।।श्रीः।।
श्रीजयतीर्थगुरुभ्यो नमः
श्रीगणेशाय नमः

- प्रमाणपद्धतिः
विदितमेव समस्तानां माध्वानां यत् प्रमाणपद्धतिः वेदान्तशास्त्रे सोपानोपमेति । अस्य कर्तारः श्रीजयतीर्थगुरुपादाः । अयं ग्रन्थः वेदान्तशास्त्राध्येतृणां महत उपकाराय वर्वर्ति । प्रमाणम् इत्यस्य यथार्थमित्यर्थः । अर्थशब्दस्य अर्यते ज्ञायते इति व्युत्पत्त्या ज्ञेयः इत्यर्थः । ऋ-गतौ इत्यस्मात् धातोः कर्मणि उषिकुषिगार्तिभ्यः स्थन् (उणादि 2.4) इति स्थन् प्रत्यये आर्धधातुकं शेषः इत्यार्धधातुकसंज्ञायां सार्वधातुकार्धधातुकयोरिति गुणे अर्थ इति रूपम् । तस्य पदार्थानतिवृत्तिवाचिना (यथा सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे इत्यमरोक्तेः) यथाशब्देन सह (अव्ययं विभक्ति… 2.1.6) इत्यनेन अव्ययीभावः समासः । तथा च स्वज्ञेयं अनतिक्रम्य वर्तमानं इत्युक्ते यथावस्थितमेव स्वज्ञेयं यद्विषयीकरोति नान्यथा तत् प्रमाणम् इत्युक्तं भवति ।
१. तार्किकाः यथा ज्ञानस्योपकरणमेव प्रमाणमिति चक्षते, २. यथा प्राभाकराः ज्ञानमेव प्रमाणमिति संचक्षते, नैव तथा संचष्टे आचार्यवर्यः। भावे ल्युट्ग्रहणे ज्ञानस्य प्रामाण्यं कथ्यते। करणे ल्युट्ग्रहणे ज्ञानस्योपकरणं प्रमाणतया कथ्यते । इत्थं च प्रमाणमित्यस्य ज्ञानतदुपकरणद्वयं विवक्षितम् । प्रद्धतिः इत्यस्य पादाभ्यां हतिः पद्धतिः। हिमकाषिहतिषु च (६.३.५४) इति सूत्रेण हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययम् आदेशो भवति। मार्गः इत्यर्थः। प्रमाणानां पद्धतिः प्रमाणपद्धतिः इति षष्ठीसमासेन निष्पन्नोयं शब्दः ।।
- स्वरूपम्
अयं ग्रन्थः भगवत्पादविरचितस्य प्रमाणलक्षणस्य टीकारूपः स्वतन्त्रग्रन्थः । यथाह मुनिः – “यद्यपि भगवत्पादैरेव वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति तदर्थमिदं प्रकरणमारभ्यते“ । ग्रन्थोयं त्रिधा विभक्तः । प्रत्यक्षपरिच्छेदः । अनुमानपरिच्छेदः । आगमपरिच्छेदः इति । अस्य व्याख्याकाराः बहवः सन्ति । तेषु प्रसिद्धव्याख्याः एते – जनार्दनविरचिता जयतीर्थविजयनाम्नी टिप्पणी, श्रीराघवेन्द्रश्रीचरणविरचितः प्रमाणपद्धतिभावदीपः, श्रीविजयीन्द्रतीर्थविरचिता प्रमाणपद्धतिटिप्पणी, श्रीवेदेशतीर्थविरचिता प्रमाणपद्धतिटिप्पणी, श्रीसत्यनाथतीर्थविरचितम् अभिनवामृतम्, श्रीव्यासपुरी नरसिंहविरचितः आदर्शः, श्रीनिवासतीर्थविरचिता वाक्यार्थमञ्जरी, श्रीविठ्ठलभट्टविरचिता प्रमाणपद्धतिटिप्पणी इति अष्टव्याख्याः ।।
- विषयः
विभक्तेषु चतुर्षु भागेषु प्रत्यक्षपरिच्छेदे
→ मङ्गलश्लोकाः, ग्रन्थारम्भसमर्थनम्, लक्षणस्वरूपविवरणम्, प्रमाणसामान्यलक्षणम्, प्रमास्वरूपम्, संशयस्वरूपम्, अयतार्थज्ञानमेव नास्तीति वादिनां प्राभाकराणां मतनिरासः, अनध्यवसायस्य ऊहस्य च संशये एवान्तर्भावः । प्रमाणस्य दुष्टलक्षणं कथयतां मीमांसकानां, नैय्यायिकानां मतस्य निरासः, केवलमनुप्रमाणं चेति प्रमाणस्य द्वैविध्यम्, केवलज्ञानप्रभेदाः – केवलज्ञानस्य ईश्वरज्ञानं लक्ष्मीज्ञानं योगिज्ञानम् अयोगिज्ञानमिति चातुर्विध्यम् । योगिज्ञानस्य ऋजुयोगिज्ञानं, तात्त्विकयोगिज्ञानम्, अतात्त्विकयोगिज्ञानं चेति प्रभेदाः । अयोगिज्ञानप्रभेदाः । इन्द्रियजं, लिङ्गजं, स्मृतिः, आर्षं चेति यतार्थज्ञानचातुर्विध्यं वदतां वैशेषिकानां मतस्य निरासः । अनुप्रमाणलक्षणम्, प्रत्यक्षम् अनुमानम् आगमश्चेति अनुप्रमाण-प्रभेदाः, प्रत्यक्षलक्षणम्, साक्षीन्द्रियस्य स्वरूपम्, आत्मस्वरूपं तद्धर्माः,अविद्या, मनः,तद्वृत्तयः,बाह्येन्द्रिय-ज्ञानसुखाद्याः,कालः-,अव्याकृताकाशः इत्याद्याः विषयाः, घ्राणरसनचक्षुस्त्वक्श्रोत्रमनोभेदात् प्राकृतेन्द्रियाणां षाड्विध्यम्, स्मृतेः प्रामाण्यसाधनम्, प्रत्यक्षशब्दार्थकथनम् , तस्य ईश्वरप्रत्यक्षम्, लक्ष्मीप्रत्यक्षं, योगिप्रत्यक्षम्, अयोगिप्रत्यक्षं चेति चातुर्विध्यम् । दैवम्, आसुरं, मध्यमं चेति बाह्येन्द्रियस्य त्रैविध्यम्, नैय्यायिकाभितसंयागादिषड्विधसन्निकर्षनिरासः, निर्विकल्पकसविकल्पकस्वरूपविचारः, प्रत्यक्षस्य फलम् इति प्रत्यक्षपरिच्छेदे विषयाः ।
→ अनुमानलक्षणम्, धर्माणां व्याप्यव्यापकभावव्यवस्था, व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गस्य सम्यग्ज्ञानमनुमानमिति निरूपणम्, प्रत्यक्षानुमानागमैः व्याप्तिज्ञानम्, कार्यानुमानं कारणानुमानमकार्यकारणानुमानमिति त्रिधा अनुमानप्रकाराः । तर्कस्य पञ्चाङ्गानि ।
व्यतिरेकव्याप्तेः अप्रयोजकता, परार्थानुमाने पञ्चावयवनियमो नास्ति इति निरूपणम्,उपपत्तिदोषाः, विरोधप्रकाराः,निग्रहस्थानानि,हेत्वाभासाः इति अनुमानपरिच्छेदे विषयाः ।
→ आगमपरिच्छेदे
आगमलक्षणम्, पदलक्षणम्, वाक्यलक्षणम्, व्यक्तय एव पदवाच्याः इति निरूपणम्, योग्यतरान्विताभिधानवादः,अपौरुषेयागमस्वरूपम्, अर्थापत्त्यादीनामन्तर्भावप्रकारः, एतेषां प्रामाण्यविचारः इति आगमपरिच्छेदे विषयाः ।
- वैशिष्ट्यम्
एवमस्मिन् ग्रन्थे निर्दुष्टतया प्रमाणानां मार्गः निरूपितः । भूतभव्यभवदात्मभिः क्वचिदप्यदूष्यः अयं ग्रन्थः । अत्रोक्तपरवादिनिरासस्य समाधानं केपि प्रदातुं न शेकुः। न केवलं ज्ञानसाधकः अपि तु पुण्यसम्पादकः एकैकाक्षरनिगूढमन्त्रशक्तिः अस्ति इति अस्य ग्रन्थस्य वैशिष्ट्यम्। अधीते अस्मिन् ग्रन्थे श्रीमन्न्यायसुधान्यायामृतादिसकलकठिनग्रन्थेषु निर्बाधगतिर्भवतीत्यत्र नास्ति संशयलेशोपि ।
- उपसंहारः
एवमुक्तेन सर्वेषां शास्त्राणां प्रमाणनिरूपणापेक्षया द्वैतसिद्धान्तप्रमाणपद्धतिः एव निश्रेयःसाधनम् इति विषदीभवति । अस्य ग्रन्थकर्तृणां श्रीजयतीर्थसर्वज्ञकल्पानां टीकानिचयात्मिका मम चिरादाटीकतां मानसे इति वदति अयं तत्परिजनः ।।
।।श्रीमध्वान्तर्गतश्रीकृष्णार्पणमस्तु।।