अत्युत्तमानामवरे तेजोभङ्गो न विद्यते

श्रीजयतीर्थगुरुभ्यो नमः

अस्ति काचित् सरस्वतीदृषद्वतीनद्योः मध्यप्रदेशे ब्रह्मावर्तं नाम पुण्यभूमिः यत्र परमपावनी सरस्वती ऐन्द्रीं दिशमुद्दिश्य स्यन्दति । तत्र महापराक्रमी राजर्षिः पृथुः कस्मिंश्चित् शोभने मुहूर्ते शताश्वमोधसङ्कल्पमकरोत् । एवं यज्ञार्थं दीक्षितः सः राजा विधिवत् क्रतुशतं निर्वर्तयितुमारेभे । पृथुना क्रियमाणोयं यज्ञः शक्रकृतक्रतुशतापेक्षया अतिशयितां भेजे यतः स्वयं सर्वव्यापी सर्वसमर्थः सर्वलोकगुरुः साक्षात्  भगवान् श्रीहरिरेव ऋतावस्मिन् यज्ञपतिर्बभूव ।

परं सुराधिपः शक्रः स्वकृतक्रतुशकापेक्षया अतिशयोपेतं अभिप्रेत्य भगवद्भक्तस्य पृथोः इमं यज्ञमहोत्सवं न सेहे । अमृष्यमाणः सः यज्ञस्य प्रतिघातं चकार । पृथौ अन्त्येन अश्वमेधेन हूयमाने सति स्पर्धमानः इन्द्रः तिरोहितः सन् यज्ञाश्वं अपोवाह ।

पाखण्डरूपं धृत्वा यज्ञाश्वं अपहृत्य विहायसा गच्छन्तं शक्रं वीक्ष्य तत्र भगवान् अत्रिर्महर्षिः – जहि यज्ञहनं तात महेन्द्रं विबुधाधिपम् इति पृथुपुत्रं विजिताश्वं संचोदयामास । तदाकर्ण्य अतिकृद्धः पृथुसुतः सीताकृतिं अपहृत्य गच्छन्तं रावणं गृध्रराडिव अन्वधावत् । तदा महेन्द्रः यज्ञांश्वं हित्वा स्वस्वीकृतपाखण्डरूपं विसृज्य अन्तर्हितः सन् विहायसि तत्थौ । तदा धीरः सः पृथुपुत्रः यज्ञपशुमादाय पितृयज्ञं प्रति आजगाम । तत्रोपस्थिताः परमर्षयः तस्य अद्भुतं कर्म विलक्ष्य यस्मात् त्वं इन्द्रं पराभूय यज्ञाश्वं जितवान् तस्मात् विजिचाश्वनाम्ना जगति प्रथितो भविष्यसि इति जगदुः ।

श्रीमद्भागवते चतुर्थस्कन्धे श्रूयमाणायाः अस्याः कथायाः श्रवणेन नूनं पामराणां चित्ते इन्द्रापेक्षया विजिताश्वस्य उत्तमत्वं, इन्द्रस्य अशक्तत्वं, भीरुता, युद्धे पलायनपरता इत्यादिकं भासते । परं विचारणशीलानां विदुषां चेतसि – क्व देवानां सम्राट् इन्द्रः । क्व मानवस्य पृथोः पुत्र विजिताश्वः । किं मानवः देवानपि अतिशेते । कथं वा शतक्रतोः पृथुसुतापेक्षया अवरता । किं शक्रस्यायं तेजोभङ्गः वास्तविकः भवितुं अर्हति इत्यादि शङ्काशतं चकास्ति ।

तदयं भगवान् सर्वज्ञमुनिः गरुड-स्कान्द-पुराणवचनोदाहरणेन शङ्काशतं विच्छिद्य सन्मार्गगामिनां चेतांसि विमलीचकार । तदित्थम् –

देवा शक्तास्तु मोहाय दर्शयोयुरशक्तवत् ।

ऋषीणां चैव राज्ञां च न हि ते देवतासमाः ।।

आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित् क्वचित् ।। इति गारुडे – भाग ता.  ४.१९.१७

 यदा देवाः स्वापेक्षया अवरान् ऋष्यादीन् प्रणमन्ति तदा तेषां अन्तर्यामिणं श्रीहरिमेव प्रणमन्ति इति कारणतः तेषां किञ्चिदपि तोजोभङ्गः न भवति । यथा हि लेके जनाः स्वापेक्षया नीचयोनिजातानां पश्वादीनां नमनेपि तेजोभङ्गं नानुभवन्ति तथा उत्तमैः अवरान् प्रति नमने कृतेपि तत्र हरिमात्रोद्देश्यत्वस्य सर्वैः ज्ञातुं शक्यत्वात् तेजोभङ्गस्यावकाशो नास्ति । प्रायः समानां अवमानां यदा नमस्कारः तदा एव तेजोभङ्गस्य प्रसक्तिः । तदपि समानानां द्वेषादिसद्भावे एव तोजोभङ्गप्रसङ्गः । द्वेषाभावे तु समानामपि परस्परनमनादिकं तेजोभङ्गकारणं न भवति । उत्तमानां विषये नीचताचिन्ता महते अनर्थाय कल्पते ।

अतः अत्युत्तमानां अवरे तेजोभङ्गो न विद्यते ।

।। श्रीकृष्णार्पणमस्तु ।।

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: