अम्बरीषः

अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ।।

मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसम्मतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ।।

वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ।।

स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने ।

करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ।।

श्रीमद्भागवतम्,नवमस्कन्धः,षष्ठोऽध्यायः ३,४,५ श्लोकाः
आदिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं कृद्धाहिमिव पावकः ।।

टेकते मे स्वान्तपथे नाभागतनूजः विष्णुपाणिनुन्नसुदर्शनरक्षितः तपोगभस्तिसूर्यः आनन्दितानन्दः चन्दनाङ्गदः अम्बरेश इव भ्राशमाणः शम्बरारिपत्तनगतरथः सम्भप्रादुर्भूतनरहरिपदासक्तः ऐक्ष्वाकुरम्बरीषाह्वयः । सोऽयम् अध्यैष्ट श्रुतिस्मृतिनेत्रान् शास्त्रग्रन्थान् । इयाज देवद्रविणानि । अपारीत् पितॄन् । प्रावृषेण्याभ्रसमवाग्झरीः जनपापपयस्पाशाग्राही अंशुमालीव विभ्राजमाणः छान्दसोऽयं बाहुजः कदाचित् कृतैकादशीव्रतः पारणाय दुर्वाससमतिथिं मेने । तपश्चणः कणकणेषु दृष्टदेवरूपः द्वादशीप्रत्यूषे स्नातुमभ्यटेकत । चिरादनागते सति तपस्विपुङ्गवे व्रतभङ्गसाध्वसात् स्वीचकार दैत्यारिपादकीलम् । ज्ञातवृत्तान्तः ऋषिः अवकृन्तयतित्वा सटां विससर्ज रक्षः । सैकक्षणे पाटलकोमलवनमालिकरप्रयुक्तः अमिताहस्करप्रतिमतीक्ष्णारहस्रवान् दुष्टेरदृष्टः सुदर्शनः अमोडत् राजघ्नम् । ततः दुर्वाससं हिंसितुं परिवर्तितमार्गः तमधावयत् । भीत इव भगवत्पादरजोभिषिक्तो व्रती ब्रह्माणमुपाटिटेक । पदं मदीयं सह क्रीडावसाने विनाशमुखं याति येन तन्नुन्नं कोऽपि न रुणद्धि ऋते आदिदेवमिति धात्रा श्रुतवाक्यः प्रपेदे लोकशङ्करं त्रिशूलकरम् ।

वयं न तात प्रभवाम भूम्नो

भवन्ति काले न भवन्ति हीदृशाः ।

यस्मिन् परेऽन्येऽप्यजजीवकोशाः

सहस्रषो यत्र वयं भ्रमामः ।। (श्रीमद्भागवतम्,नवमस्कन्धः,षष्ठोऽध्यायः)

इत्युक्तः साक्षात्किरीटिनं भक्तकुन्दविकासचन्द्र इव भ्लाशमाणं तत्पादमूले पतितः सुदर्शनापचितिं ययाचे । अहं भक्तपराधीनः अतः विराजं पद्यतामित्यूचे । पश्चादम्बरीषपादमापन्नः तेन निवारितसुदर्शनतापः भूपकीर्त्यै तं तुष्टाव । एवमनुध्यायन् विष्णुं कालान्तरे वैकुण्ठद्वास्थानुमतः सन् अद्यापि रमते विष्णुपदे ।।

टेकते – टिकृ गतौ

वीराभिमन्युः

देदीप्यते मे चित्तरङ्गे भारद्वाजद्रौणिदौर्योधनिधार्तराष्ट्रैकहिंस्रः अर्जुनसुभद्रामन्दानन्दः अभ्यस्तविद्यास्त्रः कृष्णात् कार्ष्णिः प्रतिदिवसोपजायमानोदयः पाण्डवलक्षणोपबृंहितः पुत्रीभूतपरीक्षित् कौरवपर्वतद्युमणिः भेरीव सकलज्ञातस्वनः कुमारः सौभद्रो नाम । उपमितनवेन्दुवंश्यप्रदीपः दारकृतोत्तरः पद्मव्यूहस्फोटकः सदसत्प्रीत्यप्रीतिकरणेन उपमितेन्दुद्युमणिः सः श्रुतपद्मव्यूहोत्क्रमणः अर्जुनेन अवायत् भियम् । अकोकत विद्याम् । नित्यमच्योतत् स्वभक्तिसस्यम् । अरोठदरिचक्रम् ।

आजिदिग्गजानामपि भीकरे समरे एकः प्रविष्टो ह्यष्टादशहायनः सिंहशावक इव बलिष्ठसंहननः लक्ष्मणमलक्षमं विदधौ । बाणैः प्रस्वेदितकुरुभारद्वाजाङ्गप्रवीरः तैः कपटेन पटुतरं छेदितगात्रोऽपि पटुतया तान् न्यरुणत् । विधिभ्रूविभ्रमेन तैः पापैः वञ्चतः धरामश्लिक्षत् । हीनप्राणस्यापि समज्ञा व्याश्नुते अधुनापि ! अतः

महात्मनां कीर्तिरलं जीवत्येव भवेन्नहि ।

गुणबाहुल्यवन्नॄणां मरणेऽप्यापगायति ।। (मदीयः श्लोकः)

टिप्पणी

कार्ष्णिः – अर्जुनः । तदुक्तम् –

व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामिस्रयक्षकलिनीलगुणेषु कृष्णः इति भास्करः

द्युमणिः – द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विभावसुः इत्यमरः

उपमितनवेन्दुवंश्यप्रदीपः – नवश्चासाविन्दुश्च नवेन्दुः । नवेन्दोः वंशः नवेन्दुवंशः । नवेन्दुवंशे भवाः नवेन्दुवंश्याः । दिगादिभ्यो यत् (४.३.५४) इति यत् प्रत्ययः । नाम उदयमानचन्द्रवंशप्रसूतयः । नवेन्दुवंश्यानां प्रदीपः नवेन्दुवंश्यप्रदीपः । कृष्ण इत्यर्थः । उपमितः नवेन्दुवंश्यप्रदीपः येन (अभिमन्युना) सः उपमितनवेन्दुवंश्यप्रदीपः ।

अकोकत विद्याम् – विधिपूर्वकं गुरुमुखात् विद्यां जग्राह । कुक आदाने ९१ इत्यतो लङात्मनेपदम् ।

अरोठत – रुठ प्रतिघाते ३३६। प्रतिघातः पीडनम् । अपीडयदित्यर्थः ।

नित्यमच्योतत् स्वभक्तिसस्यम् – स्वस्मिन् विद्यमानभक्ताख्यसस्यं सदा आसिषेच । च्युतिर् आसेचने ४० । आसेचनम् – आर्द्रीकरणम् । ईषत्सेकः ।

अवायत् – शुष्कं चकार । ओवै शोषणे ९२१

समज्ञा – कीर्तिः । यशः कीर्तिः समज्ञा च इत्यमरः ।

व्याश्नुते – प्रसरति । वीत्युपसर्गात् अशू व्याप्तौ १७२७

महात्मनां कीर्तिरलं जीवत्येव भवेन्नहि । गुणबाहुल्यवन्नॄणां मरणेऽप्यापगायति ।। (मदीयः श्लोकः)

महात्मनां यशः तेषु जीवत्स्वेव प्रसरतीति न । किन्तु गुणस्य बाहुल्यं येषां नराणां वर्तते तेषां मरणे सत्यपि गङ्गावत् प्रसरति

सकलसार्धशतकोटिभारतीयहृदयामोदी श्रीनरेन्द्रमोदी

श्रीगुरुभ्यो नमः। श्रीलक्ष्मीनारायणाय नमः । श्रीजयतीर्थगुरुभ्यो नमः । श्रीयदुपत्याचार्यगुरुभ्यो नमः ।

राराज्यते मे स्वान्ते सकलाधुनिकधरणीपतिसमभिपूजितशासनः भारतजननीगिरिकन्दरप्रसूतिः, मोदी सज्जनानाम्, अमोदी इतरेषां, माधवाशीर्वादपुष्टाङ्गः, सद्भिः कृतसङ्गः, आश्रितमुरारिशङ्करादिसुमनःपदः गाङ्गतरङ्ग इव देदीप्यमानः भगीरथ इव गीर्वाणतरङ्गिणीपथप्रवृत्तः भारतप्रियप्रधानसचिवो नरेन्द्रमोदी नाम । यद्यपि बहुवक्तव्यं तथापि यथामति श्रीनरेन्द्रमोदिनः उद्गमः,व्यक्तित्वं,तत्कृतभारतयोगदानं,वैशिष्ट्यं,नवभारतशिल्पित्वम् इति बिन्दुपञ्चकमाश्रित्य प्रस्तौमि

  • उद्गमः

सोऽयं बडनगरे हीराबेहेन्-दामोरददासदम्पत्योः लब्धजनिः गुजरातधेनुपयसां रसज्ञः बाल्य एव शालाप्रवृत्तः विरामे स्वतातस्य चायविक्रायकापणे परिवेशकवृत्तौ प्रवृत्तः समजनि । किशोरभावं परित्यजन् राष्ट्रीयस्वयंसेवकसङ्घे (आर्.एस्.एस्) प्रातरुत्थापन-चायदान-प्रातराशपरिवेशनकर्म सबहुमति प्रसन्नः सन् व्यधात् । ततः राष्ट्रीयस्वयंसेवकसङ्घ एव सम्मार्जनकर्म आकारि । ततश्च गेहं पर्यत्यजत् । हैमवते गिरौ साधुभिः सह नीतकालः भगवद्भक्त्यङ्कुरं साधुसहवासमेदुरेणावर्धयत्। पश्चात् अलङ्कृतगुजरातमुख्यमन्त्रिपदः अचिरात् भारतप्रधानमन्त्रित्वमापत् ।।

  • व्यक्तित्वम्

साधुस्वभावोऽसौ भारतजनन्याः तनयः अनारतं देशोन्नत्यै यतमानः बालेषु हार्दभाववान् सर्वान् भगिनीभ्रातॄन् मन्यमानः आरब्धान्तगामी आफलोदयकर्मा प्रजानां रक्षणाद्भरणात् पितृवद्विराजमानः नायकगुणानामाकारः भारतीयान्तरिक्षसंशोधनसंस्थायाः (इसरो) विज्ञानिनः चन्द्रयानवैफल्यानन्तरं प्रोत्साहवचनैः पितृवत् उत्सुकान् कुर्वन्, स्ववेतनमपि गङ्गाशुद्ध्यर्थ सम्पूर्णघट इव हूयमानः दीप्यते ।।

  • योगदानम्

भारतीवाचः नरेन्द्रमोदिनः भारतस्य कृते योगदानानि – १.मेक् इन् इण्डिया अभियानम् २.स्वच्छभारताभियानम् ३.अक्रमवित्तरोधः ४.द्विवारं चिकित्सकाघातः येन सप्ततिवर्षेष्वकृतं कर्म वर्षद्वये चकार ५.जी.एस्.टी ६.आयुष्मान् भारत् इत्यभियानम् येन दशलक्षाधिकाणां रोगिणामुपकृतिः समजनि ७.अच्छे दिन् अभियानम् ८.सप्तत्यधिकत्रिशततमानुच्छेदस्य निर्मूलनम् ९.पञ्चत्रिंशत्तमानुच्छेदस्य निर्मूलनम् १०.इस्रोसहायः इत्यादियोगदानैः मोदी विशिष्यते ।।

  • वैशिष्ट्यम्

श्रीमोदिनः असाधारणभाषणकला प्रजाः मुग्धाः विधत्ते । अभिवृद्ध्यादिविषयेषु सौष्ठवेन सप्रभावं भाषते । तत्प्रवचनम् प्रत्यग्रमपि जनसामान्यान् प्रभावयति । देशस्य इतरेषां नायकानां लिखितपाठकशैलीं नानुसरति मोदिवर्यः। तस्य वैशिष्ट्यं हि स्ववाक्शैल्या किम्प्रकारकानपि जनान् संस्पृशति । प्रधानमन्त्रिणः अपरं च वैशिष्ट्यं विश्वस्तरीयनेतॄणां वर्चः इव वर्चः भजति श्रीमोदी । व्यक्तित्वं तस्य प्रबलम् ।

किञ्च देशस्य प्रजाः एतावत्पर्यन्तं प्रजाभ्यः अगोचरानेव प्रधानमन्त्रिणः अद्राक्षुः । परमयं मध्येप्रजमेव सदा बम्भ्रमीति । स्वातन्त्रदिवसस्य ध्वजोत्तोलनभाषणेषु अन्ये प्रधानमन्त्रिणः रक्षाकवचस्य पृष्ठभागे भाषन्ते । किन्त्वयं महात्मा मोदी स्वप्राणानप्यविगणय्य रक्षाकवचं अलक्षयन् विहरति । स्वसुरक्षावलयमपि अतिक्रम्य शालासु सार्वजनिकप्रदर्शनालयेषु आबालवृद्धान् प्रहर्षयन् तुष्यति इत्यहो षट्पञ्चाषत्प्राङ्गुलहृदयवैशाल्यम् ।

  • नवभारतशिल्पी

एवमुक्तेन वर्णनेन विशदीभवत्येतत् असौ महात्मा मोदिवर्यः नूतनभारतामरावत्याः त्वष्टा इव अग्रे राममन्दिरनिर्माण,वेदवेदाङ्गशास्त्राध्ययनविघ्नध्वंसनादिकर्माणि कुर्वन् यशस्वी प्रप्रथमः प्रधानमन्त्री इत्यादिकीर्तिं लभमानः भारतरत्नादिपुरस्कारान् स्वीकरोतीति । सोऽयं देवकृतरतिः विधिवत् परिपालयन् हर्षप्रकर्षं दत्तात् इत्याशासे । विरमामि च विस्तरात् ।

।।श्रीकृष्णार्पणमस्तु।।

रहूगणः

श्रीजयतीर्थगुरुभ्यो नमः

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्श्रद्धयाऽधिकृतधिकाः तद्धृदयग्रन्थिविमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयाऽवरुह्य शिरसा पादमूलमुपगतः क्षमापयन् विगतनरदेवस्मय उवाच ।

