
सकलसुगुणधाम्नः साकेतपूरीधाम्नः श्रीरामनाम्नः दिव्यनाम जयश्रीराम जयश्रीराम इति जेगीयत्कोटिकोटिभक्तवृन्दैरद्यावधि स्रवन्नयनसुनिरीक्षितवेलासम्प्राप्ता इति कस्येदानीं चेतः नानन्दतुन्दिला ।
ममापि च मानसे रामोत्सवानन्दजनितवेगः कश्चन मां मुखरयति अनवद्यपद्यगुम्फनाय । यथा हि –
नृत्यत्यद्यवसुन्धरा तनुरुहप्रोत्फुल्लरोमाञ्चिता
खेलत्तुङ्गविहङ्गमेन्दुवदनस्वच्छन्दमन्दस्मिता ।
कूजत्कोकिलकम्रकण्ठकवनस्वानन्दसंपूरिता ।
श्रीसाकेतपुरीपरापरिलसद्रामालयाडम्बरा ।।
जय श्रीराम जय श्रीराम जय जय श्रीराम!!!