विश्वसंस्कृतदिनाचरणम् आत्माश्रमे

कृपया अभिवीक्ष्यताम् । जयतु गीर्वाणतरङ्गिणी

ऊर्जा – 2

आत्माश्रमगुरुकुलम्

प्रस्तुतिः – प्रकृतिवर्णनम्

बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते

अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।।

सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये ।

अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् ।

ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।

बहुचित्रजगद्वर्णनपटीयांसः नवनवोन्मेषशालिनः अविरतकवितागुम्फनदुरन्धराः जोषं जोषं प्रकृतिसौन्दर्यवर्णनान्दरसपीयूषपानमत्तचित्ताः कविताकामिनीकान्ताः नैके महाकवयः विराजन्तेतमामस्यां वसुन्धरायाम् ।। ते हि खलु नैसर्गिकनिसर्गासक्तस्वान्ताः पर्वतनदीवी रुध्मरुद्वनदिनकरनिशाकरकलहंसचकोरादीन् हृदयङ्गमया शैल्या वर्णयन्तः रसिकानां रसपानं कारयन्तो विराजन्ते ।। क्षणं क्षणं यन्नवतामुपैति तदेव रूपं रमणीयतायाः इत्युक्तदिशा तेषां मनः पटले प्रकृतिः प्रतिक्षणं नवीनतां भजन्ती समुल्लसति ।

अद्य अस्माभिः नित्यान्तं कृतार्थता समनुभूयते यद् विद्वद्वर्याः सुप्रसिद्धकवयः अष्टावधानिनश्च श्रीयुताः रामकृष्ण पेजत्ताय महोदयाः आश्रमपदमिदं साम्प्रतं स्वागमनेन भूषयाञ्चक्रुरिति । साहित्यनभोमण्डले स्निग्धशीतांशुरिव विहरन्तः ते स्वास्यनिस्स्यन्दिभिः कविताशीकरैः श्रोतृचातकान् संपोषयन्तहो । धन्याः सुकृतिनः सरसिद्धाः ईदृशाः सुकृतिनः कीवश्वराः येषां जन्मदात्रीयं अवनिः स्वस्याः कृतार्थतां समाकलयति ।

अथ कालोयं सम्प्राप्तोधुना काव्यरसपानाय प्रकृतिकन्यायाः नवरूपलावण्याविष्करणाय । तदस्मदन्तेवासिनः भू-भूधरादि-वर्णनेन अस्माकं मनः अरञ्जयन् । तदवलोक्यन्तां साहित्यरसिकाः इति भवन्तः सामोदं समाहूयन्ते ।

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: