श्रीजयतीर्थगुरुभ्यो नमः

पुरासीत् ऋषिवरोऽभीष्टसम्पूरघनाघनो अष्टापदत्विण्मिषप्रकाशितास्यो नष्टमनीषोद्धृतिपराशरात्मजाभक्तानुश्रवसंरतोत्कृष्टधराधरेन्द्राधृतव्रततिततिप्रतिमसटाघटोधृष्टानेकमानिनीनेता सम्मृष्टसत्तत्वो मुनिः कश्यपो नाम । सत्सोर्वीषु योषासु पतिगतिमतिरदितिर्नष्टात्मतनयविभवानुनययुगमलपदयुगनया सा पतिमाह । यथा पठन्ति भागवताः –
ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।
तथा विधेहि कल्याणं धिया कल्याणकृत्तम ।। इति
तदोवाच कश्यपः भद्रे भद्रं काद्रवेयभोगाभोगिनं मुदा उपतिष्ठस्वेति । शिशिरे हि शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते पयोव्रताभिधं लोकेशगीतं लोकेशेशप्रतोषमिदमाचरेति । सा तदामलमानसा विमलमलयजवासितसुमनोमञ्जरीभिर्भद्रश्रीभिर्बिससन्निभमसृणपयोपृषद्भिरातोष्य कमलामहिलालिङ्गितवक्षसमक्षोभ्यं, अतार्प्सीद्ब्रहविदो ब्राह्मणान् । इत्थमियमहरहरमहेतिमन्ति द्वादशाहानि व्यत्यैत् । कालतश्चाविर्भूय कालातीतो भगवान्, अदितिकतिपयमहावाग्भिरभिष्टुतोम्भोजसम्भवेन च, डिम्भकृतिं मा मामनुष्वेह, वृन्दारकवृन्दमादुहे भूतिवारमित्यभाणीत् । विजयायाममलसंहननो वामनोभवत् । तदाह बादरायणः –
द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।
विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ।।
स वामनरूपी, वामनः सन्मनसाममराणां उपनीतो धृतरथाङ्गाद्यङ्को जयन्नवनीलाजिनावृतः कमण्डल्वमलिनो धृताक्षमालो नृनक्षाण्याजहार । स वेदिमायाय बलिनो बलिन आहृतोपशतक्रतोः,ततां, जितातिक्रमनृपमहतो, महीयानमहीयांसं त्रिपदं वरमाययाचे । महानुभावो बली कलितमहाविभूतिस्तं तृणायामनुत । याचितोनवरतं, अजस्रं याचयन्तं तं माणवकं वामनं मनस्तोषायानादृतहृदददात्त्रिपदं वरम् । अनुनयी बली, अनुपदमाक्रान्ताखिललोकमधस्तादुपरिष्ठाच्च, सानुयोगं तृतीयपदनिधाने, विज्ञातानुभावो भगवतो महतः, मां पदमवारुन्धीति सप्रश्रयमाशश्रौ । तदुक्तं भागवते पदं तृतीयं कुरु शीर्ष्णि मे निजम् इति । ततश्च प्रभूतावबोधं तं त्रिविक्रम आह – विभूतिनाशो हि सतामनुग्रहः । अतश्च त्वमधितिष्ठ सुतऴं यावतो हि सावर्ण्यागमः । एवं त्रिविक्रमस्तं पदं विभवा आहृत्यान्वग्राहीत् ।।
वामनो वामनास्मत्सन्मानसं तामसं हरन् ।
भूयात्त्रिविक्रमः श्रीमत्त्रयीविख्यातविक्रमः ।।
श्रीकृष्णार्पणमस्तु
टिपण्णी
अष्टापदत्विण्मिषप्रकाशितास्यो – अष्टापदमष्टसु लोहेषु पदं स्थानमस्येत्यष्टापदं सुवर्णम् जाम्बूनदमष्टापदोस्त्रियाम् इत्यमरः तन्मिषेण व्याजेन मिषं व्याजे स्पर्धने नेति मेदिनी इगुपधेति कः तेन प्रकाशितमास्यं वक्त्रं वक्त्रास्ये वदनं तुण्डमित्यमरः यस्यासौ तथोक्तः कश्यपः ।
अनुश्रवः – गुरुमुखादनु श्रूयते इत्यनुश्रवो वेदः ऋदोरबित्यप्
व्रततिः – वल्ली तु व्रततिर्लता इति च
सटा – व्रतिनस्तु सटा जटेत्यमरः
अधृष्टा – शालीना अप्रगल्भा लज्जमानेति भावः
नेता – नेता परिवृढः प्रभुरिति च
पतिगतिमतिः- पतिरेव गतिरिति मतिर्मनीषा धीः प्रज्ञा शेमुषी मतिरित्यमरः यस्यासावदितिः
अनुनययुगमलपदयुगनया – अनुनयो नम्रता तया युनक्तीति युक् सत्सू इत्यादिना क्विप् सा च अमलं पदयुगं यस्य सः हरिस्तस्मिन् नयो नम्रता यस्याः सा तथोक्ता ।
काद्रवेयभोगाभोगिनम् – काद्रवेयः शेषाभिधो नागः काद्रवेयास्तधीश्वर इति च तस्मिन् भोगस्य आभोगः परिपूर्णता आभोगः परिपूर्णता इति च तादृशस्तथोक्तस्तं हरिम्
शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते – अत्यन्तं शीतलः शीतलतमः आतिशायने तमप् इत्यादिना तमप् तादृशो यो मधुरकिरणश्चन्द्रः किरणोस्त्रमयूखांशुरित्यमरः तेन स्यन्दितो यः शीकरः अम्बुकणः शीकरोम्बुकणःस्मृत इति च तच्च तदानन्दी च आमोदी तेन नन्दितो यः कुन्दकदम्बः कुन्दपुष्पनिकरः निकुरम्बं कदम्बकमित्यमरः तस्य य आमोदः सुखवासनं आमोदः सोतिनिर्हारीति च तेन नन्दिते शोभिते शिशिर इत्यन्वयः । अदिते इति सम्बुद्धिः ।
उपतिष्ठस्व – उप पूर्वात् तिष्ठतेः लोट् उपान्मन्त्रकरणे इत्यात्मनेपदम् । मन्त्रकरणम् स्तवः
लोकेशगीतम् – लोकेशो ब्रह्मा हिरण्यगर्भो लोकेश इति च तेन गीतमभिहितम् ।
लोकेशेशप्रतोषकम् – लोकेशेशो हरिः तत्प्रतोषकमानन्ददायि व्रतम् ।
मलयजः – गन्धसारो मलयजः इति च
मञ्जरी – वल्लरी मञ्जरीति च (ಹೂವಿನ ತೆನೆ) इति भाषायाम् ।
भद्रश्रीभिः – चन्दनेन भद्रश्रीश्चन्दनोस्त्रियाम् इति च ।
बिससन्निभमसृणपयोपृषद्भिः – विसं नलिनादुद्धृतं बिसं मृणालं बिसमब्जादिकदम्बे इति च तस्य तेन वा सन्निभानि तुल्यानि तुल्यार्थैः इत्यादिना विकल्पितत्वात् । यानि मसृणपयसां मृदुलपयसां पृषन्ति बिन्दूनि पृषन्ति बिन्दुपृषताः इति च ताभिः पयोबिन्दुभिरित्यर्थः
अतार्प्सीत् – तृप प्राणने इत्यतो लुङि पुषादिद्युताद्लृदितः परस्मैपदेषु इति च्लेरङादेशः
ईतयः – उपद्रवाः
व्यत्यैत् – वि पूर्वात् इण् गतौ इत्यतो लङ्
डिम्भाकृतिं मा मनुष्वेह – डिम्भः अर्भकः पोतःपाकोर्भको डिम्भ इति च तदाकृतिं मा मां इहेदानीं मुनुष्व जनीहि मनुतेर्लोट्
वृन्दारकवृन्दमादुहे भूतिवारम् – देवनिकरं विभवसमूहतो वारसङ्घातसञ्चया इत्यमरः आनन्दयामि दुह्याजित्यादिना द्विकर्मकत्वम्
संहननः – कायः
द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।
विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः
तदर्थश्च यस्मिन्नहनि हरेर्जन्म अभवत् तदा सविता मध्यन्दिनगतो बभूव सा विजयेति कथ्यते ।
