संञ्जयधार्तराष्ट्रम् – १

रसयामि धृतराष्ट्रगावल्गणिसंवादम्

आसीत् पुरा धृतकुरुराष्ट्रः अम्बिकानन्दनः, अक्ष्णा काणोऽपि गोचरितसकलशास्त्रसारः, साधुरपि तनयमोहान्धः, गान्धारीजानिः, कुरुक्ष्मापती राजा धृतराष्ट्राभिधेयः ।

थ प्रातःकल्पायां शर्वर्यां कृतशौचः विधिना विधिमानर्च । अथ आरूढसिंहासनः कुरुसंसदि भुवो भर्तार आटेकिरे । सेऽयं संसत् कनकपर्यङ्कोपमण्डिता चन्दनकीलालसु-सिक्ता उपमितनवीनविधुकान्तिः स्वास्तीर्णा व्यरोचत । तत्र हि शान्तनवभारद्वाजाग्रतःसराः, विदुरयुयुत्सुप्रमुखाः, धार्तराष्ट्राग्रेसराः खलाः, धृतराष्ट्रपुरस्सराः प्राविशन् परिषदम् । कमलैरिव कासरः व्यराजत सभा । तत्र पाण्डवाननसुरतरुरेणूत्किरमिव भ्राजमानं स्वक्षत्तृमत्तभृङ्गं सुषिक्तमार्गटेकितारं सादरं प्रवेशयाम्बभूव । अथ सञ्जयः प्रोवाच – हे बाहुजाः पाण्डवान् गत्वा समागतोऽस्मीति विजानीत । यथावयः पाण्डवाः सर्वान् राज्ञः प्रतिनन्दन्ति । वृद्धानभिवादयन्ति । वयस्यान् वयस्यन्ति । यथा धृतराष्ट्रेन आदिष्टोऽहं प्राग् प्रस्थितः तथैवाब्रवं पाण्डवसंसदि । अथ वासुदेवधनञ्जयावब्रूताम् । आश्रुत्य वाचमिमां धृतराष्ट्रः प्रतिबभाषे । “हे सञ्जय पृच्छामि त्वां राजमध्ये यत् वासदेवोऽब्रवीदिति” । गावल्गणिर्वाचं प्रासरत् – “हे पार्थिव प्रविष्टोऽहमन्तःपुरं तद्ददर्श । तत्र सत्यभामाङ्कमुपधानं कृत्वा जनार्दनः शेते । यत्पादपङ्कजरेणुनेत्रीं विबुधसरितमुत्तमाङ्गे निधाय शिवः शिवोऽभवत् तादृशौ पादौ बीभत्स्वङ्के निधाय शयानः पररिदृश्यते । अर्जुनश्च पादौ पाञ्चाल्यङ्के निदधौ । तत्र रोमहर्षः समजनि । तदा कृष्णः दीपनीं धार्तराष्ट्राणां मृदुपूर्वां वाचमारेभे । श्रीभगवानुवाच – “हे क्षत्तः, प्रविश्य कौरवसभां कुरुवृद्धस्य, मतिमतः आचार्यस्य श्रुतिपथगं मे वचनं कुरु । पात्रेष्वथ जहीत हिरण्यम् । कामजं मुदमाप्नुत । प्रेयेभ्यः प्रियं चरत । नः राजा विजये त्वरते । यजताध्वरान् । प्रयजत दक्षिणाः । सुतैर्दारैश्च रमध्वम् । यतः वः साध्वसमागतम् । यदा सभायां कृष्णा दवीयं मामाक्रन्दत् ततः ऋणं प्रवृद्धमिव स्वान्तात् कुतश्चिन्नापसर्पति । मद्वितीयेन करकृतगाण्डीवेन कपिध्वजेन वः वैरमुपस्थिम्” । श्रुत्वैतत् वचः साध्वसं साध्वविशत् त्वत्पुत्रलोभं वीक्ष्य मम । कृष्णौ शतपराक्रमौ । त्वन्नन्दनः तौ नावजानाति भीष्मद्रोणाश्रयः कर्णवचसोज्वलितः । इत्युक्त्वा सञ्जय आस

अनुवर्तते ………..

टिप्पणी

रसयामि – रस आस्वादनस्नेहनयोः इत्यतो लडुत्तमपुरुषैकवचनम्

गावल्गणिः – सञ्जयः । गवल्गणस्यापत्यं पुमान् । गवल्गणस्य – तन्नामकस्य सूतस्य । अत इञ् इति सूत्रेण ( अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे  ) इञ् प्रत्ययः

→ गवल्गण + इञ् [सुपो धातुप्रातिपदिकयोः 2|4|71 इति ङस्-प्रत्ययस्य लुक्]
→ गवल्गण + इ [तद्धितेष्वचामादेः 7|2|117 इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः]
→ गवल्गण + इ [यस्येति च 6|4|148 इति अकारलोपः]
→ गावल्गणि

गावल्गणे संजय स्वागतं ते इति महाभारते (भीष्मपर्वणि) ।

महाभारततार्पर्यनिर्णये च – गवल्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः । य उद्वहो नाम मरुत् तदंशयुक्तो वशी सञ्जयनामधेयः ।। विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च । समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती ।। म.भा.ता.नि ११.१३९,१४०।।

धृतकुरुराष्ट्रः – कुरूणां राष्ट्रं कुरुराष्ट्रम् । धृतं कुरुराष्ट्रं येन सः धृतकुरुराष्ट्रः । कुरवः इत्यत्र तस्य निवासः ४.२.६९ इति सूत्रेण अण्-प्रत्यये जनपदे लुप् ४.२.८१ इति सूत्रेण लुबि रूपमिदम् ।

अक्ष्णा काणः – येनाङ्गविकारः २.३.२० (येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात्) इति तृतीया ।

गान्धारीजानिः – गान्धारी जानिः यस्य सः । जानिः -पत्नी । जायाया निङ् ५.४.१३४ (जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ) इति निङादेशः ।

प्रातःकल्पा – ईषदूनं प्रातः । कल्पप्-प्रत्ययः स्वार्थिकप्रत्ययः । स्वार्थिक्रत्ययाः “स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि” इति वचनानुसारेण प्रकृतेः लिङ्गवचनानि त्यजन्ति । किन्तु अत्र शर्वरीप्रकृतेः लिङ्गमनुसृत्य स्त्रीत्वं प्राप्तमस्ति । सोऽपदादौ (८.३.३८) इति सूत्रेण विसर्जनीयस्य सकारादेशे प्रसक्ते सोऽपदादावित्यनव्ययस्येति वक्तव्यमिति वचनेन निषिध्यते । अतः ‘प्रातः’ इत्यव्ययम् ।

चन्दनकीललम् – चन्दनजलम् । पयः कीलालममृतम् इत्यमरः ।

सु-सिक्तम् – सुः पूजायाम् इति ‘सु’ इत्यस्य कर्मप्रवचनीयसंज्ञा भवति ।

क्षत्ता – सूतः । सूतः क्षत्ता च सारथिः इत्यमरः ।

बाहुजाः – राजानः । बाहोर्जायन्ते इति बाहुजाः । ‘बाहू राजन्यः स्मृतः’ (पुरुषसूक्तम्) । बाहुजः क्षत्रियो विराट् इत्यमरः ।

बीभत्सुः – अर्जुनः । अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः ।। (विराटपर्वणि)