आसीत्पुरा समस्तनरदेवकिरीटघट्टितपादपीठः पाकशासन इवापरः प्रियव्रतर्षभषाग्नीध्रसौवीरसिन्धुपतीनां वचोरसज्ञः, राजराजेश्वर इव भ्राशमाणः, हर इव जितमारः, क्षपाकर इव प्रतिदिवसोपजायमानकलः, जलधिरिव लक्ष्मीप्रसूतिः, रत्नाकर इव रत्नप्रसूतिः, मेरुरिवौदार्ये , भुवो भर्ता राजा रहूगणो नाम । अथ कदाचित् इक्षुमत्यास्तटे भगवन्तं कपिलर्षिं द्रष्टुं शिबिकायां व्रजतः रहूगणस्य तत्कुलपतिना शिबिकावाहकपुरुषान्वेषणसमये दैवेनोपसादितः कश्चित् पीवा युवा संहननाङ्गः धुरं वोढुमलमिति पूर्वैः सह गृहीतः प्रसभमतदर्हः उवाह शिबिकां स महानुभावः । अथ शिबिकायां विषमगतायां राजा – हे वोढारः, साध्वभिक्रमत इतीषज्जातमन्युराह । अथ ते स्वामिवाचमाकर्ण्य न वयमार्य अयमधुना नियुक्तोऽपि मन्दमभिक्रमते इति प्रससुर्वाचम् । एवं निगद्मय पुनरतिक्रामत्सु शिबिकावाहकपुरुषेषु, मुहुर्मन्दमपसरन्तमालक्ष्य प्राह दैवेकदृशम् – अहो कष्टं त्वमुरु परिश्रान्तः विशालमध्वानमेक एव ऊहिवान् नातिपीवरो जरसोपद्रुतः इति । तदाकर्ण्य अहं ममेति अनध्यारोपितमिथ्याप्रत्ययः ब्रह्मभूतः तूष्णीं शिबिकां उवाह । पुनः शिबिकायां विषमगतायां शास्त्रजलप्रक्षालननिर्मलोऽपि साधुस्वभावोऽपि शिङ्घाणसहितो जाम्बूनद इव मेघैः अविस्पष्टप्रखरकरम् उष्णकरमिव भासमानं तमसाऽऽवृतमतिः स रहूगणः पुनरेवमाह – किमरे त्वं जीवन्मृतो कदर्थीकृत्य भर्तृशासनमतिचरसीति । इत्थमाकर्ण्य ब्राह्मणो स्मयमान इव विगतस्मयः, हे राजन् , स्थौल्यकार्श्यव्याध्याधिक्षृत्तृड्भयेच्छाजरानिद्रारातिमन्युमदा देहे अहं मम इत्यभिमानवतः एव भवन्ति देहाभिमानवर्जितस्य मे न सन्ति तत्कथं नातिपीवा इत्याद्युपलम्भः मद्विषय उपपद्यत इति निःससार सरस्वतीम् । स चाकर्ण्य शिबिकायास्त्वरयाऽवरुह्य शिरसा पादमूलमुपगतः क्षमापयन् ब्राह्मणवागग्निना जाम्बूनदश्शामिकामिव अरुचेर्मूलदोषं निवारयामास । एवमुपशान्तवचसि भरते रहूगणः पवित्रीकृत इव आगारमागाते स्म ।

श्रीकृष्णार्पणमस्तु

भ्राशमाणः – (टु) भ्राशृ दीप्तौ । शानच्-प्रत्ययः । लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४)

क्षपाकरः – चन्द्रः । नक्षत्रेशः क्षपाकरः इत्यमरः।

कला – कला तु षोडषो भागः इत्यमरः ।

पाकशासनः – इन्द्रः इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः इत्यमरः ।

मारः – कामदेवः मदनो मन्मथो मारः इत्यमरः ।

उपसादितः – लब्धः उप+षद्लृ+क्त+सु ।

शिङ्घाणम् – Impurities of Gold । शिङ्घाणमपि तन्मले इत्यमरः ।

आगाते स्म – आगतवान् । लट् स्मे (३.२.११८) इति लट् ।

नैषधं विद्वदौषधम्

नैषधं विद्वदौषधम्

विदितमेव तत्र भवतां भवतां यत् समस्तकाव्यजगति कविताकामिनीकान्तः श्रीहर्षचन्द्रः कस्य स्वान्तं नाभिनन्दयति इति । काव्यजगति त्रयः प्रधानकवयः सुप्रथिताः भारवि-माघ-श्रीहर्षाः। एतेषां कवीनां वर्णनं केनचित् श्लोकेन ज्ञातुं शक्यते –

यावद्भा भारवेर्भाति यावन्माघस्य नोदयः।

उदिते नैषधे काव्ये क्व माघः क्व च भारविः।।

यावत्पर्यन्तं शिशुपालवधस्य उदयः नाभवत् तावत्पर्यन्तं भारवेः कीर्तिः व्यराजत । यदा नैषधीयचरितं समाजान्तरिक्षे व्यलसत् तदा किरातार्जुनीयशिशुपालवधयोः कीर्तिः क्व गता । तत्कथं नैषधीयचरितम् उभयोः महाकाव्ययोः कीर्तिं तिरश्चकार इति प्रस्तोतुमिच्छामि ।

संस्कृतसाहित्यललामस्य विश्वविख्यातस्य नैषधीयचरिताभिधस्य महाकाव्यस्य प्रणेता विद्वच्चक्रचूडामणिः  कवितातार्किकसार्वभौमः महाकविः श्रीहर्षः विराजते। अयं कविरपि न्यायव्याकरणवेदान्तत्वज्ञाचार्यः इति प्रथितः। अस्य तातस्य नाम श्रीहीर इति । अस्य मातुः नाम अल्लदेवी इति। तथ्यमिदं नैषधीयचरिते स्वयमेवोक्तं –

श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं

श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् इति ।।

कान्यकुब्जेश्वरस्य आश्रयभागयं तदादृतिमभजत्। ताम्बूलद्वयमासनसनं च लभते यः कान्यकुब्जेश्वरात् इत्युक्तेः इदं विज्ञायते । अतः अस्य जनिकालः द्वादशाब्दः इति वक्तुं शक्यते ।

श्रीहर्षो महाकविर्महायोगी च । तत्र च अद्वैतवेदान्त खण्डनखण्डनखाद्य नामकः ग्रन्थः अनेनैव रचितः। अयं कविर्महादार्शनिको महावैय्याकरणश्च इत्यतः सर्वान् अन्यन् कवीन् अतिशेते। असाधारणपाण्डिताविर्भावात् पाण्डित्यपरिपाकवान् प्रबन्धोस्य प्रतीयते। नैकशास्त्रनिष्णातस्य अनुपहता गतिरत्रास्तीति अत्रास्तीति नैषधं विद्वदौषधम् इति यशः स्वर्गङ्गामवगाहते।

प्रतिपदमनुप्रासप्रचुरत्वात्नैषधे पदलालित्यं इत्यप्यभिधीयते। तदिदानीं पदलालित्यस्य निदर्शनमीषदाकलयामः –

सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः ।

विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतः।।४.७२।।

श्लोकेस्मिन् चन्द्रस्य द्विजराजत्वमतिरमणीयतया वर्णयामास। अस्य कथं विद्वदौषधत्वमिति अन्यं श्लोकं पश्यामः –

दहति कण्ठमयं खलु तेन किं गरुडवत् द्विजवासनयोज्झितः।

प्रकृतिरस्य विधुन्तुद दाहिका मयि निरागसि का वद विप्रता।।४.७१।।

पद्येस्मिन् दमयन्त्याः शोकसमये चन्द्रोदये वर्धितकामपीडा सती दमयन्ती चन्द्रं दूषयतीव राहुं उद्दश्य इत्थं कथयति – हे राहो किं चन्द्रः ब्राह्मणः तं ग्रसामि चेत् गरुडस्य गलस्येव मम गलस्यापि दाहो भवेदिति इति मत्वा तं त्वं न ग्रसितवान् । परं एषः चन्द्रः यतः मां एवं कामवर्धनेन पीडयति अतः तस्य ब्राह्मणता कथं युज्यते । न हि निरपराधिनस्य पीडको ब्राह्मणो भवितुमर्हिति इति निन्दाव्याजेन चन्द्रस्य कामिनीजनानां कामोत्तेजकत्वं विरहवर्धकत्वं च गदयति ।

काव्येस्मिन् व्याकरणसाङ्ख्यवैशेषिकादिसिद्धान्तानामपि प्रतिपादनं कृतमिति क्लिष्टं काव्यमिदम्।

एवमुक्तेन वर्णनेन विषदीभवत्येतत् यत् श्रीहर्षः कविताकामिनीकान्तः नानाशास्त्रपारदृष्वा रससिद्धः कवीष्वरः वर्तते। सः भाषां पुत्तलिकामिव प्रनर्तयितुं प्रभवति। तस्य पद्यानि नारिकेलफलोपमानि बहिः कठोराणि अन्तः मधुरजलोपेतानि। रसिकैः विविधशास्त्रनिष्णातैरेव काव्यगौरवमवधारयितुं पार्यते। विविधशास्त्रवर्णनादेवास्य प्रतिपदं क्लिष्टत्वमालक्ष्यते।

अतः साधूच्यते – नैषधं विद्वदौषधम्।

श्रीकृष्णार्पणमस्तु

यतिकुलतिलकाः श्रीजयतीर्थाः

श्रीजयतीर्थगुरुभ्यो नमः

माध्वग्रन्थान् स्वबन्धूनिव सरसहृदाऽऽलिङ्ग्य विज्ञातभावः

संयोज्यालङ्कृताभिः स्वसहजमतिसम्भूतवाग्भिर्वधूभिः ।

कृत्वान्योक्तीश्च दासीर्बुधहृदयगृहं प्रौढवृत्तीश्च वृत्ती-

र्दत्वाऽन्योन्याभियोगं जयमुनिरसकृद्वीक्ष्य रेमे कृतार्थः ।।

तीर्थप्रबन्धः,पूर्वप्रबन्धः,१८ तमः श्लोकः
यस्य वाक् कामधेनुर्नः कामितार्थान् प्रयच्छति । सेवे तं जययोगीन्द्रं कामबाणच्छिदं सदा ।।

