
वधूकदम्बलास्यहासहासिताासिताननम् ।
मधूदकाधराधृतं वधूधुरीणमानसम् ।
विभावरीविलासकान्तिकान्तकान्तिभासुरम् ।
सुवेणुगीतगाथकं जगद्बलाबलाश्रितम् ।।
महालकालिनादपङ्कजाननेनभासुरम् ।
महोत्सवोत्सुकाङ्गिनं रतिप्रतीक्षणोत्सुकम् ।।
सुगोपिकापिकस्वरस्वनत्वरासरोत्सुकम् ।
विनोदनोदिताबलं निशाविषण्णमानसम् ।।
करेण वेणुरेणुशोणितेन कानितोन्नतम् ।
महारसासमोत्युकोद्रतिप्रियं प्रियंवदम् ।।
महालिकाप्तचन्दनं मरन्दमन्दिताधरम् ।
नमामि नन्दनन्दनं रमाचकोरतन्दिरम् ।।