
परमपूज्यानां श्रीविश्वेशतीर्थश्रीपादानां वृन्दावनप्रवेशेन वयं सर्वोच्चनायकं अस्तंगतं पश्यामः । यस्य अभावः हिंदूसमाजेन अधुना नितरामनुभूयते । श्रीविश्वेशतीर्थश्रीपादानुद्दिश्य कश्चन श्लोकः अत्र प्रस्तूयते –
सद्गीतामुपदिश्य धर्मसमरे कृष्ण! स्वयं योजयन्
यं संशप्तकसैन्धवादिनिधने कार्येऽविजित्यैव तान् ।
सद्वातागमपोषितस्य जयिनो विभ्राजमानस्य भोः
विश्वेशाख्यकिरीटिनो रथवरं युद्धादहार्षीः कथम्? ।।