भ्लाशिष्ट प्राक् अरुण इव प्रखरप्रभः, गुरुसूर्यविकसितपद्मः आचरितसकलगुरुवाक् लेखीकृतसकलप्रमेयः जयदाता स्वजयभक्तानां , विरक्त ऐश्वर्येऽपि जयकरतीर्थप्रणेता अनुव्याख्याननलिनभृङ्गायमानः भानुकोटितेजाः सरस्वतीकृपासाकारमूर्तिः मध्वमानसह्रदहंसः छत्रीकृताशीविषराट् प्रमेयकुलिषप्रमोडितकुमतिनमुचिः गुर्वपाङ्गनीराजिताङ्गः कामाक्षीमानसोल्लासः व्याख्यातदशप्रकरणसूत्रभाष्यानुव्याख्यानः पत्नीकृतप्रमाणपद्धतिः कागिणीवातस्पृष्टाङ्गः यतिकुलमुक्तावलिः मङ्गलवेडाभिजनः श्रीजयार्यो नाम । सोऽयं विठ्ठलकृपामूर्तिः नायकरघुनाथगेहोद्भव अद्योतत कुलाकाशे । अध्यैष्ट शस्त्रास्त्राणि । कदाचिदौखत् सैन्धवमारुह्य । भ्रमता राज्ञा काले पिपासाच्यावितोत्साहः पपौ स सलिलमनाकुलमनवतरन् ह्रदे । वृत्तान्तमनुपश्यन् जयतीर्थदिग्दर्शनाचार्य अक्षोभ्यतीर्थनामा वादिहिंस्रः किं पशुः पूर्वदेहे ? इति वाचोभङ्ग्या अस्मारयत् पूर्वजन्मचरितम् । उपदेशवागग्निना पवित्रीकृत इव विहायाज्ञानशामिकां , निर्मोक इव परित्यक्तगृस्थाश्रमः परमहंसलक्षणं वपुः अवेष्टत । अचिरादेव करतलामलकीकृतनिगमागमः व्याचख्यौ अष्टादश माध्वग्रन्थान् । पलाययामासान्यवादिनः । आर्जयत् सर्वज्ञकल्पत्वनाम । प्रविवेश वृन्दारण्यम् अनुध्यायन् राघवम् ।

सस्सिद्धान्तपतङ्गमार्यरचितं दुर्वादवृक्षैर्गुरुर्

गूढं सन्नयनेभ्य ईक्षितुमलं नो शक्तमित्येव वै ।

चिच्छेदाशु कुवादिदुष्टविपिनं सन्दर्शयामास नः

श्रीमन्न्यायसुधायुधेन जयराट् दद्यात् सुविद्यां सदा ।।

(मदीयः श्लोकः)

मलखेटपुरे स विवेश रमारमपादयुगं शितधीर्जयराट् । कमलारमणं वरमध्वनुतं मनसा स्मृतवान् मदनेषुजयी ।। (मदीयश्लोकः)

टिप्पणी

स्वजयभक्तानाम् – सु-शोभनः यः अजयः-श्रीहरिः तस्य भक्तानाम् ।

जयकरतीर्थप्रणेता – जयदानशीलशास्त्रविरचयिता । निपानागमयोस्तीर्थम् इति कोशः ।

छत्रीकृताशीविषराट् – छत्रवत् कृतः आशीविषानां – सर्पाणां राट् – राजा येन सः । आशीविषो विषधरश्चक्री इत्यमरः ।

अवेष्टत – वेष्ट वेष्टने इत्यतो लङ् आत्मनेपदम् ।

सैन्धवः – अश्वः । हयसैन्धवसप्तयः इत्यमरः ।

सर्वज्ञकल्पाः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति कल्पप् प्रत्ययः ।

कुलिशंम् – वज्रम् । कुलिशं बिदुरं पविः ।

मोडितम् – मुडँ मर्दने इत्यतः क्त ।

शामिका – लोहान्तरसंसर्गात्मको दोषः ।

औखत् – जगाम । उखँ गतौ इत्यतो लङ् ।

भगीरथः

श्रीजयतीर्थगुरुभ्यो नमः

भगीरथोऽपि राजर्षिर्निन्ये भुवनपावनीम् ।

यत्र स्वपितृणां देहा भस्मीभूताः स्म शेरते ।।

श्रीमद्भागवतम्,नवमस्कन्धः,अष्टमोऽध्यायः

साम्प्रतम् अहम् आजन्मशुद्धानां त्यागाय सम्भृतार्थानां सत्याय मितभाषिणां यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् अन्ववायजस्य भगीरथस्य वृत्तम् ईषदिव स्वरामि । हन्त! श्रूयतां मानवो वंशः ।

