
निश्चप्रचं यत् सुमधुरसरसभरितगीर्वाणवाण्यां संस्कृतभाषायां नानाविधविकटकाव्यानि राराज्यन्ते इति। तानि काव्यानि जनमनोविकासाय विद्यन्ते। तेषां काव्यानां समुद्रायमानेषु साहित्यक्षेत्रेषु काव्यानि रत्नायमानानि भवन्ति। यदि एतानि काव्यानि रत्नायमानानि तदा तेषां कर्तारः रत्नप्रकाशा इव दरीदृश्यन्ते । तेषां कवीनां पाण्डित्यपदलालित्ये तेषु काव्येषु प्रतिसर्गं प्रतिपादं दोदुह्येते१ च प्रकटीकुरुतः। एतानि काव्यानि मिथः संस्पर्धन्त एव भान्ति । कवीनां शिखिस्वरैः२ रसिकानां मनांसि आकर्ष्यन्ते। अधुना अहं कविकुलमुष्टिंधमस्य३ कविचूडामणेः महाकविमाघस्य विषये निरूपयितुमुत्सहे।।
एषः माघः गुजराते श्रीमालानगरे अजनि। अस्य पिता दत्तक इति ।अस्य पितामहः सुप्रभवदेवः कस्मिंश्चित् राज्ये धर्मसचिवः आसीत्। बाल्यादेव माघस्य विद्या सर्वदा रसनाग्रनर्तकी आसीत्। अस्य माघस्य मेर्वाकृतिः ग्रन्थो नाम शिशुपालवधम् इति । अस्मिन् काव्ये कवेः प्रतिभाशब्दज्ञानकवित्वानि स्फुटं विज्ञायन्ते। अस्मात् कारणात् राजशेखरः वदति- माघेनेव च माघेन कस्य कम्पो न जायते। माघकाव्याख्ये सूर्ये उदयति सति अन्येषां कवीनां प्रकाशः मन्दो बभूव इति।अस्मिन् चातुर्यैकाकृतिपाण्डित्यगर्भितग्रन्थे शिशुपालवधे विंशतिसर्गाः सन्ति । १६५० श्लोकाः विद्यन्ते। इदं काव्यं बृहत्त्रय्यां४ अन्तर्भवति।अस्य काव्यस्य नायकः भगवान् श्रीकृष्णः । प्रतिनायकः शिशुपालः भवति।अस्याः कथायाः आधारग्रन्थौ भागवतमहाभारते विद्येते । एकः कविः वदति मुरारिपदचिन्ता चेत्तदा माघे रतिं कुरु। मुरारिपदचिन्ता चेत्तदा माsघे(पापे) रतिं कुरु।। उद्भटः भणति- उपमा कालिदासस्य भारवेः अर्थगौरवं दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।। सद्यःमाघे सन्ति त्रयो गुणाः इत्यस्मिन् विषये पश्यामः।।
प्रथमं तु माघस्य उपमाकौशलं सदृष्टांतं पश्यामः।
दधानमम्बोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम् ।
निपाकपिङ्गास्तुहिनस्थलीरुहो धराधरारेन्द्रं व्रततीततीरिव ।।
असमिन् श्लोके कविः उपकृष्णं आगतं नारदमुनिं सिंहसंहननं ५ उत्तमरीत्या वर्णयति । अत्र यथा सतुषारः हिमालयः सूर्यकान्तिपिङ्गलं लतासमूहं भृत्वा यथा इन्धते तथा हिमालयतुल्यः नारदः सूर्यकान्तिपिङ्गलेव तत्प्ताः६ शुशुभे इति चारुणा कलयति ।
इदानीं माघस्य अर्थगौरवविषये तनोमि –
अपशङ्कमङ्कपरिवर्तनोचिताश्र्चताः पुरः पतिमुपैतुमात्मजाः।
अनुरोदतीव करुणेन पत्त्रिणां विरुतेन वत्सलतयैष निम्नगाः ।।4.46।।
अत्र कविः प्रकृतिसौन्दर्यं चातुर्येण कथं अयावीत्७ इति ज्ञातुं शक्यते । अमुत्र कविः रैवतपर्वतं परितः नद्याः तत्रस्थपतत्रिणां वर्णनं इत्थं कुरुते- यथा आत्मजा कन्या पितरं त्यक्तवा पतिं प्राप्नोति तदा पिता वात्सल्येन रोदिति तथैव तात इव रैवतपर्वतः तस्मात् उत्पन्नाः पुत्रीयन्ते नद्याः पत्यमाने समद्रे प्रापणसमये वात्सल्येन पूरितः रैवतः पक्षिकूजनात् अनुरोदितीव मन्यामहे। इति सम्यग् वर्णयति कविः।।
नूनं कवेः पदलालित्यविषये अवलोकयामः-
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिः (न)समुन्नमद्भिः।
वनं बबाधे विषपावकोत्था विपन्नगानां (अ)विपन्नगानाम्।।4.15।।
पुनः रैवतपर्वतं वर्णयति विरोधाभासालङ्कारेण८ कविः।
रैवतपर्वतस्य उपरिस्थमेघावलयेन पतिताः वर्षाः वृक्षालिङ्गितात् सर्पविषाग्नेः नगं रक्षयन्ति। समुन्नमद्भिः नसमुन्नमद्भिः तथा विपन्नगानां अविपन्नगानाम् द्वयोः स्थलयोः विरोधः भासते तदर्थं अयं विरोधाभासालङ्कारः इत्युच्यते।। अत्र कवेः ललितं पदलालित्यं ज्ञायते।।
आभिः रीतीभिः माघस्य त्रैगुणकौशलस्य विषये न कापि विचिकित्सालेशः इति मन्ये। नवसर्गगते माघे नव शब्दो न विद्यते। इत्युक्तदिशा माघकाव्यपठनेन नूतनशब्दाः अज्ञाताः न विद्यन्ते इति। तादृश परिवृढपाण्डित्यभरितं ग्रन्थं सर्वैः अपि अवलोकनीयतरं अस्ति। अधुना सुलभबोधाय मल्लिनाथप्रणीता सर्वङ्कशा व्याख्योपेतं मणिप्रभा इति व्याख्योपेतं च शोभते।।
।श्रीकृष्णार्पणमस्तु।
टिप्पणीः-
- दोदुह्येत= दिह उपचये इत्यस्मात् धातोः यङ्लुङ्गन्तं रूपम्।।
- शिखिस्वरैः= शिखी= मयूरः। शिखिनः स्वराः इव स्वराः शिखिस्वराः। तैः शिखिस्वरैः।।मधुरस्वरैः इति ज्ञेयम्।।
- कविकुलमुष्टिंधमस्य= मुष्टिना धमति इति मुष्टिंधमः। नाडीमुष्ट्योश्च इति सूत्रेण नाडी मुष्टि इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति। तिरस्करोति इत्यर्थः।।
- बृहत्त्रय्यां= नैषधीयचरितम् , शिशुपालवधम् , किरातार्जुनीयम् ।।
- सिंहसंहननं= वराङ्गरूपोपेतो यः सिंहसंहननो हि सः इत्यमरः।।
- तत्प्ताः= तस्य प्ताः (जटा) तत्प्ताःऋषीणां प्ता जटा सटा इति हलः
- अयावीत्= यु मिश्रणे लुङ् ।।
- विरोधाभासालङ्कारः= आभसत्वे विरोधस्य विरोधाभास इष्यते ।विनापि तन्वि हारेण वक्षोजौ तव हारिणौ । इति कुवलयानन्दे ।