गोपीसङ्गीतभङ्गीमधुरितमधुरस्वात्महृत्सङ्गिचोरः
श्रृङ्गारापाङ्गवीक्षोत्किरदमरमनोमोहिनीकान्तिकान्तः ।
सोत्तुङ्गाङ्गस्थरम्यस्वधरसृतसुधावातरेणुस्ववेणुः
स्पर्धल्लक्ष्मीस्वमालः कलयतु धिषणां गोपलीलः सुबालः ।।
श्रीकृष्णपादरजसा परिपावितायां द्वारावतीपुरि विचन्द्रवने समुद्रः ।
तद्रम्यकाम्यदमुखाम्बुजदर्शनेन तत्सङ्गवर्धिततरङ्गनिजाङ्गकोऽभूत् ।।
भ्राजद्गोकुलवल्लवे तदबलावृन्दस्मिते मन्दिरे
वल्लीफुल्लसुमल्लिकाकलितसद्दोलासुलोलस्य ते ।
आस्यस्यन्दिसुधाम्बुचुम्बितनिषादादिस्वरां त्वन्मुखात्
गोपस्वापदवेणुनादलहरीं श्रोष्यामि कस्मिन् युगे ।।
सदा सदागतिस्तुतं वने वनेचराकृतिं
सुरासुरार्तिजन्मदं कलौ कलौकसं प्रभुम् ।
समन्युमन्युखण्डिनं रमारमत्स्ववक्षसं
मुदा मुदाकृतिं समानमामि गोपगोपतिम् ।।
वन्दे कुन्देन्दुलक्ष्मीहरमधुरसुमन्दस्मितं वन्दिदेश-
न्देवं गोपीभुजोरुव्रततिपरिवृतं सेन्दिरावन्दिताङ्घ्रिम् ।
कृष्टाघं पादयुग्मप्रणिहितमनसां कम्बुकण्ठं समाकृ
ष्णं श्रीजिष्वीशनाथं वृकजठरनुतं रुग्मिणीलालिताङ्घ्रिम् ।।
संसारकाननगता निखिलाघजालग्रस्ताः सहस्रकिरणांशुसुपीडिताश्च ।
अद्य स्वगौररुचिकृष्णहिमांशुजातज्योत्स्नाकरम्भजठरम्भरश्चकोराः ।। (स्वकीयाः श्लोकाः – अन्तरात्मा राचूरि)