
मोमुद्यते मे स्वान्तं यदद्य आत्माश्रमगुरुकुले श्रावणपौर्णिमाचन्द्रकिरणपरिशोभिते विश्वसंस्कृतदिवसे प्रतिदिनं प्रवर्त्यमानायाः संस्कृतदीपिकायाः छात्रैः सह कार्यक्रमः अन्तर्जालद्वारा प्रचलितः इति । अस्मिन् नैके छात्राः भागमवहन् । पञ्चवादने अनन्त-श्रीराम-लक्ष्मीनारायणानां मधुर-वेदवाण्या अयमुत्सवः प्रारब्धः । अनन्तरं भगवत्पादैः मध्वाचार्यैः विरचितस्य महाभारततात्पर्य-निर्णयस्य रामवर्णस्तोत्ररूपं गीतं शुभाङ्गान्तरात्मानौ अगायेताम् । ततः शुभाङ्गः सुभाषितमुवाच । अन्तरात्मा काव्यवाचनं,आत्माश्रमस्य परिचयं चाकरोत् । ततः संस्कृतदीपिकामाध्यमेन पञ्चसु दिवसेष्वेव आचार्याणां राचूरि-आचार्याणां मार्गदर्शनेन शिक्षितसंस्कृताः आबालवृद्धाः स्वीयं लघुभाषणमभाषन्त । केचन स्वपरिचयं,पाणिनिमहिमानं,सुभाषितानि च ऊचुः । ततः अनन्तः – संस्कृतस्य महिमा इति विषये अभाषत । शुभाङ्गः – संस्कृतवैशिष्ट्यमिति विषये, लक्ष्मीनारायणः – संस्कृतसुरभिः इति विषये, श्रीरामः – वैज्ञानिकं संस्कृतमिति विषये, मधुकृष्णः – सुभाषितविषये अभाषन्त । श्रीमान् चन्द्रशेखरः नवीनशैल्या तमिलभाषापद्यं संस्कृतभाषायां सुष्ठु न्यरूरुपत् । ततः श्रीमती.परिमलामहोदया संस्कृतपरिमलमधिकृत्य प्रास्तौत् । अत्र आचार्यपादाः आत्माश्रमगुरुकुलविद्यार्थिभ्यः संस्कृतगरिम्णः विषये ”मेरुमूर्ध” इति पदसहितम् आशुकवितारचनार्थं प्राचोदयन् । ते सर्वे छात्राः निमेषपञ्चके स्वीयान् श्लोकानुपनिबबन्धुः (राचूरि अन्तरात्मना लिखिताः श्लोकाः उपरि चित्रे सन्ति) । ततः ते सर्वेभ्यः स्वीयान् श्लोकान् श्रावयामासुः । अथ आचार्यपादाः स्वीयं श्लोकद्वयप्रस्तुतिं चक्रुः । इति गुरुकुलविद्यार्थिनां सहकारेण आचार्यमार्गदर्शनेन जनानां प्रोत्साहेन च कार्यक्रमः साफल्यं प्राप्नोत् । अयं कार्यक्रमः गीर्वाणवाण्याः सरस्वत्याः माला इव बभूव । अपि च अस्मिन् पुण्यदिवसे अस्य गीर्वाणतरङ्गिणी-अन्तर्जालपुटस्य वार्षिकोत्सवः आचरितः । अयं पुटः (Post) अन्तर्जालपुटस्य पञ्चाशत्तमः रारष्टि । – अन्तरात्मा
