वेणीसंहारं, नवरसमयसमभावं, नवनाटकसंभारम् .
भीमसेनघनगर्जितसारं, द्रौपदीहृदयशल्यापहारम् … वेणी
दुर्जनसंहारं, दुर्योधनकृतवैरं, प्रकृतमहासमरमतिघोरं,
रुधिरप्रियवसागन्धविहारं, अतिरथमहामहारथवीरम् – 1
अश्वत्थामपितृशोकं रविजगुरुजवाग्द्वन्द्वविरावं
भीषणदुःशासनदुर्मरणं भीमविहित-रुधिरासवपानम् – 2
दुष्टचार्वाककुटिलप्रमोषं, धर्मजविजयविनोदं, मधुसूदनकृतप्रसादं
व्यासभार्गवमुनिवृन्दनन्दितं सज्जनहृदयाह्लादनिदानम् – 3