श्रीजयतीर्थगुरुभ्यो नमः
सत्यपि सुविस्तृते अलङ्कारसाहित्ये सुमहत्यामपि इतिहासप्रणयनपरम्परायां अलङ्कारशास्त्रस्येतिहासस्य नितरामभावो वर्तते । इदानीन्तने युगे प्रायशः समग्रग्रन्थानां पठनपाठनम् न प्रचलति । अध्येतारोsपि तादृशीं विषयोन्मेषशक्तिं तथा नैवाधिगच्छन्ति । यथा पुरा पठनपाठनपरिपाटी पटीयसी सती सुकुमारशेमुषीकान् तर्कोपकरणैः सनाथी कुरुते स्म । यद्यपि बहोः कालात् अलङ्कारशास्त्रेतिहासः सर्वेभ्यः आवश्यकः । संस्कृतभाषायाः काव्यशास्त्रीयग्रन्थेषु यद्गभीरत्वं यद्भिन्नार्थकत्वं यद्प्रकृष्टत्वं यत् सूक्ष्मत्वं यच्च कामधुक्त्वं विद्योतते न तत् कस्याः अपि भाषायाः आलङ्कारिकग्रन्थेषु सन्निहितं अस्ति ।
भाषायां व्युत्पत्तिविवर्धनाय यथा व्याकरणशास्त्रं आवश्यकं तथैव काव्ये नैपुण्याय अलङ्कारशास्त्रं आवश्यकम् । अलङ्कारशास्त्रं विना काव्ये नैपुण्यमेव न सम्पद्यते अपि तु वाक्यदोषदृष्टिरपि नोत्पद्यते ।अत एव अलङ्कारशास्त्रं अध्येतव्यम् ।
भारते अलङ्कारशास्त्रोत्पत्तिः कदाभवत् ? किमुपादानं गृहीत्वा अलङ्कारशास्त्रस्य उदयो जातः इति प्रश्नः समुदेति । प्रश्नोयं जटिलः । अनेकैर्विद्वद्भिरस्य मीमासा कृता । शास्त्रमिदं स्वजन्मसमयादेव नितरां लोकप्रियतां गतम् । तस्मादेतत् काव्यालङ्कारकाव्यशास्त्रसाहित्यशास्त्रादिकतिपयभिन्नभिन्ननामभिः ससम्मानं समाहूतमभूत् । तत्र अलङ्कारशास्त्रम्, काव्यशास्त्रम्, साहित्यशास्त्रम्, सौन्दर्यशास्त्रम्, क्रियाकल्पः इत्यादीनि नामानि भवन्ति ।
तत्रादौ अलङ्कारशास्त्रम्
आधुनिकेषु सर्वप्रथमो अलङ्कारशास्त्रग्रन्थः भामहप्रणीतः काव्यालङ्कार एव इति कृत्वा अस्य शास्त्रस्य नाम अलङ्कारशास्त्रम् इति प्रसिद्धम् ।।
१) अलङ्कारलक्षणम्
तत्र अलङ्कारशास्त्रे पञ्चरीत्या लक्षणानि उक्तानि विद्वद्भिः । तत्र-
वामनः – सौन्दर्यमलङ्कारः तथा अलङ्कृतिरलङ्कारः
दण्डी – काव्यशोभाकरानलङ्कारान् प्रचक्षते ।
मम्मट – उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुवित् । हारादिवदलङ्कारास्तेनृप्राःसोपमादयः ।।
रुप्यः – अभिधाप्रकारविशेषा एवालङ्काराः
विश्वनाथः – शब्दार्थयोरस्थिरा ये धर्मा शोभातिशायिनः । रसादीनुपकुर्वन्तोलङ्कारस्तोङ्गदादिवत् ।।
२) अलङ्कारस्य रूपनिष्पत्तिः
अलङ्कारशब्दः उभयार्थे प्रयुज्यते । भावार्थे करणार्थे च ।
भावार्थे तु – अलम् + कृ + क्तिन् = अलङ्कृतिः सैव अलङ्कारः इत्युच्यते ।
करणार्थे तु – अलम्+ कृ+ घञ् = अलंक्रियते अनेन इति अलङ्कारः ।
३) अलङ्कारशास्त्रप्रवर्तकाः –
१) भरतः – नाट्यशास्त्रम्
२) व्यासः – विष्णुधर्मोत्तरपुराणम्
३) भट्टिः – भट्टिकाव्यम्
४) भामहः – काव्यालङ्कारः(१)
५) दण्डी – काव्यादर्शः
६) उद्भटः – काव्यालङ्कारसारसङ्ग्रहः
७) वामनः – काव्यालङ्कारसूत्रम्
८) रुद्रटः – काव्यालङ्कारः(२)
९) व्यासः – अग्निपुराणम्
१०) भोजः – सरस्वतीकण्ठाभरणम्
११) मम्मटः – काव्यप्रकाशः
१२) रुप्यकः – अलङ्कारसर्वस्वम्
१३) शोभाकरमित्रम् – अलङ्काररत्नाकरः
१४) अमृतानन्दयोगी – अलङ्कारसंग्रहः
१५) जयदेवः – चन्द्रालोकः – इत्यादयः सन्ति विद्वांसः ।।
।।श्रीकृष्णार्पणमस्तु ।।
अनुवर्तते…………….