
सर्वेपि अद्य कोविद्-२०१९ इत्यस्मात् वैराणोः संत्रस्ताः । सकलमपि विश्वं भयभ्रान्तमकरोत् अयं वैराणुः । न कोपि देशः अद्यत्वे अवशिष्टः यः अनेन वैराणुना अपरिमृष्टः । अतिसुलभतया अन्यसङ्क्रामकत्वमेव एतस्य बलम् । केवलं सम्पर्कमात्रेण एकस्मात् पुरुषात् अन्यपुरुषं संक्रम्य तमपि कोविदं (कोविद्-ग्रस्तं) करोत्येष वैराणुः । यद्येवं सर्वेपि अनया भङ्ग्या कोविदः भवेयुः तर्हि नारायणावतारस्य भगवतो व्यासस्य किं कृत्यं अवशिष्यते । मन्दजनान् उद्धिधीर्षुः खलु भगवान् ब्रह्मरुद्रेन्द्रादिभिरर्थितो व्यासत्वेनावततार । सकलकलिमलविनाशनाय तेन च महाभारतादिग्रन्थजातं अकारि । अतः स्वकृतशास्त्रस्य अवैय्यर्थ्याय सः प्रार्थ्यतेस्माभिः । हे नारायणो व्यासः भवदनुग्रहेण सर्वोप्यत्र जनः कोविदाख्यवैराणुना ग्रस्तो मा भूत् । किन्तु भवत्प्रणीतग्रन्थपठनादिना भवद्भक्तिं सम्पाद्य वस्तुतः कोविदाः भवेयुः । एवमाकलयति मे चेतः अधस्तनपद्यव्याजेन –
मन्दीभूतात्मबोधामददमनपटुर्वेदनाथोSभिसर्प्य
दैवैर्ब्रह्मादिमुख्यैः सकरुणमसकृत्प्रार्थितः कोविदान् स्वान् ।
कर्तुं व्यासाात्मना यद् व्यदधदधिकसंवित्प्रदं ग्रन्थजातम्
किं भोस्तेनाद्य कोविद् कलयति सकलं स्पर्शतः कोविदं चेत् ।।