप्येषानिन्ये सुरवरनदी नाकत अहो

क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ।। (मदीयः श्लोकः)

टिप्पणी

उन्मत्तगङ्गम् – “तृतीयासप्तम्योर्बहुलम्‌” (२.४.८४) इत्यनेन सूत्रेण अव्ययीभावः ।

सप्ततन्तुः – यज्ञः, यज्ञस्सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः इत्यमरः ।

कपर्दिकपिल.. – कपर्दः – जटा अस्य अस्तीति कपर्दी तादृषः कपिलनामकपरमात्मा ।

दवीयोभिः – दूरस्थैः ।

दृहिणः – ब्रह्मा, धाताब्जयोनिर्दृहिणः इत्यमरः ।

स्वसटया – सटा – जटा, व्रतिनस्तु सटा जटा इत्यमरः ।

गोवर्धनोद्धरणम्

श्रीजयतीर्थगुरुभ्यो नमः

देवे वर्षति यज्ञविप्लवरुषा वज्राश्मवर्षानिलैस्सीदद्बालपशु स्त्रियाऽऽत्मशरणं दृष्ट्वाऽनुकम्प्युत्स्मयः ।

उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् पायान्न इन्द्रो गवाम् ।।

श्रीमद्भागवतम्,दशमस्कन्धः,चतुर्विंशोऽध्यायः

थ नवनीतमोषकः परिहसितनिष्कलङ्कचन्द्रः घनाघनसुन्दरः भैष्मीपूजितविग्रहः सुवदनः सान्द्रानन्दः मन्दावलोकोत्किरत्कान्तिः चन्दनचर्चितः चक्राङ्कितचरणः कृष्णारामः वशीकृतयमः रमामुखसोमः स्ववाक्सुधानन्दितभूमिदेवः करुणावनमाली कंसारातिः स्वकृतगोर्धनोद्धरणेन चेतो मे स्वजते । कवे तच्चरितम् ।

अथ समुपस्थितकैशोर्यः सबलः वासवदेवः शातक्रतुं क्रतुं निराकृत । गोवर्धनस्य गोवर्धनस्य पणने न्ययोजयत् व्रजभुवः । एवं कृतस्वपणनान्तरायकरस्य अनन्तस्य महिमानं स्वमनसि परिमृज्य दिवस्पतिः घनमतिघनाघनं व्यधात् । पुरुहूतकृतापमानं ध्यात्वा तत्कृपाकरः गोवर्धनकरः रक्षितगोसमूहः आवासरं पाणिक्षिप्तविविधफलप्रसूतिगोवर्धनः शतमन्युममन्युं विधाय तेन स्तुतस्तुत्यः सन् तमनुजग्राह ।

गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजत् कृष्णं सुरभिः शक्र एव च ।। विविक्त उपसङ्गम्य व्रीळितः कृतहेळनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ।।
दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ।।

मोषकः – चोरः । मुष स्तेये इत्यस्मात् धातोः ण्वुल्प्रत्ययः ण्वुल्तृचौ (३.१.१३३)

कवे – वदामि । (कुङ् शब्दे) इति धातुः ।

पणनम् – स्तुतिः (पण व्यवहारे स्तुतौ च) ।

गोवर्धनस्य गोवर्धनस्य – गोवर्धनपर्वतस्य या गौः – कान्तिः तस्या वर्धनः ।

घनाघनः – वर्षुकमेघः (Rainy Cloud) वर्षुकाब्दो घनाघनः इत्यमरः ।

कृष्णारामः – कृष्णा – द्रौपदी तस्या आरामः आनन्दवर्धकः ।

परिमृज्य परि-इत्युपसर्गात् मृजूँ शुद्धौ इति धातोः ल्यप्-प्रत्ययः ।

वासवदेवः – वासवस्य – इन्द्रस्य । वासवो वृत्रहा वृषा । तस्य देवः स्वामी कृष्णः ।

दिवस्पतिः – इन्द्रः । शतमन्युर्दिवस्पतिः इत्यमरः ।

शतमन्युममन्युं विधाय – शतमन्युमिन्द्रम्। अमन्युं – न विद्यते मन्युः – कोपः यस्य सः तथोक्तः । तम् । अमन्युं विधाय – कृत्वा ।

रक्षितगोसमूहः – गवां समूहः – वेदाः,शास्त्राणि,धेनवश्च । रक्षितः गवां समूहः येन सः । कृष्णः ।

किं किं न साधयति कल्पलतेव विद्या

।।श्रीजयतीर्थगुरुभ्यो नमः ।।

मन्ये नैतदविदितं समेषां विपश्चिदपश्चिमानां यत् प्रायो लोके विविधैरुपायैर् वराकस्योदरस्य भरण एव समातुराः कुपिताहिफणच्छायाकल्पसुखविप्लुषजुषो जना इति । परं सर्वेपि नैतादृशाः । विद्यन्ते खलु तेपि धीराः ये विद्यातुराः सन्तः स्वजीवनस्य सार्थक्याय यतन्ते । ते हि विद्यार्थं सुखं, निद्रां च परित्यक्तुमलम् । तादृशैः  विविधविद्याशिक्षादक्षैः, अधीतिबोधाचरणप्रचारणवद्भिः, अनन्यसंश्रयैः कृतार्थजीविभिः विद्याकल्पलतामाश्रित्य अन्यैः साधनैरप्राप्यममृतकल्पं फलमनुभवपदमानीतं इतीदं निश्चप्रचम् ।

तदेवं समुपासकानां शाश्वतामृतधारावर्षिणीं, वेदेतिहासपूराणेषु जेगीयमानदिगन्तविभवां, सुरलोकसुधावधीरिणीं, रसर्षिरसनाग्रनर्तकीं, सकलजनसुखसमुन्नतिदायिनीं तामिमां विद्यामधिकृत्य साम्प्रतं वाणीमीरयितुमभिकाङ्क्षतेयं जनस् सुश्रूषुशेमुषीमनुकूलयिष्यन् इति तावच्छ्रूयतां विचक्षणैस् तत्त्वमार्गाभिलिप्सुभिर् भवद्भिः ।

प्रबन्धेस्मिन् …

का नाम विद्या

कति सन्तीह विद्याः

विद्याप्राप्तिः

विद्याफलम्

विद्याप्रशंसा

अविद्यावतां निन्दा

का नाम विद्या

विदन्ति धर्मार्थकाममोक्षान् अनया इति व्युत्पत्या संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ् भृञिणः इत्यनेन क्यप् प्रत्यये कृते विद्या इति निष्पद्यते । तदिमां सकलपुरुषार्थसाधनचतुष्कां विद्यां प्रवदन्ति विज्ञाः । सा विद्या तन्मतिर्यया इति अक्षराधिगतिकरणत्वात् विद्येत्युच्यते । विद्यायाः शास्त्रमिति च नामान्तरम् ।    विद्यैव तु निर्धारणात् इति सूत्रे परिगृहीतत्वाच्च । परमात्मनः सर्वजीवविलक्षणतया ज्ञानं च विद्याशब्देनोच्यते – तदुक्तं – विद्यात्मनि भिदाबोधः इति ।

कति सन्तीह विद्याः

विद्यायाः लौकिकविद्या, आध्यात्मिकविद्या इति प्रभेदद्वयं वर्वर्ति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति उपनिषदस्मानुद्भोधयन्ती ऋगादयः सर्वे यदा भगवत्पराः न भवन्ति तदा अपरविद्याः यदा तु ब्रह्मपरा भवन्ति तदा तु परविद्या इत्यभिधीयते । तदेवं भगवज्ज्ञानसाधनीभूतां विद्यां परविद्यात्वेन अभिषिंचति वेदः। परविद्यायाः ब्रह्मविद्या इत्यपि नामान्तरं विद्यते ।

विष्णुपुराणे विद्यायाः चतुर्दशप्रभेदाः निरूपिताः –

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

धर्मशास्त्रं पुराणं च विद्या हेत्याश्चतुर्दश ।। इति ।।

ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः, ज्योतिषम्, मीमांसा, न्यायः, धर्मशास्त्रं तथा पुराणं इतीमानि चतुर्दशविद्यास्थानानि । 

विद्याप्राप्तिः

गुरुशुश्रूषया विद्या इत्यार्योक्तेः विद्यासंप्राप्तये गुरूपसत्तिरेव परमं निदानम् । विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इत्याह उपनिषत्पुरुषः । गुरूपजीवनं विना तत्वमार्गे गमनं असंभवि । अप्रसादाद्गुरोर्विद्या न योथोक्तफलदा भवेत् । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवर्ततरं भवति ।