महापराक्रमी भीमसेनः

मुख्यप्राणाय भीमाय नमो यस्य भुजान्तरम् । नानावीरसुवर्णानां निकषाश्मायितं बभौ ।।

श्रीजयतीर्थगुरुभ्यो नमः

अस्ति पुरा विजितभूमण्डलपराक्रमी पाण्डवललामो महाललामो गदाधरः कौन्तेयः संम्परायकुशलः धिष्ण्याभिख्यः समयसत्यः भीमो नाम । जातः सः तत्क्षणम् द्वीपिनः भीतया कुन्त्या पातितः शतधा भञ्जयामास गोत्रम् । अतः खलु शतशृङ्गः इति नाम्ना विराजते स पर्वतः। अथ कदाचन गजपुर्यां सुयोधनेन प्रदत्तक्ष्वेलभोजनं जग्ध्वा खेलया सुप्तः धार्तराष्ट्रेन च प्रमाणकोट्याख्ये तटाके पातितः सन् अधोभुवने बलिना संम्पूजितःदशसहस्रेभबलदं हाटकरसं पपौ । ततः बहिरागतश्च बलेन । स उपाध्यायात् द्रोणात् शिक्षयन् चापविद्यां आनिनाय विसृष्टं बाणमपि । ततः सः बलरामेण शिक्षितसर्वविद्यः सन् आजगाम हस्तिपुरम् । शठेन दुःर्योधनेन लाक्षागृहे नियोजितः युक्त्या प्रच्यावितोsभूत् । वने हिडिम्बं विप्रोड्य हिडिम्बां ऊढ्वा पाञ्चालेषु स्वयंवरे द्रौपदीं संम्प्राप्य आजगाम नागपुरम् । तत्र कुसुतेन कौ अप्रदत्तायां सत्यां कृष्णप्रभावेन इन्द्रप्रस्थाख्यं पुरं प्रविवेश । राज्यभारं कुर्वन् सुयोधनद्यूते पराजितः सन् द्रौपदीवस्त्रापकर्षणे आह, अहं दुःशासनं हन्मि येन हस्तेन सो वस्त्रापकर्षणं चकार तं हस्तं भञ्जयामि । इति प्रतिज्ञां च चकार । पुनः राज्यं लब्ध्वा मुहुः द्यूते पराजितेन अग्रजेन सह वनं जगाम । तत्र नानाविधान् गन्धर्वसेवकान् राक्षसान् च निहत्य सौगन्धिककुसुमं च प्रदाय पत्न्यै सन्तोषयामास ताम् । तत्र तत्र रक्षयन् ब्राह्मणान् यापयामास द्वादशवर्षकालम् । अज्ञातवासे च विराटनगरे पाचको बभूव वललनाम्ना । स च भीमोत्सवे भीमो मल्लान् अहनत् चतुर्थे मासि । एवं कीचकं उपकीचकान् च अप्रोडत् । अथ प्रारब्धवैराटयुद्धे आहूतो वललवेषधारी भीमः सुशर्माणं सुवर्माणं जिगाय । एवं तत्र निर्विघ्नं त्रयोदशवत्सरात्मके वनवासाज्ञातवासे यापयामास । अथ अक्षमेण क्षमायां पुनः सत्यां अप्रदत्तायां नियोजितपाण्डवधार्तराष्ट्रयुद्धे समारब्धे सति तार्क्ष्यवेगक्षयकरः धर्मेण धर्मी नाभिकुलोत्पन्नः अपरप्लवङ्गमः युयोध भीमो रिपुभिः । सर्वाः प्रतिज्ञाः साधयन् स अहनत् एकोनशतं धार्तराष्ट्रान् । अन्तिमायां अवस्थायां क्षमो वृकोदरः अच्छषत् दुर्योधनम् । अथ लब्धराज्यः सन् बुभुजे पुरभोगान् च । एवं कृष्णे सुदीर्घकालं मनः निधाय अपयत स्वधाम ।।

श्रीकृष्णार्पणमस्तु

टिप्पणी

अस्ति पुरा- यावत्पुरानिपातयोर्लट् इति लट् (“अभिषिच्यते पुरा” सुमध्वविजयः ५ सर्गः १ श्लोकः वत् ) अतीतार्थे स्वीकृतम् ।।

विजितभूमण्डलपराक्रमी – विजितः भूमण्डलः येन सः विजितभूमण्डलः । पराक्रमः अस्य अस्ति इति इति पराक्रमी विजितभूमण्डलश्चासौ पराक्रमी च विजितभूमण्डलपराक्रमी ।।

पाण्डवललामः – ललामम् – प्रधानम् “ललामं पुच्छपुण्ड्राश्वभूषाप्राधन्यकेतुषु ” इत्यमरः ।।

महाललामः – ललामम् – तिलकम् ” ललामं पुच्छपुण्ड्राश्वभूषाप्राधन्यकेतुषु ” इत्यमरः ।।

सम्परायकुशलः – युद्धकुशलः । “युद्धायत्योस्सम्परायः” इत्यमरः ।।

धिष्ण्याभिख्यः – धिष्यम् – अग्निः “धिष्ण्यं स्थाने गृहे भेsग्नौ” इत्यमरः । अभिख्या – कान्तिः “अभिख्या नामशोभयोः” इत्यमरः ।।

समयसत्यः समयः – शपथः “समयाश्शपथाचार” इत्यमरः । सत्यम् – ऋतम् “सत्यं तथ्यमृतं सम्यक्” इत्यमरः

द्वीपिनः – व्याघ्रेण “शार्दूलद्वीपिनौ व्याघ्रे” इत्यमरः पञ्चमी भयेन  इति पञ्चमी।।

क्ष्वेलः विषम् “क्ष्वेलस्तु गरलं विषम्” इत्यमरः ।।

जग्ध्वा – अद भक्षणे त्वान्तमव्ययम् ।।

खेलया – क्रीडया ।।

तटाके – पद्माकरः (सरोवरः) “पद्माकरस्तटाकोस्त्री” इत्यमरः ।।

अधोभुवनम् पातलम् “अधोभुवनपातलम्” इत्यमरः ।।

इभ – गजः “मतङ्गजो गजो नागः कुञ्जरो वारणः करी । इभः स्तम्भेरमः पद्मी” इत्यमरः ।।

विप्रोड्य – वि इत्युपसर्गपूर्वक प्रुड मर्दने इति धातोः ल्यप् ।।

कुसुतेन – कुत्सितानि कुत्सनैः इति तत्पुरुषः कुत्सितश्चासो सुतश्च कुसुतः ।।

कुः – पृथिवी “गोत्रा कुः पृथिवी पृथ्वी” इत्यमरः ।।

अग्रजेन सह – सहयुक्तेऽप्रधाने इति सूत्रेण तृतीया अग्रजशब्दस्य

आह – ब्रूञ् व्यक्तायां वाचि इत्यतः विकल्पे कृते लटः ब्रुवः पञ्चानामादित आहो ब्रुवः इति सूत्रेण ।।

भीमोत्सवे भीमः – रुद्रः “भीमः स्थाणू रुद्र उमापतिः” इत्यमरः ।।

अमोडत् – मुड मर्दने लङ्

क्षमा – मेदनी “क्ष्मावनिर्मेदिनी मही” इत्यमरः ।।

तार्क्ष्यवेगक्षयकरः – तार्क्ष्यः – गरुडः “तुरङ्गगरुडौ तार्क्ष्यौ” इत्यमरः । तार्क्ष्यानां वेगः तार्क्ष्यवेगः तार्क्ष्यवेगस्यापि क्षयं करोति इति तार्क्ष्यवेगक्षयकरः ।।

धर्मेण धर्मी – धर्मेण – स्वभावेन । धर्मी आचारयुक्तः। “धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः” इत्यमरः ।।

नाभिः – क्षत्रियः “क्षत्रियेषु च नाभिर्ना” इत्यमरः ।।

क्षमम् – हितकारि “क्षमं शक्ते हिते त्रिषु” इत्यमरः ।।

अच्छषत् – छष हिंसायाम् आत्मनेपदि लङ्

अपयत – पय गतौ लङ्

महागणितज्ञः आर्यभटः

।।श्रीजयतीर्थगुरुभ्यो नमः।।

रहेू जजपदूो

सिद्धान्तपञ्चकविधावपि दृग्विरुद्धं मौढ्योपरागमुखखेचरचारक्लृप्तौ। सूर्यस्वयं कुसुमपुर्यभवत् कलौ तु भूगोलवित् कुलप आर्यभटाभिधानः।।

निश्चप्रचं एव यत् भारते विविधशास्त्राधीतिबोधाचरणप्रचारणाः आसन् । तत्र बहवो विचाराधाराधुरीणाः सन्तोषितसरस्वत्यः स्वगोभिः शास्त्रिणः प्रौढताभरान् ग्रन्थान् अभ्यधुः। भास्कराचार्यः पाणिनिः वराहमिहिरः इत्यादयः महामेधाविनः स्वकृतग्रन्थप्रवालैः भारतदेशम् अह्वरन्त । अत्र अतीव प्राचीनतमं शास्त्रं तु गणितशास्त्रमेव । गणितशास्त्रक्षेत्रे भास्कराचार्यादयः तेषां प्रवरबुद्धिसमृद्ध्या भारतदेशं अछर्दयन् । लीलावत्यां भास्कराचार्यः श्लोकरूपेणैव अतिरमणीयतया वर्तुलस्य कोष्ठागारं आह –

वृत्तक्षेत्रे परिधिगुणितं व्यासपादं फलं तत्

क्षुण्णं वेदैरुपरि परितः कन्दुकस्यैव जालम्

गोलस्येव तदपि च फलं पृष्ठजं व्यासनिघ्नं

षड्भिर्भक्तं भवति नियतं गोलगर्भं घनाख्यम् ।।

इति शीलिनीवृत्ते लिखितमिमं श्लोकमवलोक्य आधुनिकगणितज्ञाः, कथमेतावत्सुन्दरतया तथा वादरहिततया अतीव गहनविषयं न्यरूरुपन्निति मूकविस्मिताः बभूवुः । अनया रीत्या अखिलशास्त्रेषु अग्रगण्यः तिष्ठति भारतदेशः । साम्प्रतं प्रथमगणितज्योतिषज्ञः यः भारतस्य कीर्तिं ववृधे तथा गणितशास्त्रे दिग्गजवत् भ्राजते तादृश-आर्यभटस्य विषये अस्मिन् लेखे प्रस्तूयते।।

आर्यभटः महागणितज्ञः ज्योतिज्ञः आसीत्। सः क्रिस्तोपूर्वः ४७६ तमे वर्षे कुसुमपुर्यां प्रादुर्भूताः । अद्य लभ्यमानेषु ज्योतिर्गणितशास्त्रग्रन्थेषु आर्यभटस्य ग्रन्थाः एव अतिपुरातनाः । आर्यभटरचितस्य ज्योतिश्शास्त्रग्रन्थस्य आर्यभटीयं इत्येव प्रसिद्धम् । बहुभिः ग्रन्थैः प्रतिपादनीयस्य अतिविस्तृतस्य विषयस्य सूत्रैः इव संक्षिप्य प्रतिपादने आर्यभटस्य महद्वैशिष्ट्यम् वर्तते । आर्यभटीये गीतिपादः गणितपादः कालक्रियापादः गोलपादश्चेति पादचतुष्टयम् विद्यते ।

गीतिपादः

अस्मिन् पादे दशश्लोकाः गीतिच्छन्दसि वर्तन्ते इति कृत्वा अस्य गीतिपादः इति अभिधानम् । सङ्ख्यानां निर्देशाय आर्यभटेन केचन सङ्केताः प्रकल्पिताः । वर्णामालागत-एकैकवर्णस्य सङ्ख्याः सङ्केताः वर्तन्ते । तद्यथा = १ = १०० ……. आर्यभटः एतानि परिभाषापदानि उपयुज्य सूर्येण ४,३२,००० भ्रमणानि क्रियन्ते इति कथयितुं – ख्यु घृ इति संख्यावाचकं प्रयुनक्ति ख्यु घृ इत्युक्ते खु यु घृ = खु = २* १०,००० = २०,००० + यु = ३०* १०,००० = ३,००,००० + घृ = ४* १०,००,००० = ४०,००,००० = ४३,२०,००० इति भवति अन्येषां ग्रहाणां व्यासः तथा भगमः एवमेव न्यरूरुपत् अस्मिन् पादे ।।

गणितपादः

त्रयस्त्रिंशत्श्लोके अस्मिन् पादे आर्यभटेन अनेके विषयाः प्रतिपादिताः । यथा स्थानमौल्यपद्धतिविषये- (Place value system)

एकं दश च शतं च सहस्रमयुतनियुते तथा प्रयुक्तं ।

कोट्यर्बुधं च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ।। इति

अस्मिन् पादे त्रिकोणशास्त्रमपि आर्यभटेन प्रतिपादितमस्ति । तत्र “Theta” इत्यस्य ज्या इति संज्ञां दत्तवन्तः । भूमित्यां अपि त्रिभुजक्षेत्रफलं वृत्तक्षेत्रफलं इत्यादयः निरूपिताः । एषां अध्ययनेन वस्तुशिल्पशास्त्रं विज्ञातुं शक्यते ।अत्र आश्चर्यविषयो नाम अद्यतन पैथागोरास् वादः अपि श्लोकरूपेणप्रतिपादितः अस्ति।।

आयाममायामगुणं विस्तारं विस्तरेण तु । समस्य वर्गमूलं यत्करणं तद्विदो विदुः इति ।।

उपसंहारः-

एतादृशं साङ्ख्यपूर्णं आर्यभटीयं जगति प्रचुर प्रचारे अद्यापि वरीवर्तते। अस्माकं गौरवं यत् पूर्वतनाः सिद्धान्ताः जगत्प्रख्याताः अभूवन्। महापुरुषः आर्यभटः भारतस्य कीर्तिध्वजं समुत्तोलितवान् इति अस्माकं भावना विद्यते।।

टिप्पणी

स्वगोभिः- निजवाग्भिः

शास्त्रिणः – शास्त्रिन् शब्दस्य प्रथमाविभक्तिः बहुवचनरूपम्। तदधीते तद्वेद (4.2.59) इत्यनेन सूत्रेण अधीतार्थे अण् प्रत्ययो भवति। तथा च- शास्त्रं अधीयते इति शास्त्रिणः इति विग्रहः।।

 प्रौढताभरान्- प्रौढता- कठिनता, भरः- भारः। प्रौढता एव भरः येषां ते प्रौढताभराः तान् प्रौढताभरान् इति विग्रहः।।

अभ्यधुः- अभि उपसर्गपूर्वात् डु दाञ् धारणपोषणयोः इत्यस्मात् लुङ् परस्मैपदम्। दत्तवन्तः वा धृतवन्तः इत्यर्थः।।

अह्वरन्त- ह्वृ संवरणे इत्यस्मात् लङ् परस्मैपदम् । आच्छादितवन्तः इत्यर्थः ।।

अछर्दयन् – छृदी सन्दीप्ते इत्यस्मात् लङ् परस्मैपदम् । प्राकाशयन् इत्यर्थः ।।

कोष्ठागारं- Surface Area.

वादरहिततया – (without any Theorems).

कुसुमपुर्यां – Present Patna.

भगमः- Revolution.

।।श्रीकृष्णार्पणमस्तु।।

रामायणम्-१

श्रीः

श्रीजयतीर्थगुरुभ्यो नमः

पुरार्यरिरासीन्नरधुरीणो करिकरसमकरः शरशतहतनक्तञ्चरः करकृतखरहृद्विभेदरवो गुणास्फालनेन, वनेचरो, हरो रमण्याः, परो देवानां, हरो मारवदनश्रियः, शरभङ्गोपहृतपदो, वरगङ्गाचरः, सकार्मुकदण्डदण्डकचरो मण्डितभूः कमलभूगुरू रामो नाम । स प्राप्तत्र्यवरजोऽजो आस । तस्य ह बभूव पिता दशसु विमलास्वाशासु स्यन्दमानस्यन्दनो स्वाधिकनमःस्वाधिकनमाः स्वच्छधिषणो सुलक्षणो लक्ष्म्यक्षिभाग्राजा । तस्यासन् सुन्दर्यः उर्व्यः । कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् । सुमित्रासूत मित्रप्रभौ सुलक्षणशत्रुघ्नौ लक्ष्मणशत्रुघ्नौ । कैकेय्यसूत स्वरतं भरतम् । ते च प्रववृधिरे चतुरो भ्रातरो हरिशावका इव । ते चासुरधीतिनो धनुषि । अथाजगामैकदा नेतुं विश्वामित्रो विश्वमित्रं सत्रघ्नघ्नाय । शत्रुघ्नावरजो रामो, अन्वयात्तमृषिम् । तत्रारङ्ग्य, मुखश्रुतरसगीरसावयात् युतो मुनिना ताटकामताटकाङ्कर्तुम् । तां प्रतिहन्य, प्रवन्द्य सिद्धं, सिद्धपदमैष्ट । ततो भङ्गं विधाय रक्षसां, रक्षो मखस्य, इयेट स्वयम्वरमवरजयुतः । तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय । दशमोदो दशरथोऽलषद्राममभिषेक्तुं राज्ये । तमभिलाषं हन्तुमुद्यतया निकृत्या, विकृतमत्या कैकेय्याऽभिषेको न्यवधि । तयाऽव्रियेताम् द्वे दशरथात् । भवत्वधिवासो वनं रामः । भरतो हरतु राज्यम् । इमामश्रव्यामाश्रुत्य वाचं अभ्युपागमच्छलेन । ततः स दशस्यन्दनो स्यन्दमानेतुं मन्त्रिणं सुमन्त्रमामन्त्रयत । तेन सुमन्त्रेणानिन्ये । तं स्यन्दमारुह्य सपत्नीकः सपत्ननाशाय सावरजोऽजो पूतः पूतः पुर आर्षीत् । तमन्वयुर्द्विधा द्विजाः । तञ्चर्षयो हंसाः हंसशुक्लशिरोरुहाः गन्धवहबन्धवः उरवो रामप्रियकराः । तमभियान्तं रथे दशरथोऽभिलक्ष्य कियतापि कालेन नातार्प्सीत् । अङ्गनाश्लिष्टाङ्गो दशरथः विलप्य प्रमील्य धरामश्लिक्षत् । ततो रामेण कार्मुकदण्डेन दण्डकेष्वदाक्षि । भरतो नाभिरतो राज्ये रामस्थं देशं ससार । वनेऽवनिजया चकासतं दशस्यन्दनसुतमाननाम भरतः । तेन पूज्यपादः पूज्यपादुके अयाचि । सन्यासे पादुके आदाय भरतो ननन्द नन्द्याख्ये ग्रामे । तत अतीत्य चित्रकूटं चित्रधामा पञ्चवटीमाप । तत्रासौ रममाणः, स्वस्मिन् रममाणान् रमयमाणो आस । तत्रोटजं निर्माय विधायावात्सीत् । एतदन्तर आनृणे विधवा शूर्पणखा । साऽह भव मे पतिरिति । तां रामो हास्यकथयाऽवरजं याहीत्यूचे । ततः स यविष्ठेन, दुष्टचरितां, विकर्णनासां अचीकरत् । प्रतिकर्तुकामा सा शूर्पणखा खरदूषणादीन्प्राहिणोत् । तान्रामोऽमीमरदेकः समरेऽमरस्तुते ।।

टिप्पणी

अर्यरिः– अरीणामरिः राक्षसारी रामः

नरधुरीणः– नरश्रेष्ठः, धुरं वहतीति धुरीणः खः सर्वधुरात्‌  4 4 78 इति खः

शरशतहतनक्तञ्चरः– शरशतेन हतः नक्तञ्चरो येनासाविति, रामः

करकृतखरहृद्विभेदरवो गुणास्फालनेन– हस्तकृतो खराणां अरीणां, तन्नामकस्येति वा हृद्भेविभेदरवः शब्दः येनेति रामः। गुणः ज्या मौर्वी ज्या शिञ्जिनी गुणः इत्यमरःआस्फालनम् आङ् पूर्वात् स्फुर सञ्चलने इत्यतो करणाधिकरणयोश्च 3 3 117 इति ल्युट् । ताडनमित्यर्थः

वनेचरःहलदन्तात्‌ सप्तम्याः संज्ञायाम्   6 3 9 इत्यलुक्

हरो रमण्याः– रमणी सीता सुन्दरी रमणी रामा इत्यमरः । हरः, हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते । ऋदोरप्‌  3 3 57 इत्यप्

शरभङ्गोपहृतपदः– शरभङ्गो ऋषिः तस्मै उपहृतं दत्तं पदं स्थानं येनासौ रामः

सकार्मुकदण्डदण्डकचरो – कार्मुकं धनुः सैव दण्डः तेन सहितः दण्डकेषु अरण्येषु चरः रामः

कमलभूगुरू रामःढ्रलोपे पूर्वस्य दीर्घोऽणः 6 3 111 इति दीर्घः । कमलभूर्ब्रह्मा तद्गुरुः पिता रामः

प्राप्तत्र्यवरजः– प्राप्ताः त्रयो लक्ष्मणभरतशत्रुघ्नाह्वया अवरजाः अनुजाः यवीयोवरजानुजाः इत्यमरः येनेति रामः

स्यन्दमानस्यन्दनः– स्यन्दू प्रस्त्रवणे लटः शतृशानचावप्रथमासमानाधिकरणे 3 2 124 इत्यतो शानच् । स्यन्दमानं गम्यमानं स्यन्दनं रथः यस्येति तथोक्तो दशरथः

स्वाधिकनमःस्वाधिकनमाः-स्वस्मादधिकाः स्वाधिकाः, दशरथादुच्चाः तेषां कृते नमः यस्यास्तीति सः दशरथः अपि च स्वः दशरथः एवाधिकः येषां अयोध्याजनानां ते स्वाधिकाः तेषां नमः यस्यास्ति सः दशरथः

लक्ष्म्यक्षिभाक्– लक्ष्म्याः ये अक्षिणी ते भजतीति लक्ष्म्यक्षिभाक्, सम्पत्तिमान् दशरथः

कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् -कौसल्या कौ भूमौ रक्षोहृदां शल्यं हृदयभेदकं रामं असूत

सुलक्षणशत्रुघ्नौ– शोभनानि लक्षणानि ययोः लक्ष्मणशत्रुघ्न्वोः तौः सुलक्षणौ, शत्रून् हतः इति शत्रुघ्नौ सुलक्षणौ च शत्रुघ्नौ च सुलक्षणशत्रुघ्नौ

स्वरतः– स्वातन्त्र्यात् स्व इति प्रोक्तः भगवान् तस्मिन् रतं अनुरक्तमिति भावः

हरिशावकाः– सिंहशिशवः, पोतः पाकोर्भकः डिम्भः पृथुकः शावकः शिशुः इत्यमरः (lion cubes)

ते चासुरधातिनो धनुषि– ते बालाः धनुषि विषये अधीतिनः आसुः । अधीतमनेनेत्यधीती इष्टादिभ्यश्च 5 2 88 इति इनिः । धनुषि कृतविद्या इति भावः

विश्वमित्रम्मित्रे चर्षौ 6 3 130 इति ह्रस्वः । रामः

सत्रघ्नघ्नाय– सत्रं यज्ञः सत्रमाच्छादने यज्ञे इत्यमरः तं हन्ति नाशयन्ति राक्षसाः तेषां हत्यै

शत्रुघ्नावरजो– शत्रुघ्नो अवरजो यस्येति भावः रामः

अन्वयात्– अनु पूर्वात् यातेर्लङ्

आरङ्ग्य– आङ्पूर्वात् रिगि गतौ इत्यतो ल्यबन्ताव्ययम्

रक्षः मखस्य– यज्ञस्य पालकः

मुखश्रुतरसगीः– मुखेन विश्वामित्रमुखेन श्रुताः रसाः अनुरागयुताः स्नेहाः गिरः त्वत्प्रसादात् अस्मद्यज्ञनिष्पत्तिरभूदित्यादिस्नेहपूर्ववचांसि येन रामेणेति तथोक्तः

ताटकामताटकां कर्तुम्– ताटकां अताटकां निष्चञ्चलां कर्तुं संहर्तुंमित्यर्थः

सिद्धं– मुनिम् । षिधू शास्त्रे माङ्गल्ये च इत्यतो अचि निष्पन्नं । सिद्धिरस्यास्तीति सिद्धः अर्शआदिभ्यो अच् 5 2 17

सिद्धपदंबहवोत्र तपस्यन्तः सन्तः सिद्धत्वं आप्नुयुः । तस्मात्सिद्धाश्रमो नाम इति वचनात् यस्मिन् पदे स्थाने आश्रम इत्यर्थः । बहवः सिद्धाः मुनयः आसन् तादृशं विश्वामित्राश्रमं इत्यर्थः

ऐष्ट– ईङ् गतौ इत्यतो लुङ्

इयेट– इट गतौ इत्यतो लिट्

तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय – तत्र स्वयम्वरे, सारसलोचनो कमललोचनो सारसं सरसीरुहं इत्यमरः । हंसः सूर्यः भानुर्हंसः सहस्त्रांशुः इत्यमरः तत्कुलस्य राजहंस इव स्थितः रामः सीतां हस्तेकृत्य नित्यं हस्ते पाणावुपयमने 1 4 77 इति पाणिशब्दस्य गतिसंज्ञा । दारकर्म कृत्वा, यथा, सितं न भवतीति असितं (dark blue) तादृशाम्बुदः मेघः जलपूर्णः सन् पार्थिवान् पृथिव्यां जातान् वृक्षान् सस्यानि च वर्षणेन प्रमदं आनन्दं मुत्प्रीतिः प्रमदो हर्षः इत्यमरः । आनिनाय दुह्याजित्यादिना द्विकर्मकत्वम् । तथा रामः पार्थिवं दशरथं तथा अन्यान् पार्थिवान् तथा प्रमदाः स्त्रियः प्रमदं मोदमानिनाय

दशमोदः– दशेति पूर्णमुद्दिष्टं दशं पूर्णमिहोच्यते इति वचनात् दशशब्दः पूर्णवचनः । पूर्णमोदः इत्यर्थः

अलषत्– लष का्न्तौ इत्यतो लङ् । ऐच्छत्

निकृत्या– कैकेयां निकृत्यावेशः तस्याः कारणतो रामो वनमगच्छत् । यथाहाचार्यः- तथापि सा यदावेशाच्चकार त्वय्यशोभनं ।

निकृतिर्नाम सा क्षिप्ता मया तमसि शाश्वता ।।

रामः वनं अध्यूषो भवतुअधिशीङ्स्थासां कर्म 1 4 46 इत्यतो द्वितीया

भरतो हरतु राज्यम्– भरतः राज्यम् हरतु स्वीकरोतु । हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते

आश्रुत्य– आङ्पूर्वात् शृणोतेर्ल्यप्

अभ्युपागमच्छलेनप्रसभं तु बलात्कारो हठोथ स्खलितं छलम् इत्यमरः । अभ्युपागमत् अङ्गीचकार अङ्गीकाराभ्युपगमः प्रतिश्रव समाधयः इत्यमरः

आमन्त्रयत– आङ्पूर्वात् मत्रि गुप्तपरिभाषणे इत्यतो लङ् । स्वरित ञितः कर्त्रभिप्राये क्रियाफले 1 3 72 इत्यतो आत्मनेपदम्

