जीवाः त्रिविधाः मुक्तियोग्याः,नित्यसंसारिणः,तमोयोग्याः चेति।तत्र प्रमाणं तु नीच मध्योच्च भेदेन जीवास्ते त्रिविध मताः इति च। तथा हि गीतायाम् त्रिविधा भवति श्रध्दा देहिनां सा स्वभवजा। सात्विकी राजसी चैव तामीसी चेति तां श्रुणु।।सम्पत्तु त्रिविधा प्रोक्ता उत्तमाधममध्यमाः ।। इति।।तथाहि त्रिगुणात्मकानां जीवानांअनुसारेण श्रीकृष्णः तेषां फलं कथयति ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृतिस्था अधोगच्छन्ति तामसाः।।उत्तमा देवतास्तत्र ऋष्याद्या मध्यमामताः।अधमा मनुष्योत्कृष्टाः ते चापि त्रिविधा मताः ।।तत्र उत्तमाः-देवताः,मध्यमाः-ऋषयः,अधमाः-मनुष्येषु श्रेष्ठाः इत्यर्थः।
मुक्तियोग्याः-
उच्चास्तु मोक्षयोग्या हि सदा नारायणप्रियाः। ज्ञानानन्दवैराग्यभक्त्यादि गुणरूपकाः।।एते मुक्तियोग्याः मोक्षयोग्याः,सर्वदा नारायणप्रियाः,सुज्ञानाः आनन्दवैराग्यदिभिः भरिताःमुक्तियोग्याः उच्चाः इत्यर्थः।
मध्यमयोग्याः-
नित्यसंसारिणो ये तु मध्यमास्ते प्रकीर्तिताः। सदा संसृतिबद्धाश्च गुणदोशोभयात्मकाः।।ये संसारे बद्धाः,गुणदोशाभ्यां युताः नित्यसंसारिणःमध्यमाः।
अधमयोग्याः-
नीचास्तत्र तमोयोग्याः दुःखाज्ञनादिरूपिणः। अनादिद्वेषिणो विष्णौ दुर्लक्षणयुताः क्रमात्।।
दुर्लक्षणैः युताः विष्णौ द्वेषिणः । द्वेषादिभिः युताः।।
।।श्रीकृष्णार्पणमस्तु।।