सञ्जयधार्तराष्ट्रम् – २

(सञ्जयधार्तराष्ट्रम् – 1 तः अनुवृत्तम् )

थाम्बिकेयः आकर्ण्य गिरं भगवतो वासुदेवस्य अप्राक्षीत् तत्क्षत्तारम् । हे सञ्जय – पृच्छामि त्वा, सम्पृच्छस्व चूर्णिताशेषाभिघातिनः लीलयोद्धृतदुर्जयाभेद्यदुर्धरगाण्डीवकार्मुकस्य किरीटिनो वाचम् ।

सञ्जयो गिरमारेभे – हे राजेन्द्र श्रृणोतु युवराजो दुर्योधनः यदाह युधिष्ठिरानुमतो सव्यसाची पुरतः केशवस्य । ”हे पार्थिवसूत कुरूणां मध्ये , तत्र संशृण्वतः वृथा प्रख्यापितपौरुषस्य सूतापसदस्य सदा मया सह युद्धाभिलाषिणो मन्दप्रज्ञस्य कर्णस्य अथ च कौरवपक्षपातिनां मध्ये सन्निषण्णं दुर्योधनं ब्रूयाः – न चेत् मुञ्चति युधिष्ठिरस्य राज्यं धार्तराष्ट्रः अनुपभुक्तं वृजिनं अत्ति । यस्य निग्रहः निगृहीतबकहिडम्बकिर्मीरजरासन्धकीकचकेन वृकोदरेण सह, अर्जुनयमभ्यां, वासुदेवस्य अपि च

यस्यायुधं भीमकिरीटिमुख्यैः संयुद्ध्यते प्रोद्यतविक्रमैश्च ।

सोऽयं सुभीमोरुगदागतासुः प्राप्नोत्यजर्यं कृमिरक्तपाद्यैः।।१।।

अर्थः – यस्य दुर्योधनस्य आयुधं प्रहरणम् (आयुधं तु प्रहरणम्) भीमकिरीटिमुख्यैः भीमार्जुनादिभिः सह प्रोद्यतविक्रमैश्च उद्यतविक्रमैः विविधदेशराजैश्च सह संयुद्ध्यते युद्धं करोति (समुपसर्गात् युध सम्प्रहारे इति लटात्मनेपदम्) सोऽयं तथाभूतः दुर्योधनः सुभीमोरुगदागतासुः भीमसेनस्य गदया गतप्राणः सन् कृमिरक्तपाद्यैः कीटैः रक्तं पिबद्भिः कृमिभिः सह अजर्यं सङ्गतं (अजर्यं सङ्गतम् (पा.सू ३.१.१०५) जीर्यतेः नञ्पूर्वात् सङ्गते सङ्गमने कर्तरि यत् प्रत्ययो निपात्यते। इति यत्प्रत्ययः । प्राप्नोतु आप्नोतु । प्रोपसर्गपूर्वक आप्लृ व्याप्तौ इति धातोः लोट् परस्मैपदम् ।।

यदा गदापाणिरसृक्पिपासुर्दुःशानस्याजिमुखे प्रयाति ।

यदा मदीयेशुविकर्तिताङ्गस्तदास्मदुक्तं स्मृतिमेति युद्धे ।।२।।

अर्थः – यदा यस्मिन् काले गदापाणिः गदाहस्तः दुःशासनस्य तन्नामकस्य कौरवस्य असृक् रक्तं रुधिरेऽसृक् इत्यमरः । पिपासुः पातुमिच्छुः सन् आजिमुखे रणाग्रे समिति-आजि-समिद्युधः इत्यमरः प्रयाति गच्छति प्रोपसर्गात् या प्रापणे इति धातोः लट्परस्मैपदम् । यदा यदा च मदीयेशुविकर्तिताङ्गः मदीयाः अर्जुनविमुक्ताः ये इषवः बाणाः पत्री रोप इषुर्द्वयोः इत्यमरः । तैः विकर्तितं छिन्नम् अङ्गं देहः यस्य दुर्योधनस्य सः । यदा मदीयबाणैः छिन्नगात्रः भवति तदा तस्मिन् काले अस्मदुक्तं अस्माभिः भणितं पाण्डवैः सह वैरं मास्तु इति वचनं स्मृतिं तस्य स्मृतिपटलम् एति आगच्छति ।।