वामनः- वामं वल्गु भद्रं नयतीति वामनः यथाह भगवत्पादो मध्वः वामन वामन भामन वन्दे इति तत्र च विश्वपतितीर्थीया वामं कल्याणमकल्याणं च सतामसताञ्च यथायोग्यं नयतीति तस्य सम्बुद्धिः । वामौ वल्गुप्रतीपौ द्वावित्यभिधानात् । न च वामन इत्यत एव तदर्थसिद्धेस्सन्मनसामिति व्यर्थमिति वाच्यम् । स च वैशिष्ट्यद्योतनार्थः यथा ब्राह्मणा आगता वसिष्ठोप्यागत इतिवत् । देवार्थमेव चास्य रूपस्य गृहीतत्वात् ।
धृतरथाङ्गाद्यङ्को – रथाङ्गं चक्रं चक्रं रथाङ्गं तस्यान्ते इति च माणवकः मुद्राधारीत्यर्थः
जयन्नवनीलाजिनावृतः – जयदुत्कर्षमापद्यन्नवनीलाजिनं तेनावृतः परिवृतः । अजिनस्य नीलत्वं च ऐणेयम्
कमण्डल्वमलिनो – शुभ्रकरकः । कमण्डलौ च करकः इति च तेनामलिनः शुभ्रः
नृनक्षाण्याजहार – दुह्याजिति द्विकर्मकत्वम्
बलिनो बलिनः – पराक्रमवतो बलीन्द्रस्य सैन्यवतो वा वरूथिनी बलं सैन्येमित्यमरः ।शक्तिः पराक्रमः प्राणाविति च
आहृतोपशतक्रतोः,ततां, – आहृताः इष्टाः उपशतं क्रतवः येनासौ वली । शतोनक्रतुकर्ता इति भावः । ततामिति वेदिविशेषणम्
जितातिक्रमनृपमहतो – जिताः अतिक्रमेण नृपाः येन बलिना स चासौ महान् च तस्य बलिन इत्यनेनान्वयः
महीयानमहीयांसं त्रिपदं वरमाययाचे – महीयानिति स इत्यतोन्वयः तादृशो वामनः अमहीयांसं स्वतः परतश्च, द्विवचन इत्यादिना ईयसुन् तादृशं त्रिपदाभिधं वरं आययाचे याचितवान् दुह्याजिति द्विकर्मकता
तृणायामनुत – तं वरं तृणाय मेने अनादरत्वेनाचिन्तयत् । मन्यकर्मण्यनादरे विभाषाप्राणिषु इति वैकल्पिकचतुर्थी । विकल्पाभावे द्वितीया यथा तृणममनुत
अनवरतं – मुहुः
अजस्रम् – पुनः पुनः । न च पुनरुक्तितादोषः । तत्रान्वयस्तु अनवरतं याचितो बली अजस्त्रं याचयन्तमददादिति
सानुयोगम् – सप्रश्नं प्रशनोनुयोगः पृच्छा च इति च
मां पदमवारुन्धीति – पदा मां आवृणु । दुह्याजित्यादिना द्विकर्मकत्वम्
आशश्रौ – आङः श्रा पाके इत्यतो लिटि रूपम् । ननु पाकार्थकस्य कथमिह प्रयोग इति चेत्तदुक्तं तत्वोधिन्यां श्रै धातोरनेकार्थतया पाके वृत्तस्य मित्वार्थेत्रानुवादः । इति (धातुरूपनन्दिनी पु.स.152,धा.स.810) । अनेकर्थत्वात् श्रा धातुरत्र विनम्रतायामुक्तः
अवबोधः – ज्ञानम्
सुतऴमधितिष्ठ – अधि शीङ्स्थीसामिति सुतऴशब्दस्य कर्मता
सावर्ण्यागमः – तन्नामयुगागमनपर्यन्तम्
तं पदं विभवा आहृत्यान्वग्राहीत् – तं बलिनं भूतिमाहृत्य अन्वग्राहीत् अनुपूर्वात् ग्रहेर्लुङ् । दुह्याजित्यादिना द्विकर्मकता ।
श्लोकार्थश्च – वामनः अस्मद्वामनं यत्सन्मनः खर्वो हृस्वश्च वामनः इति च तस्य तामसं मलिनं हरन् दुह्याजित्यादिना द्विकर्मकत्वं । श्रीमत्त्रयीविख्यातविक्रमः श्रीमान् चासौ वेदविख्यातविक्रमः तिसृभिरवस्थाभिः सृष्टिस्थितसंहाररूपाभिः विख्यातविक्रमो वा तादृशः त्रिविक्रमो भूयात् ।।
श्रीकृष्णाेर्पणमस्तु