आसीत्पुरा अशेषराजन्यसम्पूजितशासनः प्रवाहितस्वर्धुनीः व्यूढोरस्कः आरब्धान्तगामी आफलोदयक्रियः विराट् भगीरथो नाम । स राजर्षिर्देवान् अयष्ट । अधिजगे वेदान् ।

सगरसप्ततन्तौ हयान्वेषणसमये कपर्दिकपिलभ्रूविजृम्भभस्मीभूतसगरजसमूहस्य समद्धृत्यै तप्ततपसा अंशुमता स्वर्धुन्यवताराय इषत्प्रायति । तत्सुतेन दिलीपेनाप्ययति । पितृपुत्रयोः नैरस्येऽनुभूते फलस्याकार इव पुण्यमूर्तिमानिव राजर्षिर्भगीरथः आसनसिंहासनहंसतूलिकाहेमलक्ष्मीर्विहाय निक्षिप्ताङ्गुष्ठमात्रः लज्जीकृतस्वावरतपस्वी आयनसहस्रं हिमशीतवर्षपरितापपुरःसरानविगणय्य तप्ततपाः दुर्द्रुश्यमपि द्रुहिणं प्रासादयत् । कथितस्वाभिप्रायोऽयं विरिञ्चिणा गङ्गावतारः अचिरादेव भवितेति विज्ञापितः गङ्गौघसहनाय शिवं सम्यगावर्षमुपतस्थे । तुष्टश्शिवः लसच्छ्रीतुलसीविमिश्रकृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्रीं दवीयोभिः क्षीरधारामिव भावितां गाङ्गमङ्गलतरङ्गां स्वात्मानमपि (रुद्रं) पातालं नेतुमिच्छन्तीं स्वरजसा पररजोनिवारिकां वैष्णवदासाग्रणीः स्वसटया धृत्वा अपवत् । अथ जटास्थायां स्वर्धुन्यां भग्नाशो राजा देहावस्थामविगणय्य शाङ्करं तपस्तेपे । तुष्टो हरः गङ्गां न्यदिशत् । तेन गङ्गोदकेन सागरान् तर्पयामास । ततः भारतमिदमुन्मत्तगङ्गं समभवत् । स्वपितामहोद्धाराय भूमिमानिनाय विष्णुपदीं यः तं सादरं पणे ।

क्व भूमिर्वाराही क्व च सुरनरेन्द्रस्य भवनं

न सोढुं शक्तासौ सुरजलममोघं गततुलम् ।

तथाप्येषानिन्ये सुरवरनदी नाकत अहो

क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ।। (मदीयः श्लोकः)

टिप्पणी

उन्मत्तगङ्गम् – “तृतीयासप्तम्योर्बहुलम्‌” (२.४.८४) इत्यनेन सूत्रेण अव्ययीभावः ।

सप्ततन्तुः – यज्ञः, यज्ञस्सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः इत्यमरः ।

कपर्दिकपिल.. – कपर्दः – जटा अस्य अस्तीति कपर्दी तादृषः कपिलनामकपरमात्मा ।

दवीयोभिः – दूरस्थैः ।

दृहिणः – ब्रह्मा, धाताब्जयोनिर्दृहिणः इत्यमरः ।

स्वसटया – सटा – जटा, व्रतिनस्तु सटा जटा इत्यमरः ।

गोवर्धनोद्धरणम्

श्रीजयतीर्थगुरुभ्यो नमः

देवे वर्षति यज्ञविप्लवरुषा वज्राश्मवर्षानिलैस्सीदद्बालपशु स्त्रियाऽऽत्मशरणं दृष्ट्वाऽनुकम्प्युत्स्मयः ।

उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् पायान्न इन्द्रो गवाम् ।।

श्रीमद्भागवतम्,दशमस्कन्धः,चतुर्विंशोऽध्यायः

थ नवनीतमोषकः परिहसितनिष्कलङ्कचन्द्रः घनाघनसुन्दरः भैष्मीपूजितविग्रहः सुवदनः सान्द्रानन्दः मन्दावलोकोत्किरत्कान्तिः चन्दनचर्चितः चक्राङ्कितचरणः कृष्णारामः वशीकृतयमः रमामुखसोमः स्ववाक्सुधानन्दितभूमिदेवः करुणावनमाली कंसारातिः स्वकृतगोर्धनोद्धरणेन चेतो मे स्वजते । कवे तच्चरितम् ।

