अथारभत वचनं पुनरर्जुनः ।
यदा पिण्डीकृतकुरुसैन्यतृणः स्वयमनलप्रभः धृष्टद्युम्नः मोडते कुरुसैन्यं तदा स मूढः सन्तप्ता । अपि च
कुणपमयमसृणशोणितपङ्कसंस्यन्दमानस्यन्दने विभ्राजमानस्य मम शरवरवेगमूर्छितशान्तनवस्य शरौघैर्विद्धकवचधनुः स्मर्ता हितवचनं पाण्डवानाम् ।
यच्चक्रविक्रमजितो मगधाधिपश्च सानल्पपुष्टपृतनासहितो मुहुश्च ।
यस्योरुबाहुमथनेन जिताः सुरेन्द्रास्तं केशवं स हि जिघांसति धार्तराष्ट्रः ।।१।।
पूर्वं सुरासुरमृधे सुरवैरिमायाजालावृते समयनेमिमममीमरद्यः ।
तद्विक्रमार्धमपि यस्य न बभूव सोऽयं जेता किमु प्रणतदेवमममोघवीर्यम् ।।२।।
साम्प्रतं स्ववीर्यं विशिनष्टि
सुरैरजेयाः सहशस्त्रसङ्घाः निवातनाम्ना कवचाश्च वीराः ।
यद्विक्रमेणाल्पतमेन पन्नाः तस्येषुसङ्घं प्रतिरोत्स्यते किम् ? ।।।।
चचार घोरं तप आशु रौद्रं हिमाद्रिसानौ प्रपदाङ्गुलिस्थः ।
येनैव तुष्टः प्रददौ महास्त्रं रुद्रः स किं तेन नियद्ध्यतेऽत्र ।।
कुलिषकरवरासने निषण्णः कुलिषसपाशुपतास्त्रशस्त्रवेत्ता ।
यदि रणशिखरे विजृम्भति त्वद्विजयरमां स हि मोषिता किरीटी ।।
विचारमूढः प्रतिभासि मे त्वं यन्मात्स्ययुद्धे सबलान् करुत्रान् ।
एको जिगायाद्य ससैन्यरथ्यमहारथं जेतुमिह प्रवृत्तः ।।
(स्वकीयाः श्लोकाः)
अनुवर्तते……….