यद्विद्युदाभजवभानुसुभानुहेतिः स्वीये करे सकलशस्त्रभृतां वरिष्ठः

प्राप्नोति शक्रकरहासिविभः समीपं तप्ताम्बिकेयतनयो निकटाप्तम्युत्युः ।।३।।

अर्थः – यद्विद्युदाभजवभानुसुभानुहेतिः यस्य भीमसेनस्य विद्युदाभः तटित्समः, तटित्सौदामिनी विद्युदित्यमरः । जवः वेगः यस्या अस्ति , तथा भानुना सूर्येण समः सदृशः भानुः कान्तिः भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियामित्यमरः । तादृशसूर्यप्रकाशसमप्रकाशः यस्या अस्ति हेतेः गदायाः, सा गदा यस्य स्वीये स्वकीये करे हस्ते वर्तते तादृशः सकलशस्त्रभृतां सर्वायुधधारिणां वरिष्ठः श्रेष्ठः शक्रकरहासिविभः शक्रस्य इन्द्रस्य करः कान्तिः तं प्रहसति यस्य विभा कान्तिः तादृशः श्रीभीमसेनः समीपं दुर्योधनपार्श्वं यदा प्राप्नोति आप्नोति तदा निकटाप्तमृत्युः पार्श्वागतमरणः अन्तो नाशो द्वयोर्मृत्युः इत्यमरः । आम्बिकेयतनयः अम्बिकाया अपत्यं पुमान् स्त्रीभ्यो ढक् (पा.सू ४.१.१२०) ‘तस्य अपत्यम्’ अस्मिन् अर्थे स्त्रीप्रत्ययान्तशब्दात् ढक्-प्रत्ययः विधीयते इति ढक्प्रत्ययः। तस्य धृतराष्ट्रस्य तनयः पुत्रः दुर्योधनः आत्मजस्तनयः सूनुः इत्यमरः । तप्ता सन्तापं प्राप्नोति । तप सन्तापे इति लुट् परस्मैपदम् ।।

यन्न्यायलब्धममरालयतुल्यराज्यमन्न्यायतः कितवखेलनतः परात्तम् ।

सोऽयं प्रतापहतदिग्दशपार्थिवश्च राजा क्रुधा जयति कौरवसैन्यमाशु ।।४।।

अर्थः – अमरालयतुल्यं स्वर्गतुल्यं राज्यं साम्राज्यं यन्न्यायलब्धम् यस्मै युधिष्ठिराय न्यायेन लब्धम् तत् राज्यम् अन्यायतः अन्यायतः कितवखेलनतः द्यूतक्रीडनेन धूर्तोऽक्षदेवी कितवः इत्यमरः । परात्तं परैः कुरुभिः आयत्तीकृतम् । सोऽयं तादृशः प्रतापहतदिग्दशपार्थिवश्च स्वतापेन हताः दशदिक्षु विद्यमानाः राजानः येन तादृशः राजा युधिष्ठिरः क्रुधा कोपेन कौरवसैन्यम् कुरुवाहिनीं आशु सम्यक् जयति अभिभवति ।।

मद्धस्तमुक्तदशमस्तकहारितुल्यतीक्ष्णासिविद्धनिजगात्रसुगोत्रपः सः ।

सालीढमात्तधनुषं रणमस्तके सः पश्येत् किरीटिनममुं सहकालपृष्ठः ।।५।।

अर्थः – मद्धस्तमुक्तदशमस्तकहारितुल्यतीक्ष्णासिविद्धनिजगात्रसुगोत्रपः मदीयहस्तेन चोदिता ये रावणान्तरामबाणसदृशाः निशिताः असयः बाणाः तैः विद्धं छिन्नं गात्राख्यपर्वतः यस्य वर्तते सः एवम्भूतः कर्णः सहकालपृष्ठः तन्नामकधनुर्धारी इष्वासोऽप्यथ कर्णस्य कालपृष्ठं प्रतिग्रहः इत्यमरः रणमस्तके समरमूर्धनि सालीढं तन्नामकभङ्गीस्थं स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् इत्यमरः । आत्तधनुषं उद्यतकार्मुकम् अमुं किरीटिनम् पार्थं पश्येत् आलोकयेत् मज्जयमालोकयेदित्यर्थः ।।

अरिजनारिरमानुषखेटकत्सरुसुखड्गसुमेखलिकायुतः ।

शकुनिमात्तमृतिं विदधाति यः सहसुरो तपति स्वजनम् बहु ।।६।।

येऽन्ये शिखण्डिरिपुखण्डिसुतस्वसेनाथाम्बुगामिजपार्थिवाश्च ।

निःशेषमास्य कुरुमण्डलराजसैन्यं संसेचयन्ति कुरुपं वरधर्मराजम् ।।७।।

अनुवर्तते……

(स्वकीयाः श्लोकाः)

Rating: 5 out of 5.

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: