
वीक्षस्व । सम्प्रत्ययं प्रावृट्कालः । नभः इरम्मदस्रक् बलाहकैः सञ्छन्नं भाति । नीलोत्पलाभकान्तयः मेघाः मिमते । सर्वत्र वृष्टिधाराः धरणीमार्द्रयन्ति । पृथिवीरेणूत्किराः वाताः वान्ति । अयं कालः चातकानां मोदकालः । आब्दं तृषा परिक्लिष्यमाना स्वदाहं वृष्टिपयसा शमयन्ति । पश्य सर्वे नरः शैत्येन त्रस्ताः स्वीयेषु निवा-सेषु वसन्ति । किन्तु कृषीवलाः वृष्टिमविलक्ष्य क्षेत्रे यवान् वपन्ति । जलाशयाः पूर्णसलिलाः जननयनानि आकर्षन्ति । वृष्टिसलिलेन अङ्कुराः समुत्पद्यन्ते । वृष्ट्यागमनाय विप्राः देवान् क्रतुभिर्यजन्ति । वृष्ट्या सर्वत्र प्रकृतिः हरिता इन्द्रनीलायते । उत्तुङ्गगिरिशृङ्गस्यन्दिनो झराः कस्य सुखं नैधयन्ति । काले अस्मिन् –
अम्भोजकान्ततपनातपतप्तदेहा
आब्दं तृषाकुलधियोऽद्य मुदा रमन्ते ।
जृम्भद्बलाहकपरस्परघातजाम्भो-
वर्षाकरम्भजठरम्भरयः शकुन्ताः ।।(स्वकीयः श्लोकः)
अम्भोजानां कान्तेन विकासकस्य तपनस्य सूर्यस्य (तपनः सविता रविः इत्यमरः) आतपेन किरणेन तप्तदेहाः उष्णीभूतकायाः आब्दं संवत्सरादारभ्य तृषा पिपासया आकुलधियः त्रस्तधियः जृम्भतोः -गर्जतोः बलाहकयोः-मेघयोः (स्तनयित्नुर्बलाहकः) परस्परघातेन – मिथः घट्टनेन जातस्य अम्भसः जलस्य वर्षाः – वृष्टिः तस्य करम्भेन – वृष्टिमिश्रितेन जठरम्भरयः उदरपूरकाः (फलेग्रहिरात्मम्भरिश्च (३.२.२६) फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते। फलशब्दस्य उपपदस्य एकारान्तत्वम् इन्प्रत्ययश्च ग्रहेर् निपात्यते। फलानि गृह्णातीति फलेग्रहिर् वृक्षः। आत्मशब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्तसमुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः। इति इन्प्रत्ययः) चातकाः – तन्नामकाः शकुन्ताः – पक्षिणः (शकुन्तशकुनद्विजाः इित्यमरः ) अद्य -प्रावृषि रमन्ते मोदन्ते ।