सपत्ननाशाय– सपत्नाः राक्षसाः रिपौ वैरि सपत्नारिः इत्यमरः

पूतः पूतः पुर आर्षीत्– पूतः शुद्धः, त्यक्तभूषणः, परिवीताजिनः इत्यर्थः । पूतः पू स्त्री पुरी नगर्यौ वा पत्तनं पुटभेदनम् इत्यमरः तसिल्प्रत्ययान्तमव्ययम् । पुरः अग्रे आर्षीत् ऋषी गतौ इत्यतो लुङ्

तमन्वयुर्द्विधा द्विजाः– द्विधाः द्विविधाः ब्राहणतो पक्षितश्च

हंसशुक्लशिरोरुहाः हंसाः– हंस इव शुक्लाः सिताः शिरोरुहाः कचः केशः शिरोरुहः इत्यमरः तादृशाः हंसाः योगिनः

गन्धवहबन्धवाः– गन्धवहो वायुः, पृषदश्वो गन्धवहो इत्यमरः, स एव अशनेन बन्धुः एषामिति भावः । तादृशाः योगिनः । पवनाशना इत्यर्थः

रामप्रियकराः– रामस्य प्रियकराः जनाः

अतार्प्सीत्– तृप प्रीणने इत्यतो लुङ्

प्रमील्य– मूर्च्छां प्राप्य, प्रपूर्वात् मील निमेषणे इत्यतो ल्यप् यथाह श्रीहर्षः-

सुताः कमाहूय चिराय चूङ्कृतैर्विधाय कम्प्राणि मुखानि कं प्रति ।

कथासु शिष्यध्वमिति प्रमील्य स स्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ।। इति

धरामश्लिक्षत्– ममार । श्लिषतेर्लुङ्

कार्मुकदण्डेन– कार्मुकं धनुः सैव दण्डो यस्यासौ रामः तेन

अदाक्षि– दक्ष गतिहिंसनयोरित्यतो यकि लुङ् । चचार अवधीदिति वा

अवनिजया चकासतं– अवनिजा सीता तया चकासतं नाभ्यस्ताच्छतुः 7 1 78 इति न नुमागमः । जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा ।

पूज्यपादः– पूज्यौ पादौ यस्यसौ रामः अथवा पूज्यश्चासौ पादश्च पूज्यपादः रामः । उत्तमानां स्वरूपं तु पादशब्देन भण्यते इति वचनात् पादशब्दो उत्तमस्वरूपद्योतकः

सन्यासे पादुके– न्यासभूत-रामदत्त-पादुके इत्यर्थः । न्यासः स्थापनमित्यर्थः

चित्रधामा– चित्रमद्भुतं धाम रश्मिः यस्यासाविति रामः । धाम देहे गृहे रश्मौ इति विश्वः

स्वस्मिन् रममाणान्– स्वस्मिन्नासक्तान्

उटजम्संस्त्यायमुटजं धाम इत्यमरः । गृहमित्यर्थः

आनृणे– ऋणु गतौ इत्यतो लिट्

शूर्पणखापूर्वपदात्‌ संज्ञायामगः 8 4 3 इत्यतो णत्वम्

हास्यकथया– परिहासरुपकथया

अवरजंयवीयोवरजानुजाः इत्यमरः लक्ष्मणमित्यावत्

यविष्ठेनयवीयोवरजानुजाः इत्यमरः लक्ष्मणेनेत्यर्थः

दुष्टचरिताम्– दुष्टं चरितं विधवापुनरुद्वाहरुपं यस्या सा शूर्पणखा

प्रतिकर्तुकामा– प्रतीकारं कर्तुं इच्छावती शूर्पणखा ।

प्राहिणोत्– गि गतौ वृद्धौ च इत्यतो लङ् । हिनुमीना 8 4 15 इति णत्वम्

अमीमरत्– मृणोतेर्णिचि लुङ्

अम्बरीषः

अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ।।

मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसम्मतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ।।

वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ।।

स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने ।

करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ।।

श्रीमद्भागवतम्,नवमस्कन्धः,षष्ठोऽध्यायः ३,४,५ श्लोकाः
आदिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं कृद्धाहिमिव पावकः ।।

टेकते मे स्वान्तपथे नाभागतनूजः विष्णुपाणिनुन्नसुदर्शनरक्षितः तपोगभस्तिसूर्यः आनन्दितानन्दः चन्दनाङ्गदः अम्बरेश इव भ्राशमाणः शम्बरारिपत्तनगतरथः सम्भप्रादुर्भूतनरहरिपदासक्तः ऐक्ष्वाकुरम्बरीषाह्वयः । सोऽयम् अध्यैष्ट श्रुतिस्मृतिनेत्रान् शास्त्रग्रन्थान् । इयाज देवद्रविणानि । अपारीत् पितॄन् । प्रावृषेण्याभ्रसमवाग्झरीः जनपापपयस्पाशाग्राही अंशुमालीव विभ्राजमाणः छान्दसोऽयं बाहुजः कदाचित् कृतैकादशीव्रतः पारणाय दुर्वाससमतिथिं मेने । तपश्चणः कणकणेषु दृष्टदेवरूपः द्वादशीप्रत्यूषे स्नातुमभ्यटेकत । चिरादनागते सति तपस्विपुङ्गवे व्रतभङ्गसाध्वसात् स्वीचकार दैत्यारिपादकीलम् । ज्ञातवृत्तान्तः ऋषिः अवकृन्तयतित्वा सटां विससर्ज रक्षः । सैकक्षणे पाटलकोमलवनमालिकरप्रयुक्तः अमिताहस्करप्रतिमतीक्ष्णारहस्रवान् दुष्टेरदृष्टः सुदर्शनः अमोडत् राजघ्नम् । ततः दुर्वाससं हिंसितुं परिवर्तितमार्गः तमधावयत् । भीत इव भगवत्पादरजोभिषिक्तो व्रती ब्रह्माणमुपाटिटेक । पदं मदीयं सह क्रीडावसाने विनाशमुखं याति येन तन्नुन्नं कोऽपि न रुणद्धि ऋते आदिदेवमिति धात्रा श्रुतवाक्यः प्रपेदे लोकशङ्करं त्रिशूलकरम् ।

वयं न तात प्रभवाम भूम्नो

भवन्ति काले न भवन्ति हीदृशाः ।

यस्मिन् परेऽन्येऽप्यजजीवकोशाः

सहस्रषो यत्र वयं भ्रमामः ।। (श्रीमद्भागवतम्,नवमस्कन्धः,षष्ठोऽध्यायः)

इत्युक्तः साक्षात्किरीटिनं भक्तकुन्दविकासचन्द्र इव भ्लाशमाणं तत्पादमूले पतितः सुदर्शनापचितिं ययाचे । अहं भक्तपराधीनः अतः विराजं पद्यतामित्यूचे । पश्चादम्बरीषपादमापन्नः तेन निवारितसुदर्शनतापः भूपकीर्त्यै तं तुष्टाव । एवमनुध्यायन् विष्णुं कालान्तरे वैकुण्ठद्वास्थानुमतः सन् अद्यापि रमते विष्णुपदे ।।

टेकते – टिकृ गतौ

वीराभिमन्युः

देदीप्यते मे चित्तरङ्गे भारद्वाजद्रौणिदौर्योधनिधार्तराष्ट्रैकहिंस्रः अर्जुनसुभद्रामन्दानन्दः अभ्यस्तविद्यास्त्रः कृष्णात् कार्ष्णिः प्रतिदिवसोपजायमानोदयः पाण्डवलक्षणोपबृंहितः पुत्रीभूतपरीक्षित् कौरवपर्वतद्युमणिः भेरीव सकलज्ञातस्वनः कुमारः सौभद्रो नाम । उपमितनवेन्दुवंश्यप्रदीपः दारकृतोत्तरः पद्मव्यूहस्फोटकः सदसत्प्रीत्यप्रीतिकरणेन उपमितेन्दुद्युमणिः सः श्रुतपद्मव्यूहोत्क्रमणः अर्जुनेन अवायत् भियम् । अकोकत विद्याम् । नित्यमच्योतत् स्वभक्तिसस्यम् । अरोठदरिचक्रम् ।

आजिदिग्गजानामपि भीकरे समरे एकः प्रविष्टो ह्यष्टादशहायनः सिंहशावक इव बलिष्ठसंहननः लक्ष्मणमलक्षमं विदधौ । बाणैः प्रस्वेदितकुरुभारद्वाजाङ्गप्रवीरः तैः कपटेन पटुतरं छेदितगात्रोऽपि पटुतया तान् न्यरुणत् । विधिभ्रूविभ्रमेन तैः पापैः वञ्चतः धरामश्लिक्षत् । हीनप्राणस्यापि समज्ञा व्याश्नुते अधुनापि ! अतः

महात्मनां कीर्तिरलं जीवत्येव भवेन्नहि ।

गुणबाहुल्यवन्नॄणां मरणेऽप्यापगायति ।। (मदीयः श्लोकः)

टिप्पणी

कार्ष्णिः – अर्जुनः । तदुक्तम् –

व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामिस्रयक्षकलिनीलगुणेषु कृष्णः इति भास्करः

द्युमणिः – द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विभावसुः इत्यमरः

उपमितनवेन्दुवंश्यप्रदीपः – नवश्चासाविन्दुश्च नवेन्दुः । नवेन्दोः वंशः नवेन्दुवंशः । नवेन्दुवंशे भवाः नवेन्दुवंश्याः । दिगादिभ्यो यत् (४.३.५४) इति यत् प्रत्ययः । नाम उदयमानचन्द्रवंशप्रसूतयः । नवेन्दुवंश्यानां प्रदीपः नवेन्दुवंश्यप्रदीपः । कृष्ण इत्यर्थः । उपमितः नवेन्दुवंश्यप्रदीपः येन (अभिमन्युना) सः उपमितनवेन्दुवंश्यप्रदीपः ।

अकोकत विद्याम् – विधिपूर्वकं गुरुमुखात् विद्यां जग्राह । कुक आदाने ९१ इत्यतो लङात्मनेपदम् ।

अरोठत – रुठ प्रतिघाते ३३६। प्रतिघातः पीडनम् । अपीडयदित्यर्थः ।

नित्यमच्योतत् स्वभक्तिसस्यम् – स्वस्मिन् विद्यमानभक्ताख्यसस्यं सदा आसिषेच । च्युतिर् आसेचने ४० । आसेचनम् – आर्द्रीकरणम् । ईषत्सेकः ।

अवायत् – शुष्कं चकार । ओवै शोषणे ९२१

समज्ञा – कीर्तिः । यशः कीर्तिः समज्ञा च इत्यमरः ।

व्याश्नुते – प्रसरति । वीत्युपसर्गात् अशू व्याप्तौ १७२७

महात्मनां कीर्तिरलं जीवत्येव भवेन्नहि । गुणबाहुल्यवन्नॄणां मरणेऽप्यापगायति ।। (मदीयः श्लोकः)

महात्मनां यशः तेषु जीवत्स्वेव प्रसरतीति न । किन्तु गुणस्य बाहुल्यं येषां नराणां वर्तते तेषां मरणे सत्यपि गङ्गावत् प्रसरति

विदुरनीतिः

।। श्रीः ।।

श्रीजयतीर्थगुरुभ्यो नमः

भारतं भारुचं भीरुभूरुहाघविघतकम् ।

भेदकं संशयस्यातिबोधकं नौमि सच्चिताम् ।।

विदितचरमेव समेषां यत् महत्वाद्भारवत्वाच्च महाभारतमुच्यते इति । महाभारतमितिहासः । वेदवेद्यप्रणीतमिदं पञ्चमवेदेन परिगण्यते । अदोऽष्टादशपर्वयुतम् । अष्टादशपर्वयुतोप्यष्टापद इव सुवर्णयुतो महतीं प्रतिष्ठामाटेकते । इतिहासेऽमुके बहवः प्रमुखाः भागाः भवन्ति । यथा- गीता विष्णोर्नामसहस्रं विरोटोद्योपर्वणी इत्यादयः । तेषु भागेषु विदुरनीतिरप्यन्यतमा । नयतेः क्तिनि परे निष्पन्नः नीतिशब्दः, मार्गदर्शनमित्यर्थः । विदेः कुरचि परे निष्पन्नः विदुरशब्दः, वेदनशीलः इत्यर्थः । विद्यारतेर्विदुरो नाम तस्य इति निर्णयोक्त्या तस्य विद्यारतेः विदुरस्य या नीतिः सैव विदुरनीतिः इत्याभण्यते । धृतराष्ट्रो धृतराष्ट्रः यदा सञ्जयं सम्प्रेष्यं सम्प्रेष्य पाण्डवान् प्रति, तस्यागमनोत्तरं पाण्डवेङ्गितमविजानमानः व्याकुलीभूतः निर्निद्रः विदुरं शरणं आपेदे । ततः स उपादिदेश विदुरः । सैव विदुरनीतिः । तत्रादौ पठ्यते । –

अभियुक्तं बलवता दुर्बलं हीनसाधनं ।

ह्रतस्वं कामिनं चोरमाविशन्ति प्रजागराः ।। महा,उद्योगपर्व,प्रजागरपर्व,15 ।।

ये ह्यभियुक्ताः प्रतिस्थिताः बलवद्भिः ये च दुर्बलाः साधनहीनाश्च तथा अपहृतश्रियः ये च कामुकाः चाराश्च तैः रात्रिर्निर्निद्रया ह्रियते । अदश्चाद्यं पद्यं विदुरनीतेः । अधुना विदुरो यमुपदिशति स ह्येतानि पद्योक्तविशेषणानि सर्वाण्यर्हति । यथा – धृतराष्ट्रः – बलवताभियुक्तः पाण्डवाभियुक्तः दुर्बलः पाण्डवसमानबलरहितः साधनहीनः हृतस्वः हृतमानः कामी दुर्योधनपरमविश्वासी चोरः परराज्यचोरः अतोऽधुना जागर्ति क्षपायाम् । अनेनैतद्विज्ञायते नैवं जनैः सम्भूयेत । बलवदभियुक्तो न स्यात् बलमोजो ज्ञानबलं च ज्ञानबलैः ज्ञानवृद्धैः येऽभियुक्ताः ते प्रजाग्रति । इत्थमियं नीतिः सर्वतोमुखतयाऽध्वदर्शिका भवति । अन्यदप्युदाहरणमभिलक्षयामहे ।

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।

पराक्रमाश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ।। महा,उद्योगपर्व,प्रजागरपर्व,106

श्लोकेऽस्मिन् पुरुषलक्षणं विशिनष्टि अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा मेधा कौल्यं साधुकुलोत्पन्नता दमः इन्द्रियनिग्रहः श्रुतं अधीतिः पराक्रमः धैर्यम् अबहुभाषिता स्वल्पभाषिता यथाशक्ति दानं शक्तिमनतिक्रम्य दानशीलता कृतज्ञता कृतार्थता एत अष्टौ पुरुषं द्योतयन्ति । एवमेषा नीतिः समेषामुपकर्त्री ।।

श्रीकृष्णार्पणमस्तु

टिप्पणी

भारुचम्– भाः ज्ञानं रोचयतीति दीपयति भारुक् अन्येभ्योपि दृश्यते इति क्विप्

भीरुभूरुहाघविघातकम्– भीरवः ये भूरुहाः जनाः (भुवि रोहन्ते रुह बीजजन्मनि प्रादुर्भावे च) तेषामघविघातकम् पापनाशकम्, भारतम्

सच्चिताम्– सती चिद्येषामिति सच्चितस्तेषाम् साधूनाम्

अदः– अदसः प्रथमा , इदं इत्यर्थः

अष्टापद इव सुवर्णयुतः– अष्टापदं सुवर्णम् । अष्चसु लोहेषु पदं प्रतिष्ठा इति अष्टापदम् तद्वत् सुवर्णयुतः सु शोभनवर्णैः पदैः युतम् भारतम्, सु शोभनवर्णेन (color) युतं सुवर्णम्

आटेकते– आङो टेकृ गतौ इत्यतो लट् आवहति इति भावः

अमुके – अस्मिन्

नीतिःस्त्रियां क्तिन् 3.3.94

विदुरःविदिभिदिच्छिदेः कुरच् 3.2.162

निर्णयोक्त्या– महाभारततात्पर्यनिर्णयोक्त्या

आभण्यतेभण शब्दे इत्यतो यकि निष्पन्नं रूपम्

धृतराष्ट्रः– धृतं राष्ट्रं देशः येनेति भावः । राष्ट्रं तु विषयः सोपि युक्तो ग्रामैः शताधितकैः इति मेदिनी

सम्प्रेष्यम्सम्पूर्वात् ईष उञ्छे इत्यतो ऋहलोर्ण्यत् 3.1.124 इति ण्यत् , दूतं इत्यर्थः ।

सम्प्रेष्यसम्पूर्वात् प्रेषृ गतौ इत्यतो, समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7.1.137 इति ल्यप्

