
ननु भुवि भारते वशीकृतसरस्वत्यः अधीतिबोधाचरणप्रचारणाः स्वशास्त्रप्रणेतारः स्वशास्त्रं प्रवर्तयन्तः आसन्। इह भारते दर्शनानि षडेव वर्तन्ते प्रधानानि –
काणादस्याक्षपादस्य व्यासस्य कपिलस्य च।
पातञ्जलेर्जैमिनिश्च दर्शनानि षडेव हि।।
इति वचनात् काणादः वैशेषिकदर्शनप्रवर्तकः, अक्षपादः न्यायदर्शनप्रवर्तकः, वेदव्यासः वेदान्तदर्शनप्रवर्तकः, कपिलः साङ्ख्यदर्शनप्रवर्तकः, पतञ्जलिः योगदर्शनप्रवर्तकः जैमिनिः मीमांसादर्शनप्रवर्तकः इति ।
तत्र किं नाम दर्शनं इति प्रश्नः घटते । दर्शनमित्यस्य दृश्यते (ज्ञायते) (आत्मा) अनेन इति दर्शनम् । इदं दर्शनमेव परमात्मानं ज्ञातुं दीपशिखा पदार्थजातमिव सहकरोति । प्रायः सर्वेपि दार्शनिका अलं तत्वज्ञानमेव मोक्षं प्राप्तुं उपकरणं इति मन्यन्ते।
अज्ञानादिह संसारः ज्ञानान्मोक्ष इतीर्यते।
अखिलैः तन्त्रिकैः तस्मात् तत्वज्ञानमिहादिदम्।
इति वेदान्तमतरीत्या तत्वज्ञानं निश्श्रेयसः उपकरणं भवति। अस्मिन् वेदान्तदर्शने द्वैतमतं अन्यतरं भासते। अस्य प्रवर्तकाः श्रीमदानन्दतीर्थभगवत्पादाचार्याःभवन्ति। परकारुणिकाः ते अस्मद्धिताय परतत्त्वं भगवन्तं कैः दृष्टिकोनैः पश्यामश्चेद् वयं मुक्तिं प्राप्नुमः इति बोधनाय तत्वसङ्खानं व्यरचयन्। साम्प्रतमहं अस्य ग्रन्थस्य उपोद्घातनं चिकीर्षामि।।
इदं तत्वसङ्ख्यानं मध्वाचार्यकृतेषु दशप्रकरणेषु एकं विद्यते। प्रकरणग्रन्थो नाम यो ग्रन्थः दर्शनानां केचन विशिष्टविषयान् परिशीलयति सः प्रकरणग्रन्थः इति अभिधीयते। दशप्रकरणाानि भवन्ति-
- प्रमाणलक्षणम्
- कथालक्षणम्
- मायावादखण्डनम्
- प्रपञ्चमिथ्यात्वानुमानखण्डनम्
- उपाधिखण्डनम्
- कर्मनिर्णयः
- तत्वसङ्ख्यानम्
- तत्वविवेकः
- तत्वेद्योतः
- विष्णुतत्वनिर्णयः इति।।
तत्वसङ्ख्यानम् विष्णुसर्वोत्तमत्वं ध्रुवं स्थापयति। अयम् एकादशश्लोकात्मकः ग्रन्थः। अयं तत्वानां सङ्ख्यानं (विस्तारं) करोतीति अस्य अन्वर्थनाम।
किं नाम तत्त्वं इत्यस्मिन् ग्रन्थे द्वैतद्युमणयः आचार्याः प्रत्यपीपदन् – यदनारोपितं तद् तत्वं इत् अभिधीयते इति। प्रमितिविषयः तत्त्वं इत्यर्थः । उदाहरणार्थं- विष्णुः प्रमाणभूतैः शास्त्रपुराणादिभिः विज्ञायते इति प्रमितिविषयत्वात् तत्त्वं भवति। यदि वयं रज्जुं दृष्ट्वा सर्पः इति आरोपयामः सः सर्पः तत्त्वं न भवति।
तत्वानां विभागः-
स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वं इष्यते।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधतरत्।। इति
तत्वं द्विधं भवति-
- स्वतन्त्रं तत्वम्। अनधीनः,पराननेक्षः केवलं भगवान् विष्णुः स्वतन्त्रतत्वम्।
- अस्वतन्त्रं तत्वम्। यद् स्वतन्त्रतत्वं अवलम्ब्य वर्तते, ज्ञान् प्राप्नोति तथा कर्माणि करोति तत् अस्वतन्त्रतत्वम्।
- अस्वतन्त्रतत्वं द्विविधम्-
- भावः। प्रथमप्रतीतौ यः अस्ति इति प्रतीयते सः भावः।।
- अभावः। प्रथमप्रतीतौ यः नास्ति इति प्रतीयते सः अभावः।।
- भावः द्विधः-
- चेतनम् – यद् विषयान् विषयीकरोति तद् चेतनम्। जीवाः।।
- अचेतनम् – यद् विषयान् विषयीकर्तुं अशक्तं तद् अचेतनम्। जडाः।।
- चेतनम् द्विधम् –
- दुःखस्पृष्टाः – येषां दुःखं वर्तते ते दुःखसंस्पृष्टाः। यथा- मुक्तियोग्याः1 तथा मुक्ति-अयोग्याः2 इति।।
- दुःखास्पृष्टाः – कदापि दुःखासम्बद्धं दुःखास्पृष्टं । यथा रमा सा एका एव ।
- अचेतनम् त्रिविधम्-
- नित्यम् – यद् आद्यन्तशून्यम् तद् नित्यम्। यथा- वेदाः, वर्णाः,अव्याकृत-आकाशः।।
- अनित्यम् – यद् आद्यन्तशून्यम् न वर्तते तद् अनित्यम्। यथा- संस्सृष्टाः3 च असंस्सृष्टाः4।।
- नित्यानित्यम् – यन्न सर्वदा निर्विकारं न अपि अनित्यम् तद् नित्यानित्यम्। यथा- कालः, प्रकृतिः, पुराणानि।।
- अभावः त्रिविधः – “प्राक्प्रध्वंससदात्वेन त्रिविधोsभाव इष्यते”।।
- प्रागभावः – वस्तुनः उत्पत्तेः पूर्वं यः अभावः सः प्रागभावः।।
- प्रध्वंसाभावः – वस्तुनः नाशानन्तरं यः अभावः सः प्रध्वंसाभावः।।
- सदाभावः – यस्य सर्वदा त्रैकालिक-अभावः विद्यते सः सदाभावः।। यथा – गगनारविन्दम् ,शशविषाणः।।
- अन्योन्याभावः न अङ्गीक्रियते कुतः इति चेत् सः धर्मिस्वरूपमेव।।
ग्रन्थवैशिष्ट्यम्
- केवलं एकादशश्लोकेनैव समग्रतत्वानां चिन्तनम्।।
- सरलतया तत्वानां विभागः।।
- अभावस्य त्रैविध्यं, अन्यमतापेक्षया लाघवम्।।
- जगतः सत्यत्व-पञ्चभेदात्मकत्वप्रतिपादनम्।।
ग्रन्थस्य उपसंहारः
मुमुक्षुणा खलु भगवान् जगतः सृष्टि-स्थिति-संहार-नियमन-ज्ञान अज्ञान-बन्ध-मोक्षाणां प्रदायकः इति अवश्यमवगन्तव्यः तथा जगदपि अनेकभेदभिन्नं इति अमृषा विज्ञेयं अस्मादेव मोक्षः इति।।
यः एतत्परतन्त्रं त सर्वमेव हरेः सदा ।
वशमित्येव जानाति संसारात् मुच्यते हि सदा ।।
टिप्पणीः –
- मुक्तियोग्याः – देवाः ऋषयः पितरः चक्रवर्तिनः नराः
- मुक्ति-अयोग्याः – राक्षसाः पिशाचाः दैत्याः मर्त्याधमाः
- संस्सृष्टम् – ब्रह्माण्डम्
- असंस्सृष्टानि – महत्तत्वाहंकारबुद्धिमनोदशेन्द्रियतन्मात्रभूतानि
।।श्रीकृष्णार्पणमस्तु।।