श्रीजयतीर्थगुरुभ्यो नमः
माध्वग्रन्थान् स्वबन्धूनिव सरसहृदाऽऽलिङ्ग्य विज्ञातभावः
संयोज्यालङ्कृताभिः स्वसहजमतिसम्भूतवाग्भिर्वधूभिः ।
कृत्वान्योक्तीश्च दासीर्बुधहृदयगृहं प्रौढवृत्तीश्च वृत्ती-
र्दत्वाऽन्योन्याभियोगं जयमुनिरसकृद्वीक्ष्य रेमे कृतार्थः ।।
तीर्थप्रबन्धः,पूर्वप्रबन्धः,१८ तमः श्लोकः

अभ्लाशिष्ट प्राक् अरुण इव प्रखरप्रभः, गुरुसूर्यविकसितपद्मः आचरितसकलगुरुवाक् लेखीकृतसकलप्रमेयः जयदाता स्वजयभक्तानां , विरक्त ऐश्वर्येऽपि जयकरतीर्थप्रणेता अनुव्याख्याननलिनभृङ्गायमानः भानुकोटितेजाः सरस्वतीकृपासाकारमूर्तिः मध्वमानसह्रदहंसः छत्रीकृताशीविषराट् प्रमेयकुलिषप्रमोडितकुमतिनमुचिः गुर्वपाङ्गनीराजिताङ्गः कामाक्षीमानसोल्लासः व्याख्यातदशप्रकरणसूत्रभाष्यानुव्याख्यानः पत्नीकृतप्रमाणपद्धतिः कागिणीवातस्पृष्टाङ्गः यतिकुलमुक्तावलिः मङ्गलवेडाभिजनः श्रीजयार्यो नाम । सोऽयं विठ्ठलकृपामूर्तिः नायकरघुनाथगेहोद्भव अद्योतत कुलाकाशे । अध्यैष्ट शस्त्रास्त्राणि । कदाचिदौखत् सैन्धवमारुह्य । भ्रमता राज्ञा काले पिपासाच्यावितोत्साहः पपौ स सलिलमनाकुलमनवतरन् ह्रदे । वृत्तान्तमनुपश्यन् जयतीर्थदिग्दर्शनाचार्य अक्षोभ्यतीर्थनामा वादिहिंस्रः किं पशुः पूर्वदेहे ? इति वाचोभङ्ग्या अस्मारयत् पूर्वजन्मचरितम् । उपदेशवागग्निना पवित्रीकृत इव विहायाज्ञानशामिकां , निर्मोक इव परित्यक्तगृस्थाश्रमः परमहंसलक्षणं वपुः अवेष्टत । अचिरादेव करतलामलकीकृतनिगमागमः व्याचख्यौ अष्टादश माध्वग्रन्थान् । पलाययामासान्यवादिनः । आर्जयत् सर्वज्ञकल्पत्वनाम । प्रविवेश वृन्दारण्यम् अनुध्यायन् राघवम् ।
सस्सिद्धान्तपतङ्गमार्यरचितं दुर्वादवृक्षैर्गुरुर्
गूढं सन्नयनेभ्य ईक्षितुमलं नो शक्तमित्येव वै ।
चिच्छेदाशु कुवादिदुष्टविपिनं सन्दर्शयामास नः
श्रीमन्न्यायसुधायुधेन जयराट् दद्यात् सुविद्यां सदा ।।
(मदीयः श्लोकः)
मलखेटपुरे स विवेश रमारमपादयुगं शितधीर्जयराट् । कमलारमणं वरमध्वनुतं मनसा स्मृतवान् मदनेषुजयी ।। (मदीयश्लोकः)
टिप्पणी
स्वजयभक्तानाम् – सु-शोभनः यः अजयः-श्रीहरिः तस्य भक्तानाम् ।
जयकरतीर्थप्रणेता – जयदानशीलशास्त्रविरचयिता । निपानागमयोस्तीर्थम् इति कोशः ।
छत्रीकृताशीविषराट् – छत्रवत् कृतः आशीविषानां – सर्पाणां राट् – राजा येन सः । आशीविषो विषधरश्चक्री इत्यमरः ।
अवेष्टत – वेष्ट वेष्टने इत्यतो लङ् आत्मनेपदम् ।
सैन्धवः – अश्वः । हयसैन्धवसप्तयः इत्यमरः ।
सर्वज्ञकल्पाः – ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति कल्पप् प्रत्ययः ।
कुलिशंम् – वज्रम् । कुलिशं बिदुरं पविः ।
मोडितम् – मुडँ मर्दने इत्यतः क्त ।
शामिका – लोहान्तरसंसर्गात्मको दोषः ।
औखत् – जगाम । उखँ गतौ इत्यतो लङ् ।