इङ्गितम्-अभिप्रायः मनोभावः इगि गतौ इत्यतो नपुंसके भावे क्तः इति क्तः

जागर्तिजागृ निद्राक्षये इत्यतो लट्

नैवं जनैः सम्भूयेत – जनैः नैवं भवितव्यम् । सम्पूर्वात् भवतेर्यकि निष्पन्नं रूपम्

प्रजाग्रति – प्रपूर्वात् जागृ निद्राक्षये इत्यतो लड्बहुवचनम्

अध्वदर्शिका – मार्गदर्शिका

अभिलक्षयामहे– अभिपूर्वात् लक्ष दर्शनाङ्कयोः

बहुभाषिता – Chatterbox

संस्कृतसंस्कृतिप्रतिफलनम्

।। श्रीः ।।

।।श्रीजयतीर्थगुरुभ्यो नमः।।

निश्चप्रचं एव यत् भारते सुमधुरसरसभरितसर्वभाषोत्पादकगीर्वाणवाणी संस्कृतभाषा साम्प्रतं अपि अस्ति । अस्मिन् लोके विचक्षणैः मन्यते यत् संस्कृतभाषा प्रायः सर्वासां भाषाणां जनयित्री एव । सा भाषा देवभाषा विद्यते तदुक्तं “संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः” ग्रीक्,चैनीस्,लाटिन्,आङ्ग्ल इत्यादयः भाषाः संस्कृतादेव अभवन् । संस्कृतं सर्वदा नित्यं । अन्याः भाषाः अनित्याः इति अधिकृत्य उपनिषदि उक्तं वर्तते “वाचारम्भणं विकारो नामधेयम् मृत्तिकेत्येव सत्यम्” वेदव्यतिरिक्तं सर्वं नामधेयं केवलं वाचा आरभ्यते इति विकाररूपं । मृत्तिका इत्यादि संस्कृतनाम एव नित्यम् ।

भाषासु विलक्षणं ससंस्कृतम्

भाषासु विलक्षणं भासते संस्कृतं किमर्थं नाम – वयं एकशब्दोच्चारणानन्तरं तथैव स्पष्टतया दोषं विना लिखाम, यथा सर्पः इति उच्चारणं कुर्मश्चेते वयं सर्वे अपि सर्पः इति एव लिखामः परन्तु अन्यां भाषायां तथा न भवति यथा अङ्ग्ल भाषायां Snake इति उच्चारणं कुर्मश्चेत् लेखनसमये तत्र भेदः दरीदृश्यते केचन Snak इति लिखन्ति अन्यः Isnak इति लिखन्ति अत्रैव ज्ञायते अन्याः भाषाः अस्मिन् विषये स्थिरतां न प्राप्नुवन्ति । तथा एकैकशब्दस्य अन्यभाषासु तत्तवस्तुभ्यः अन्वर्थसंज्ञा न भवति यथा संस्कृते लेखनी इत्यत्र लिख अक्षरविन्यासे विन्यासे इत्यस्मात् धातोः लिख्यते अनेन इति लेखनी तथा लेखनी इति अन्वर्थसंज्ञा भवति परन्तु आङ्ग्लभाषायां pen  इत्यत्र अर्थज्ञानमेव न भवति ततः Pen इति अन्वर्थसंज्ञा न भवति इति स्पष्टमेव ज्ञायते ।

संस्कृतस्य बहुमुखत्वम्

संस्कृते गणितं,तन्त्रज्ञानं,गणकयन्त्रानुकूलविषयाः चित्रितानि सन्ति । अद्य नासा (NASA) सम्शोधनमकरोत्, संस्कृतपठनेन विज्ञानगणितयोः ज्ञानं अभिवर्धते । तथा संस्कृतपठनेन सम्भाषणेन च मेधाशक्तेः अभिवृद्धिः भवति इत्यपि साधितवन्तः । संस्कृतं भाषाचिकित्सायां सहायं करोति ।

एकः नासाविज्ञानी Forbes इति स्वसंशोधने इत्थं वदति – संस्कृतभाषाव्यवहारेण मनसः एकाग्रता बृंहति इति ।

सर् विलियम् जोन्स् इत्येकः विज्ञानी संस्कृतं,ग्रीक्,सेल्तिक्,लाटिन्,गातिक् तथा प्राचीनपर्शियन् इति षट्त्सु भाषासु सादृश्यं आविश्चकार, सः कल्कतानगरे स्वसंभाषणे “संस्कृतस्य रमणीयं शरीरं वर्तते, ग्रीक् भाषापेक्षया निपुणतरं वर्तते च लाटिन् अपेक्षया  स्थिरता वर्तते”  इति अवदत् । आङ्ग्लभाषा संस्कृतादेव उत्पन्ना इति सः अवदत् यथा (Mother) मदर् इति मातृशब्दात् उत्पन्नम्  । (Brother) इति भ्रातृशब्दात् आगतम् इति एवं निश्चयेन सः अप्रकटयत् ।

विल्लियम् मारिस् एकः बहुभाषी प्रमाणपुरस्सरतया – देवः इति अयं शब्दः संस्कृतात् अन्यभाषायां कथं विकारं आप इति इत्थं वदति , देव इति लाटिन् भाषायां देय्यूस्(Deus) ,ग्रीक् भाषायां तेय्यूस्(Theous) , लितानियं भाषायां देवास्(Dewas) ,ऐरिश् भाषायां दिया(Dia), प्राचीनपर्शियन् भाषायां दैव्स्(Diews) इत्यपरिवर्तत इत्येवं प्रकारेण संस्कृतस्य महिमानं प्रकाशयति तथा संस्कृत गौ इति शब्दः जर्मन् भाषायं गौः इत्यस्थ मृदुव्यञ्जनः गकारः खु इति विकारं प्राप्य (Kuh) इति रूपं भवति (गौ=kuh=cow)। पुरातत्वशास्त्रप्रमाणेन देवनागरीलिपी इन्डस् सरस्वती सभ्यदे १९०० क्रिस्तशताब्दे आसीत् । अस्माकं यथा देवाः सन्ति इन्द्रः (thunderbolt) सरस्वती (Knowledge)तथा एव ग्रीक् भाषायं Zeus इति सः इन्द्रवदेव इति कथयन्ति तथा Athena सा सरस्वतीवदेव इति अनुकुर्वन्ति । परन्तु तेषां प्रत्येकता न विद्यते ।

सर्वशास्त्रेपकारकं संस्कृतम्

सर्वशास्त्रोपकारकं संस्कृतं इति विदितमेव अस्ति । गुरुत्वाकर्षणशक्तिः इति विषये ऋग्वेदे दशममण्डले इत्थं वर्तते – सवितायन्त्रैः पृथिवीमरंणातस्कम्भेन सविता द्यां अदृम्हत इति वेदे स्पष्टमेव दृश्यते एवं प्रकारेण सौष्ठवेन ज्ञायते संस्कृते विज्ञानं अस्ति इति यथा संन्ध्यावंदने आचमनं किमर्थं कुर्मः इति चेत् अस्माकं देहे एलक्ट्रोलिसिस् सम्यक् भवति तथा करन्यासे अङ्गुलीनां घर्षणेन सर्वे प्रतिशेधशक्तयः देहात्बहिः निस्सरति इति अमेरिकायां शोधितवन्तः।।

संस्कृते गणितशास्त्रम्

पाश्चात्यगणितज्ञाः एव शून्यं आविश्कृतवन्तः इति पण्डितैः मन्यते परंतु ततः प्राक् एव 200BC शताब्दे – गायत्रे षड्सङ्खामधर्मे अपनीते द्वयङ्के
अवशिष्टस्त्रयस्तेषु
रूपपमनीय द्वयङ्कार्धः शून्यं स्थाप्यं ।। इति

तदनन्तरमेव पाश्चात्यविद्वद्भिः आविष्कृतमिति अनेन प्रमाणेन स्फष्टमेव ज्ञायते तथा अत्र
संस्कृतच्छन्दसि गणितं व्यक्तमस्ति । गणितशास्त्रे pi इत्यस्य मूल्यं पाश्चात्यगणितज्ञाः इत्थं
वदन्ति – 3.1415… इति वदन्ति परन्तु अस्माकं भारतीयगणितज्ञेन आर्यभटेन उल्लिखितं
वर्तते –चतुरधिकं शतमष्टगुणं द्वाषष्ठिसेथा सहस्राणाम्।
अयुतद्वयं विष्कंभस्य आसन्नो वृत्तपरिणाहः।।

अत्र इत्थं वदन्ति- 62832/20000= 3.1416 इति।। अत्र आर्यभटाय संस्कृतज्ञान विना pi
तस्य मूल्यं गणयितुं न शक्तोसीत्।।

संस्कृतस्य पूर्णता

संस्कृतं सर्वदृष्टिकोणेन पूर्णं अस्तीति अस्माभिः विज्ञायते एव। शशिना सह याति कौमुदि इति रीत्या एव भाषाः सह व्याकरणं याति। प्रत्येकभाषाभ्यः व्याकरणं वर्तते एव, परन्तु संस्कृतव्याकरणं विलक्षणं भासते तत्रापि पाणिनीयव्याकरणं सूर्य इव प्रकाशते। ब्लूम्फील्ड् (Bloomfield) इति एकः विदेशीयः स्वशोधने – पाणिनीयव्याकरणम् एकः महान्मनुष्यचातुर्याणां स्मारकः तस्मिन् अशेषविषयाः अन्तर्गताः अद्यापि काः भाषाः अपि एतादृश निपुणतया न उपक्लृप्ताः इति वदति। अनेन संस्पाकृतव्याकरणनेन अन्यासां भाषाणां व्याकरणानि अपि वयं रचयितुं पारयामः इति इदं संस्कृतव्याकरणस्य वैशिष्ट्यम् । संस्कृतव्याकरणं अद्यतन सङ्गणकविधिविभाषायै अत्यन्तं उपयुक्तं विद्यते।।
उपसंहारःआभिः रीतिभिः संस्कृतसंस्कृतेः सर्वत्र प्रतिफलनं अस्त्येव इति सुष्ठु विज्ञायते। अस्माकं विचाराधाराधुरीणाः सन्तोषितसरस्वत्यः महापुरुषाः भारते संस्कृतस्य कीर्तिध्वजं उत्तोलितवन्तः इति मन्यामहे। अतो नास्त्यत्र संशयलेशोपि संस्कृतं सर्वभाषायाः जननीति विषये।।

।।श्रीकृष्णार्पणमस्तु।।

टिप्पणी

भाषाचिकित्सायाम् – Speech Therapy.

नासाविज्ञानि – NASA Scientist.

सर् विल्लियम् जोन्स् – Sir William Jones.

संस्कृतं,ग्रीक्,सेल्तिक्,लाटिन्,गातिक् तथा प्राचीनपर्शियन् – Sanskrit, Greek, Selthic, Latin,Gothic and Old Persian.

विल्लियं मारिस्– William Morris.

पुरातत्वशास्त्रप्रमाणेन – Archaeological Evidences

इन्डस् सरस्वती सभ्यदे – Indus- Saraswati Valley Civilization

गुरुत्वाकर्षणशक्तिः Gravitational Force

एलक्ट्रोलिसिस् Electrolysis

प्रतिशेधशक्तयः Negative Energy

पाणिनीयव्याकरणम् एकः महान्मनुष्यचातुर्याणां स्मारकः तस्मिन् अशेषविषयाः अन्तर्गताः अद्यापि काः भाषाः अपि एतादृश निपुणतया न उपक्लृप्ताः – Paninian Grammar is one of the greatest monuments of human intelligence. Every minute detail is explained, no other language till now is described so perfectly.

सङ्गणकविधिविभाषायै– Computer Programming Languages

उत्तोलितवन्तः– Hoisted

।।श्रीकृष्णार्पणमस्तु।।

सकलसार्धशतकोटिभारतीयहृदयामोदी श्रीनरेन्द्रमोदी

श्रीगुरुभ्यो नमः। श्रीलक्ष्मीनारायणाय नमः । श्रीजयतीर्थगुरुभ्यो नमः । श्रीयदुपत्याचार्यगुरुभ्यो नमः ।

राराज्यते मे स्वान्ते सकलाधुनिकधरणीपतिसमभिपूजितशासनः भारतजननीगिरिकन्दरप्रसूतिः, मोदी सज्जनानाम्, अमोदी इतरेषां, माधवाशीर्वादपुष्टाङ्गः, सद्भिः कृतसङ्गः, आश्रितमुरारिशङ्करादिसुमनःपदः गाङ्गतरङ्ग इव देदीप्यमानः भगीरथ इव गीर्वाणतरङ्गिणीपथप्रवृत्तः भारतप्रियप्रधानसचिवो नरेन्द्रमोदी नाम । यद्यपि बहुवक्तव्यं तथापि यथामति श्रीनरेन्द्रमोदिनः उद्गमः,व्यक्तित्वं,तत्कृतभारतयोगदानं,वैशिष्ट्यं,नवभारतशिल्पित्वम् इति बिन्दुपञ्चकमाश्रित्य प्रस्तौमि

  • उद्गमः

सोऽयं बडनगरे हीराबेहेन्-दामोरददासदम्पत्योः लब्धजनिः गुजरातधेनुपयसां रसज्ञः बाल्य एव शालाप्रवृत्तः विरामे स्वतातस्य चायविक्रायकापणे परिवेशकवृत्तौ प्रवृत्तः समजनि । किशोरभावं परित्यजन् राष्ट्रीयस्वयंसेवकसङ्घे (आर्.एस्.एस्) प्रातरुत्थापन-चायदान-प्रातराशपरिवेशनकर्म सबहुमति प्रसन्नः सन् व्यधात् । ततः राष्ट्रीयस्वयंसेवकसङ्घ एव सम्मार्जनकर्म आकारि । ततश्च गेहं पर्यत्यजत् । हैमवते गिरौ साधुभिः सह नीतकालः भगवद्भक्त्यङ्कुरं साधुसहवासमेदुरेणावर्धयत्। पश्चात् अलङ्कृतगुजरातमुख्यमन्त्रिपदः अचिरात् भारतप्रधानमन्त्रित्वमापत् ।।

  • व्यक्तित्वम्

साधुस्वभावोऽसौ भारतजनन्याः तनयः अनारतं देशोन्नत्यै यतमानः बालेषु हार्दभाववान् सर्वान् भगिनीभ्रातॄन् मन्यमानः आरब्धान्तगामी आफलोदयकर्मा प्रजानां रक्षणाद्भरणात् पितृवद्विराजमानः नायकगुणानामाकारः भारतीयान्तरिक्षसंशोधनसंस्थायाः (इसरो) विज्ञानिनः चन्द्रयानवैफल्यानन्तरं प्रोत्साहवचनैः पितृवत् उत्सुकान् कुर्वन्, स्ववेतनमपि गङ्गाशुद्ध्यर्थ सम्पूर्णघट इव हूयमानः दीप्यते ।।

  • योगदानम्

भारतीवाचः नरेन्द्रमोदिनः भारतस्य कृते योगदानानि – १.मेक् इन् इण्डिया अभियानम् २.स्वच्छभारताभियानम् ३.अक्रमवित्तरोधः ४.द्विवारं चिकित्सकाघातः येन सप्ततिवर्षेष्वकृतं कर्म वर्षद्वये चकार ५.जी.एस्.टी ६.आयुष्मान् भारत् इत्यभियानम् येन दशलक्षाधिकाणां रोगिणामुपकृतिः समजनि ७.अच्छे दिन् अभियानम् ८.सप्तत्यधिकत्रिशततमानुच्छेदस्य निर्मूलनम् ९.पञ्चत्रिंशत्तमानुच्छेदस्य निर्मूलनम् १०.इस्रोसहायः इत्यादियोगदानैः मोदी विशिष्यते ।।

  • वैशिष्ट्यम्

श्रीमोदिनः असाधारणभाषणकला प्रजाः मुग्धाः विधत्ते । अभिवृद्ध्यादिविषयेषु सौष्ठवेन सप्रभावं भाषते । तत्प्रवचनम् प्रत्यग्रमपि जनसामान्यान् प्रभावयति । देशस्य इतरेषां नायकानां लिखितपाठकशैलीं नानुसरति मोदिवर्यः। तस्य वैशिष्ट्यं हि स्ववाक्शैल्या किम्प्रकारकानपि जनान् संस्पृशति । प्रधानमन्त्रिणः अपरं च वैशिष्ट्यं विश्वस्तरीयनेतॄणां वर्चः इव वर्चः भजति श्रीमोदी । व्यक्तित्वं तस्य प्रबलम् ।

किञ्च देशस्य प्रजाः एतावत्पर्यन्तं प्रजाभ्यः अगोचरानेव प्रधानमन्त्रिणः अद्राक्षुः । परमयं मध्येप्रजमेव सदा बम्भ्रमीति । स्वातन्त्रदिवसस्य ध्वजोत्तोलनभाषणेषु अन्ये प्रधानमन्त्रिणः रक्षाकवचस्य पृष्ठभागे भाषन्ते । किन्त्वयं महात्मा मोदी स्वप्राणानप्यविगणय्य रक्षाकवचं अलक्षयन् विहरति । स्वसुरक्षावलयमपि अतिक्रम्य शालासु सार्वजनिकप्रदर्शनालयेषु आबालवृद्धान् प्रहर्षयन् तुष्यति इत्यहो षट्पञ्चाषत्प्राङ्गुलहृदयवैशाल्यम् ।

  • नवभारतशिल्पी

एवमुक्तेन वर्णनेन विशदीभवत्येतत् असौ महात्मा मोदिवर्यः नूतनभारतामरावत्याः त्वष्टा इव अग्रे राममन्दिरनिर्माण,वेदवेदाङ्गशास्त्राध्ययनविघ्नध्वंसनादिकर्माणि कुर्वन् यशस्वी प्रप्रथमः प्रधानमन्त्री इत्यादिकीर्तिं लभमानः भारतरत्नादिपुरस्कारान् स्वीकरोतीति । सोऽयं देवकृतरतिः विधिवत् परिपालयन् हर्षप्रकर्षं दत्तात् इत्याशासे । विरमामि च विस्तरात् ।

।।श्रीकृष्णार्पणमस्तु।।