अथ समुपस्थितकैशोर्यः सबलः वासवदेवः शातक्रतुं क्रतुं निराकृत । गोवर्धनस्य गोवर्धनस्य पणने न्ययोजयत् व्रजभुवः । एवं कृतस्वपणनान्तरायकरस्य अनन्तस्य महिमानं स्वमनसि परिमृज्य दिवस्पतिः घनमतिघनाघनं व्यधात् । पुरुहूतकृतापमानं ध्यात्वा तत्कृपाकरः गोवर्धनकरः रक्षितगोसमूहः आवासरं पाणिक्षिप्तविविधफलप्रसूतिगोवर्धनः शतमन्युममन्युं विधाय तेन स्तुतस्तुत्यः सन् तमनुजग्राह ।

गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजत् कृष्णं सुरभिः शक्र एव च ।। विविक्त उपसङ्गम्य व्रीळितः कृतहेळनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ।।
दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ।।

मोषकः – चोरः । मुष स्तेये इत्यस्मात् धातोः ण्वुल्प्रत्ययः ण्वुल्तृचौ (३.१.१३३)

कवे – वदामि । (कुङ् शब्दे) इति धातुः ।

पणनम् – स्तुतिः (पण व्यवहारे स्तुतौ च) ।

गोवर्धनस्य गोवर्धनस्य – गोवर्धनपर्वतस्य या गौः – कान्तिः तस्या वर्धनः ।

घनाघनः – वर्षुकमेघः (Rainy Cloud) वर्षुकाब्दो घनाघनः इत्यमरः ।

कृष्णारामः – कृष्णा – द्रौपदी तस्या आरामः आनन्दवर्धकः ।

परिमृज्य परि-इत्युपसर्गात् मृजूँ शुद्धौ इति धातोः ल्यप्-प्रत्ययः ।

वासवदेवः – वासवस्य – इन्द्रस्य । वासवो वृत्रहा वृषा । तस्य देवः स्वामी कृष्णः ।

दिवस्पतिः – इन्द्रः । शतमन्युर्दिवस्पतिः इत्यमरः ।

शतमन्युममन्युं विधाय – शतमन्युमिन्द्रम्। अमन्युं – न विद्यते मन्युः – कोपः यस्य सः तथोक्तः । तम् । अमन्युं विधाय – कृत्वा ।

रक्षितगोसमूहः – गवां समूहः – वेदाः,शास्त्राणि,धेनवश्च । रक्षितः गवां समूहः येन सः । कृष्णः ।

शान्तनवो भीष्माचार्यः

श्रीगुरुभ्यो नमः

श्रीजयतीर्थगुरुभ्यो नमः

ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । तद्दृष्ट्वा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ।।

अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् …….

श्रीमन्महाभारतम्,आदिपर्व,संभवपर्व,सप्ताधिकशततमोध्यायः

आसीत्पुरा तुङ्गतरङ्गगङ्गानन्दनः, अधीतसकलशास्त्रः, भार्गवेण अभ्यस्तशस्त्रवेदः, शन्तनुमनोरथरथसारथिः,रक्तः कृष्णपादयोः,विरक्तः दूषणेषु,सिंहसंहननः शान्तनवो भीष्मो नाम । अयमंशो वसूनां शापान्मानुषत्वमवाप । त्रिपथगाप्रसूनः बाल्य एव अभ्यस्तसकलशस्त्रास्त्रः बृहस्पतिपरशुरामयोः पञ्चशतवर्षमधिजगे । सकलनिगमपक्वान्तःकरणोऽसौ आरूढयौवराज्योऽपि पितृपुनर्विवाहाय भीष्मं प्रतिजज्ञे । नाम्ना भीष्मतां जगाम। तत्याज च सिंहासनम् । अप्यायत पितुर्मोदम् । सोऽयं भीष्मोऽपि साधुष्वभीष्मः । वज्रकायः देवलावण्यवान् विजितसकलनृपतिः अम्बिकाम्बालिके प्राप्य स्वानुजाभ्यामवाहयत् । अद्यायत्स्वपरिणयाय । द्वैपायनानुग्रहसम्भूतविचित्रवीर्यात्मजान् संदृश्य सुमोदमन्वभवत् । अमोदत पौत्रैः धृतराष्ट्रपाण्डुविदुरैः । कालान्तरे स्वदुष्टपौत्रान्नाशनेन क्षारपय इव कालतः कुबुद्धिलीनबुद्धिः दुष्कर्माणि चकार । कदाचित् महाभारते तत्समयमपहाय स्वप्रतिज्ञामृतमधिकर्तुं  कृपाकरः दैवकिः पाणिकृतरथचरणः संहर्तुं गाङ्गेयं ससर्प । तेन कृतार्थोऽसौ प्रसङ्गान्तरे पाण्डवेन छिन्नकायः भगवति कृतरतिः शरशय्यां स्वाधिवासं मनुते स्म । अन्ते कृतोपदोशो युधिष्ठिराय भगवन्तमनुस्मरन् स्वासून् जहौ ।