।। श्रीः ।।
।।श्रीजयतीर्थगुरुभ्यो नमः।।
निश्चप्रचं एव यत् भारते सुमधुरसरसभरितसर्वभाषोत्पादकगीर्वाणवाणी संस्कृतभाषा साम्प्रतं अपि अस्ति । अस्मिन् लोके विचक्षणैः मन्यते यत् संस्कृतभाषा प्रायः सर्वासां भाषाणां जनयित्री एव । सा भाषा देवभाषा विद्यते तदुक्तं “संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः” ग्रीक्,चैनीस्,लाटिन्,आङ्ग्ल इत्यादयः भाषाः संस्कृतादेव अभवन् । संस्कृतं सर्वदा नित्यं । अन्याः भाषाः अनित्याः इति अधिकृत्य उपनिषदि उक्तं वर्तते “वाचारम्भणं विकारो नामधेयम् मृत्तिकेत्येव सत्यम्” वेदव्यतिरिक्तं सर्वं नामधेयं केवलं वाचा आरभ्यते इति विकाररूपं । मृत्तिका इत्यादि संस्कृतनाम एव नित्यम् ।
भाषासु विलक्षणं ससंस्कृतम्
भाषासु विलक्षणं भासते संस्कृतं किमर्थं नाम – वयं एकशब्दोच्चारणानन्तरं तथैव स्पष्टतया दोषं विना लिखाम, यथा सर्पः इति उच्चारणं कुर्मश्चेते वयं सर्वे अपि सर्पः इति एव लिखामः परन्तु अन्यां भाषायां तथा न भवति यथा अङ्ग्ल भाषायां Snake इति उच्चारणं कुर्मश्चेत् लेखनसमये तत्र भेदः दरीदृश्यते केचन Snak इति लिखन्ति अन्यः Isnak इति लिखन्ति अत्रैव ज्ञायते अन्याः भाषाः अस्मिन् विषये स्थिरतां न प्राप्नुवन्ति । तथा एकैकशब्दस्य अन्यभाषासु तत्तवस्तुभ्यः अन्वर्थसंज्ञा न भवति यथा संस्कृते लेखनी इत्यत्र लिख अक्षरविन्यासे विन्यासे इत्यस्मात् धातोः लिख्यते अनेन इति लेखनी तथा लेखनी इति अन्वर्थसंज्ञा भवति परन्तु आङ्ग्लभाषायां pen इत्यत्र अर्थज्ञानमेव न भवति ततः Pen इति अन्वर्थसंज्ञा न भवति इति स्पष्टमेव ज्ञायते ।
संस्कृतस्य बहुमुखत्वम्
संस्कृते गणितं,तन्त्रज्ञानं,गणकयन्त्रानुकूलविषयाः चित्रितानि सन्ति । अद्य नासा (NASA) सम्शोधनमकरोत्, संस्कृतपठनेन विज्ञानगणितयोः ज्ञानं अभिवर्धते । तथा संस्कृतपठनेन सम्भाषणेन च मेधाशक्तेः अभिवृद्धिः भवति इत्यपि साधितवन्तः । संस्कृतं भाषाचिकित्सायां सहायं करोति ।
एकः नासाविज्ञानी Forbes इति स्वसंशोधने इत्थं वदति – संस्कृतभाषाव्यवहारेण मनसः एकाग्रता बृंहति इति ।
सर् विलियम् जोन्स् इत्येकः विज्ञानी संस्कृतं,ग्रीक्,सेल्तिक्,लाटिन्,गातिक् तथा प्राचीनपर्शियन् इति षट्त्सु भाषासु सादृश्यं आविश्चकार, सः कल्कतानगरे स्वसंभाषणे “संस्कृतस्य रमणीयं शरीरं वर्तते, ग्रीक् भाषापेक्षया निपुणतरं वर्तते च लाटिन् अपेक्षया स्थिरता वर्तते” इति अवदत् । आङ्ग्लभाषा संस्कृतादेव उत्पन्ना इति सः अवदत् यथा (Mother) मदर् इति मातृशब्दात् उत्पन्नम् । (Brother) इति भ्रातृशब्दात् आगतम् इति एवं निश्चयेन सः अप्रकटयत् ।
विल्लियम् मारिस् एकः बहुभाषी प्रमाणपुरस्सरतया – देवः इति अयं शब्दः संस्कृतात् अन्यभाषायां कथं विकारं आप इति इत्थं वदति , देव इति लाटिन् भाषायां देय्यूस्(Deus) ,ग्रीक् भाषायां तेय्यूस्(Theous) , लितानियं भाषायां देवास्(Dewas) ,ऐरिश् भाषायां दिया(Dia), प्राचीनपर्शियन् भाषायां दैव्स्(Diews) इत्यपरिवर्तत इत्येवं प्रकारेण संस्कृतस्य महिमानं प्रकाशयति तथा संस्कृत गौ इति शब्दः जर्मन् भाषायं गौः इत्यस्थ मृदुव्यञ्जनः गकारः खु इति विकारं प्राप्य (Kuh) इति रूपं भवति (गौ=kuh=cow)। पुरातत्वशास्त्रप्रमाणेन देवनागरीलिपी इन्डस् सरस्वती सभ्यदे १९०० क्रिस्तशताब्दे आसीत् । अस्माकं यथा देवाः सन्ति इन्द्रः (thunderbolt) सरस्वती (Knowledge)तथा एव ग्रीक् भाषायं Zeus इति सः इन्द्रवदेव इति कथयन्ति तथा Athena सा सरस्वतीवदेव इति अनुकुर्वन्ति । परन्तु तेषां प्रत्येकता न विद्यते ।
सर्वशास्त्रेपकारकं संस्कृतम्
