ध्रुवः

श्रीजयतीर्थगुरुभ्यो नमः

अस्ति पुरा सकललोकस्तूयमानो हरिकलो महामहिमो चलत्कुण्डलमण्डितजनमण्डलमहितो लसत्किरीटी शुभलक्षणो हरिपदसेवकोत्तानपादो नाम । अस्यास्तां उभे जाये सुरुचिः सुनीतिश्चेति । सुरुच्यामासीत् उत्तमो नाम ध्रृवो सुनीत्यां च ।एकदा सुरुचेः पुत्रं उत्तमं राजा अङ्कमारोप्य लालयन् अङ्कमारुरुक्षन्तं ध्रृवं राजा नाभ्यनन्दत एवं चिकीर्षितं तं ध्रृवं सुरुचिः सासूयं अतिगर्विता सती उवाच हे वत्स नृपतेः धिष्ण्यं भवान् आरोढुः नार्हति । यतस्त्वं मम कुक्षौ न जातः । अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः इति महान्तः भणन्ति । हरिं तपसाराध्य सिंहासनोपवेशनयोग्ये मदीयोदरे जायस्वेति वरसंवृतो आर इति । धृवः समातुः सुरुच्याः वाक्यं श्रुत्वा दुरुक्तिविद्धः सन् रुषा श्वसन् अवाचं पितरं हित्वा मातुरालयं जगाम । तत्र मात्रा हे पुत्र, परेषु अमङ्गलं माचिन्तय इत्यादिवचनैः सः प्रसादितः । ततः मात्रा यत् दर्भगायाः मयि जातस्त्वं यदीच्छस्युत्तमासनं आराध्यायाहि देवम् । हे अङ्ग, ब्रह्मादिभिः ज्ञानभक्त्यादिवृद्ध्यर्थं प्रार्थ्यमानं हरिं त्वमपि स्तोत्रैः स्तुहि । ततः स बालः समातुः वचोबाणान् अमृष्यमाणः उत्तमपदप्राप्तये हरिं आराधयितुं पितुः पुरात् वनं निश्चक्राम । मार्गे नारदेन कुतो यासि इत्याद्यवचनैः पृष्टः सुरुच्याः दुर्वचोबाणैः खिन्ने मद्हृदये अधुनापि शमः नैव जायते । ततो नारदः अब्रवीत् – हे बाल, अस्ति अनतिदूरे मध्वाख्यं वनम् । तत्राविष्टः त्वं ध्याहि हरिम् ओं नमो भगवते वासुदेवायेति । । तथा आदिॆष्टो ध्रुवः मधुवनं गत्वा यथाह महर्षिः तथा चकार । त्रिरात्रान्ते त्रिरान्तान्ते कपित्थादिफलाशनः प्रथमं मासं यापयामास । द्वितीयं तु पर्णतृणाद्याशनः यमापयाञ्चक्रे । तार्तीयं मासं नवमे नवमे अहनि अब्भक्षः सन् यापयाम्बभूव । चतुर्ॆथं च मासं द्वादशे द्वादशे दिने वायुभक्षः बभूव । पञ्चमे मासे तु जितेन्द्रियः जितश्वासः अचलव् स्थितः तपः चकार । ततो देवा शरण्यं भगवन्तं शरणं प्रजग्मुः । अथ देवः भृत्यदिदृक्षया आजगाम । तत्र हृदि स्थितं भगवन्तं मनसा स्मरन् तस्य रूपस्यान्तर्धेन ददर्श बहिस्थं हृद्रूपसदृशं देवं । ततः कम्बुस्पर्शेन समधिगतसर्वविद्यः –

योन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्याश्र्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ।।

इत्यादिश्लोकैः पञ्चवर्षीयेन शिशुना निस्सृतंअत्यर्थ-गर्भितं वचनं अहो बत लक्ष्मीसान्निध्ययुक्कम्बु-माहात्म्यम् । अहो सुभाग्यं कष्टसाध्यं बालस्य पुण्यम् । भगवता प्राप्तस्थानवरः ध्रुवः नातिप्रीतः आजगाम पुरम्। तत्र पित्रा विजयोत्सवेन महितो बालः नातिचिरम् प्राप राज्यम् तथा समाप्तायुः जगाम स्वक्षितिं ध्रुवमण्डलम् ।।

श्रीकृष्णार्पणमस्तु

Published by अनन्तः

विद्यार्थी

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: