
चञ्चलभुजहस्तन्यस्तविपक्षदक्षदमनोद्भासिगदाविपुलविहृतिभयस्विन्ननिजदुर्बलाङ्गः दृष्टपितामहाचार्यानुजराजविपत्तिः तप्ता आम्बिकेयतोकः ।
अचाल्यवीर्यः सचतुर्दशेऽहनि प्रचूर्णसक्थ्यस्थिरभूद्यदङ्गतः ।
अयं जरासन्धबलार्धभाग्भवन् मूहूर्तकेनेन निपात्यतेऽत्र ।।१।।
यदङ्गसङ्गादपि शैशवेऽस्य शतं विभक्तो गुरुसानुरद्रिः ।
तेनैव वैरं परिवर्धयित्वा नूनं धरयां पतति प्रणष्टः ।।२।।
वनेचरो वन्यपलादहिस्रो दोर्दण्डसङ्खण्डितचण्डदैत्यः ।
जायापमानोत्थकृधा समेत्यं नूनं पिनष्टीश्वरमाजिमुख्ये ।।३।।
सेनाचरो गोगणनामिषेण सस्त्रीस्वमित्रो विगतस्वराज्यान् ।
पार्थान् सकृष्णानवतप्यमानान् पुनः पुनस्तापयितुं खलोऽसौ ।।४।।
तदेतगन्धर्ववधूसुकामुको ज्ञातो तदीयै परिनीयमानः ।
हा तात भीमार्जुन पाहि मां त्वद्भ्रातॄन् इति रोदिति स्म ।।५।।
ज्येष्ठाज्ञया मारुतिराप्य देवसद्गायकान् स्वीयबलेन जित्वा ।
मृत्योरपात्तद्दिवसेऽद्य मूढस्तज्ज्येष्ठसिंहं कथमाहते सः ।। ६।।
अथ यदा स्वकण्ठध्वनिविघटितसेनापकुरुपहृदः समरविजयप्रमोदनिर्भरस्य अतिरभस-गदाघातनिपातितसकलशस्त्रास्त्रपारङ्गतस्य सत्वातटस्य अपाङ्गभङ्गनिष्पिष्टसत्वराशेः विजितकपर्दिदर्पककपर्दिनः कुरुजमुख्यभ्रातृगणसंहारगलच्छोणितोक्षितशरीरस्य किर्मीर-बकहिडिम्बसकलराजभयानकस्य गदया नूनमयं प्रमत्तः गदाघातकरम्भमुदरम्भरिः धरामाश्लिषते ।