अनुवर्तते…

कुमारसम्भवमहाकाव्यम्

श्रीजयतीर्थगुरुभ्यो नमः

संस्कृतभाषा निखिलविश्ववाङ्मयेषु प्राचीनतमा भाषा इति भाषाशास्त्रज्ञैः भण्यते । अस्यां एव भाषायां उपनिबद्धाः वेदाः साहित्यादयः संस्कृतभाषायाः वैशिष्ट्यं प्रकटयन्ति । एषा काव्याख्यरत्नसमुत्कीर्णा भाषा । काव्येषु महाकाव्यं, खण्डकाव्यं इति विभागद्वयं विद्यते । तेषु काव्येषु कवयः स्वेच्छं कल्पनाभिः काव्यं अलङ्कुर्वन्ति । केचन गाम्भीर्यं प्रदर्शयन्ति । केचन उभयमपि प्रकटीकुर्वन्ति । एवं कालिदासोपि अलङ्कारविषये अतीव दक्षः इति नूनं स अत्युत्तमः महाकविः । अत एव तस्य “उपमा कालिदासस्य” इत्यादयः प्रशस्तयः विद्यन्ते । सः महाकाव्यद्वयं लिलेख तस्मिन् कुमारसम्भवम् अन्यतमम् । तस्मिन् काव्ये अष्टादश सर्गाः सन्ति येषु प्रायः पञ्चाशत् सूक्तयः विद्यन्ते । तत्र एका सूक्तिः तु –

।। एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।।

इति । अस्याः अर्थस्तु –

गुणवति पुरुषे विद्यमानः अपि दोषः गुणबाहुल्येन अभिभूयतेतमाम् । यथा चन्द्रस्य गुणबाहुल्यं अस्ति । परन्तु अङ्कः दोषः अस्ति सो दोषः गुणेषु निमज्जति । इत्येवं प्रकारेण कुमारसम्भवे बहवः सूक्तयः, उपमाश्च कालिदासेन उपनिबद्धाः ।

श्रीकृष्णार्पणमस्तु

महर्षिः दधीचिः

।।श्रीः।।

।।श्रीजयतीर्थगुरुभ्यो नमः।।

आसीत्परमभागवतः परापरतत्ववित् परमकरुणापूरः सलिलकिसलयदूर्वाङ्कुरैरपि प्रतोष्ये परमे सङ्गी तथापि भोगद्रव्येष्वसङ्गी महात्मा दधीचिर्नामर्षिः । तथा हि-

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भूषणम् ।।

स च क्रियमाणस्वोचितसकलक्रियाकलापः सन् स्वाश्रम आस । स चाश्रमः उन्मत्तगङ्गं तटिनीतटाकप्रान्तः नीरवः सस्वर्यमाणपतत्रितत्यजिरः शोश्रूयमाणवेदवादः दोधूयमानामलानिलः सन्नभ्लाशत । तदवसर एव सङ्क्लिश्यमानो वासवः असुरजनेन कटुना वृत्रेण, शरणं गन्तुकामः शरणमगमद्व्रह्माणम् । ब्रह्माभणीत् – याह्यृषिममलचेतसमनभिमानिनमदम्भिनं महात्मानं दधीचिमिति । स चोत्तिष्ठते मुक्तौ । याचस्व तस्यास्थीनि, कुरुष्व कुलिशं तेन, मारयस्वासुरजनमिति । वचसा प्रीयमाणचेताः शतमन्युः प्रास्थित । अधिवसन्तमाश्रमे निश्रमं दान्तं महर्षिं सन्ददृशे । स चर्षिः प्राघुणिकं पाकशासनं सत्कृत्य समागतिप्रयोजनमप्राक्षीत् । स इन्द्रः मन्द्रस्वनेनाह । भवेस्मिन् महानसुरो समर्थः कष्टायते । तन्निहतिप्रयोजनानि भवदस्थीनि । तत्कृतेहमिहायातः कृपया विश्राणयन्तु भवदस्थीनि । इत्थमिन्द्रवचांस्याकर्ण्य कृपयाभिलक्ष्य तमस्थिप्रदाने कृतमतिः निरुद्धश्वासस्चकासापरमिहिर इव । स ऋषिः लोकमुपकर्तुकामः असुमत्याक्षीत् । तत इन्द्रः आदायास्थीनि दम्भोलिं निर्माय निष्पिपेष वृत्रम् ।।

।। श्रीकृष्णार्पणमस्तु ।।

प्राघुणिकः – अनाहूतोपि यः गृहमायाति स प्राघुणिकः । स चोत्तिष्ठते मुक्तौ – मुक्तिं प्राप्तुं यतते (उदोनूर्ध्वकर्मणि 1.3.24 पा.) । अपरमिहिरः – अपरसूर्यः । विश्राणयन्तु – दास्यन्तु (श्रण दाने विपूर्व एव) । दम्भोलिं – वज्रायुधम्

शान्तनवो भीष्माचार्यः

श्रीगुरुभ्यो नमः

श्रीजयतीर्थगुरुभ्यो नमः

ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । तद्दृष्ट्वा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ।।

अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् …….

श्रीमन्महाभारतम्,आदिपर्व,संभवपर्व,सप्ताधिकशततमोध्यायः

आसीत्पुरा तुङ्गतरङ्गगङ्गानन्दनः, अधीतसकलशास्त्रः, भार्गवेण अभ्यस्तशस्त्रवेदः, शन्तनुमनोरथरथसारथिः,रक्तः कृष्णपादयोः,विरक्तः दूषणेषु,सिंहसंहननः शान्तनवो भीष्मो नाम । अयमंशो वसूनां शापान्मानुषत्वमवाप । त्रिपथगाप्रसूनः बाल्य एव अभ्यस्तसकलशस्त्रास्त्रः बृहस्पतिपरशुरामयोः पञ्चशतवर्षमधिजगे । सकलनिगमपक्वान्तःकरणोऽसौ आरूढयौवराज्योऽपि पितृपुनर्विवाहाय भीष्मं प्रतिजज्ञे । नाम्ना भीष्मतां जगाम। तत्याज च सिंहासनम् । अप्यायत पितुर्मोदम् । सोऽयं भीष्मोऽपि साधुष्वभीष्मः । वज्रकायः देवलावण्यवान् विजितसकलनृपतिः अम्बिकाम्बालिके प्राप्य स्वानुजाभ्यामवाहयत् । अद्यायत्स्वपरिणयाय । द्वैपायनानुग्रहसम्भूतविचित्रवीर्यात्मजान् संदृश्य सुमोदमन्वभवत् । अमोदत पौत्रैः धृतराष्ट्रपाण्डुविदुरैः । कालान्तरे स्वदुष्टपौत्रान्नाशनेन क्षारपय इव कालतः कुबुद्धिलीनबुद्धिः दुष्कर्माणि चकार । कदाचित् महाभारते तत्समयमपहाय स्वप्रतिज्ञामृतमधिकर्तुं  कृपाकरः दैवकिः पाणिकृतरथचरणः संहर्तुं गाङ्गेयं ससर्प । तेन कृतार्थोऽसौ प्रसङ्गान्तरे पाण्डवेन छिन्नकायः भगवति कृतरतिः शरशय्यां स्वाधिवासं मनुते स्म । अन्ते कृतोपदोशो युधिष्ठिराय भगवन्तमनुस्मरन् स्वासून् जहौ ।

संस्कृतामोदः

भो भो संस्कृतरसजुषः, गीर्वाणतरङ्गिणीपावितान्तःकरणाः स्वीक्रियन्तां नो हार्दानि स्वागतवचनानि सुप्रयुक्तानि । महदिदं प्रमोदस्थानं यद्वयं संस्कतदिनाचरणमभिलक्ष्य श्रावं श्रावं आमोददायिनीं गीर्वाणवाणीं व्यापारयितुं कलवचनैः विदुषः सन्तोषयितुं गद्यपद्यालङ्कृचवचोभिः उपक्लृप्ताः कल्पितावसराः स्मः इति । अतो तत्र भवन्तो भवन्तः अस्मद्मुखकमलगलितं संस्कृतामोदं पायं पायं जुषध्वम् इति सविनयं प्रार्थयामः। आपरितोषाद्विदुषां न साधु मन्यामहे प्रयोगविज्ञानम्।

सदा सौधामोदम्भरमिमममोघं रसयुतंं
नवं नानागीतस्तुतिकलितसारं रसजुषाम् ।
महं गीर्वाणानां सपदि समलङ्कार्यमुधुना
भवद्भिः सानन्दं समुपगमनेनाश्रमपदम् ।।