सर्वशास्त्रोपकारकं संस्कृतं इति विदितमेव अस्ति । गुरुत्वाकर्षणशक्तिः इति विषये ऋग्वेदे दशममण्डले इत्थं वर्तते – सवितायन्त्रैः पृथिवीमरंणातस्कम्भेन सविता द्यां अदृम्हत इति वेदे स्पष्टमेव दृश्यते एवं प्रकारेण सौष्ठवेन ज्ञायते संस्कृते विज्ञानं अस्ति इति यथा संन्ध्यावंदने आचमनं किमर्थं कुर्मः इति चेत् अस्माकं देहे एलक्ट्रोलिसिस् सम्यक् भवति तथा करन्यासे अङ्गुलीनां घर्षणेन सर्वे प्रतिशेधशक्तयः देहात्बहिः निस्सरति इति अमेरिकायां शोधितवन्तः।।
संस्कृते गणितशास्त्रम्
पाश्चात्यगणितज्ञाः एव शून्यं आविश्कृतवन्तः इति पण्डितैः मन्यते परंतु ततः प्राक् एव 200BC शताब्दे – गायत्रे षड्सङ्खामधर्मे अपनीते द्वयङ्के अवशिष्टस्त्रयस्तेषु रूपपमनीय द्वयङ्कार्धः शून्यं स्थाप्यं ।। इति
तदनन्तरमेव पाश्चात्यविद्वद्भिः आविष्कृतमिति अनेन प्रमाणेन स्फष्टमेव ज्ञायते तथा अत्र संस्कृतच्छन्दसि गणितं व्यक्तमस्ति । गणितशास्त्रे pi इत्यस्य मूल्यं पाश्चात्यगणितज्ञाः इत्थं वदन्ति – 3.1415… इति वदन्ति परन्तु अस्माकं भारतीयगणितज्ञेन आर्यभटेन उल्लिखितं वर्तते –चतुरधिकं शतमष्टगुणं द्वाषष्ठिसेथा सहस्राणाम्। अयुतद्वयं विष्कंभस्य आसन्नो वृत्तपरिणाहः।।
अत्र इत्थं वदन्ति- 62832/20000= 3.1416 इति।। अत्र आर्यभटाय संस्कृतज्ञान विना pi तस्य मूल्यं गणयितुं न शक्तोसीत्।।
संस्कृतस्य पूर्णता
संस्कृतं सर्वदृष्टिकोणेन पूर्णं अस्तीति अस्माभिः विज्ञायते एव। शशिना सह याति कौमुदि इति रीत्या एव भाषाः सह व्याकरणं याति। प्रत्येकभाषाभ्यः व्याकरणं वर्तते एव, परन्तु संस्कृतव्याकरणं विलक्षणं भासते तत्रापि पाणिनीयव्याकरणं सूर्य इव प्रकाशते। ब्लूम्फील्ड् (Bloomfield) इति एकः विदेशीयः स्वशोधने – पाणिनीयव्याकरणम् एकः महान्मनुष्यचातुर्याणां स्मारकः तस्मिन् अशेषविषयाः अन्तर्गताः अद्यापि काः भाषाः अपि एतादृश निपुणतया न उपक्लृप्ताः इति वदति। अनेन संस्पाकृतव्याकरणनेन अन्यासां भाषाणां व्याकरणानि अपि वयं रचयितुं पारयामः इति इदं संस्कृतव्याकरणस्य वैशिष्ट्यम् । संस्कृतव्याकरणं अद्यतन सङ्गणकविधिविभाषायै अत्यन्तं उपयुक्तं विद्यते।। उपसंहारः – आभिः रीतिभिः संस्कृतसंस्कृतेः सर्वत्र प्रतिफलनं अस्त्येव इति सुष्ठु विज्ञायते। अस्माकं विचाराधाराधुरीणाः सन्तोषितसरस्वत्यः महापुरुषाः भारते संस्कृतस्य कीर्तिध्वजं उत्तोलितवन्तः इति मन्यामहे। अतो नास्त्यत्र संशयलेशोपि संस्कृतं सर्वभाषायाः जननीति विषये।।
।।श्रीकृष्णार्पणमस्तु।।
टिप्पणी
भाषाचिकित्सायाम् – Speech Therapy.
नासाविज्ञानि – NASA Scientist.
सर् विल्लियम् जोन्स् – Sir William Jones.
संस्कृतं,ग्रीक्,सेल्तिक्,लाटिन्,गातिक् तथा प्राचीनपर्शियन् – Sanskrit, Greek, Selthic, Latin,Gothic and Old Persian.
विल्लियं मारिस् – William Morris.
पुरातत्वशास्त्रप्रमाणेन – Archaeological Evidences
इन्डस् सरस्वती सभ्यदे – Indus- Saraswati Valley Civilization
गुरुत्वाकर्षणशक्तिः Gravitational Force
एलक्ट्रोलिसिस् Electrolysis
प्रतिशेधशक्तयः Negative Energy
पाणिनीयव्याकरणम् एकः महान्मनुष्यचातुर्याणां स्मारकः तस्मिन् अशेषविषयाः अन्तर्गताः अद्यापि काः भाषाः अपि एतादृश निपुणतया न उपक्लृप्ताः – Paninian Grammar is one of the greatest monuments of human intelligence. Every minute detail is explained, no other language till now is described so perfectly.
सङ्गणकविधिविभाषायै – Computer Programming Languages
उत्तोलितवन्तः – Hoisted
।।श्रीकृष्णार्पणमस्तु।।