
अमूमुचद्बाणकरेण भूमेः श्रीभार्गवः सा जयति क्षितिर्नः ।। (श्रीवादिराजश्रीचरणाः तीर्थप्रबन्धे)
प्रतापतापितदङ्मण्डलस्य हैहयादिमदान्धराजपुङ्गवरुधिरासवसरोनिर्माणप्रख्यातमनोभिरामकीर्तेः भरतजहिताय निशेषीकृतक्षात्रस्य भृगुवंशपताकस्य काश्यपप्रदत्तसकलधरस्य स्वपरश्वास्फालनिर्मितपश्चिमगिरिधरजातस्य समाप्तावतारकार्यत्वात् मुक्तपरश्वधधनुर्बाणगदस्य पाजके रिरंसोः परशुरामस्य यशः प्रवच्मि ।
अस्ति पुरा सदागमाधीतिबोधोपासनाग्निहोत्रपूजाचणः भृगुवंशजः सदा ज्वलदग्निः जमदग्निर्नाम महर्षिः । उवाह रेणोः सुतां रेणुकाम्। तस्यां उत्पादयामास वसुमदादीन् सुतान् । तेषु यवीयानात्मजः परषुरामः उद्बभूव ।
तस्मिन् काले आराध्य दत्तं हैहयनामधिपतिरर्जुनः अर्जितबाहुसहस्रः आखेटार्थं गहनमुपगतः यदृच्छया निष्परशुरामं जमदग्नेराश्रमं प्राविशत् । तत्र सानीकामत्यं तं धेन्वा ऋषिरर्हयामास । नरदेवः स्वैश्वर्यातिशायनमर्हणं धेन्वभिलाषी नाद्रियत् । ऋषेः धेनुं हर्तुं दर्पात् नरान् अयोजयत् । ते सशकृत्करिमाहिष्मतीं प्रसभं स्वपुरं निन्युः ।
अचिरेण कालेन प्राप्तनिजाश्रमः रामः प्रवृत्तमाकर्ण्य सकार्मुकपरश्वधः करिणं मृगेन्द्र इव राजानमन्वधावत् । तत्र कपर्दिनं विहसितकपर्दिपौरुषं द्युमणिकिरणसमतेजसं प्रेक्ष्य सेनाङ्गं प्रेशयामास ।
सङ्गच्छते यथा रविकिरणशोणवारि जाम्बूनदं तथा हस्त्यश्वरथपादातं राममापतत् । यतो यतः मनओजाः प्रहरति ततस्ततः छिन्नोत्तमाङ्गभुजाः उर्व्यां निपेतुः । अन्योन्यास्फालभिन्नगात्रानवलोक्य क्रुद्धो राजा प्रसभमभिससार । अथ युगपदाहतपञ्चशतधनुष्षु बाणान् सन्दधे । रामः एकबद्धेषुभिर्युगपत् अलुनात् । ततः कुठारेण गिरिवृक्षान् क्षिपतस्तस्य बाहुशतं छित्वा सुरभिं सुरभिदिभेदनः आश्रममानीय आरराम ।
तत्र पितरि त्वया महत्पापमार्जितम्,मूर्धाभिषिक्तस्य राज्ञः वधः ब्रह्महत्या गुरुः, तीर्थसंसेवया अघं जहीत्युक्तवति आब्दं तीर्थक्षेत्राणि सञ्चरन् अन्ते आजगाम ।
कदाचिदम्बा रामस्य, सलिलार्थं कूलं जह्नुतनयाया उपगता चित्ररथं वीक्ष्य भर्त्रा अनुष्ठीयमानयज्ञवेलां विसस्मार । ततः मुनेः शापभयात् सत्वरं आटेक्य कृताञ्जलिः भाजनं पुरोधाय तस्थौ । मुनिर्व्यभिचारं ज्ञात्वा कटुना वाक्येन पुत्रकानुवाच हे पुत्रकाः घ्नन्तु पापामित्युवाच । ते तन्न चक्रिरे । अथ रामः पित्रा सञ्चोदितः अविलम्बितमविचारयन् दात्रेण सपुत्रं कलत्रं जमदग्रेः सकलत्रः रामः त्रासं विना निजघान । तुष्टो महर्षिः वररूपेण स्वाभीप्सितं पुनर्मातॄत्थानपुत्रसंहारविस्मरणं प्रादात् ।
एवं भुवनाद्भुतः परशुरामः अद्यापि उपसमुद्रे पाजकक्षेत्रे भक्तवरदः तपस्तप्त्वा रमते ।
टिप्पणी
सदागमाधीतिबोधोपासनाग्निहोत्रपूजाचणः – सदागमादिभिः चणः (प्रसिद्धः) । तेन वित्तश्चुञ्चुप्चणपौ (५.२.२६) (“वित्तः (ज्ञातः)” अस्मिन् अर्थे तृतीयासमर्थेभ्यः शब्देभ्यः “चुञ्चुप्” तथा “चणप्” एतौ प्रत्ययौ भवतः ।) इति चणप् ।
आखेटार्थम् – आखेटः – मृगया (Hunting) (ಬೇಟೆ) (शिकार करना) आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् इत्यमरः ।
शकृत्करिः – वत्सः । शकृत्करिस्तु वत्सः स्यात् इत्यमरः
प्रसभम् - बलात्कारः । प्रसभं तु बलात्कारः इत्यमरः ।
सङ्गच्छते – मिलित्वा गच्छति । समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः (१.३.२९) ( अकर्मकप्रयोगेषु “सम्” उपसर्गात् – गम्, ऋच्छ्, प्रच्छ्, स्वर्, ऋ, श्रु, विद् – एतेभ्यः धातुभ्यः आत्मनेपदस्य प्रत्ययाः भवन्ति ।) इति सूत्रेण आत्मनेपदित्वम् ।
सुरभिदिभेदनः – सुराणां भिदिः (वज्रायुधं) तस्य भेदनः ।
आरराम – व्याङ्परिभ्यो रमः (१.३.८३) विआङ् परि इत्येवं पूर्वात् रमतेः परस्मैपदं भवति।
घ्नन्तु – हो हन्तेर्ञ्णिन्नेषु (७.३.५४) (हन्-धातोः अङ्गस्य हकारस्य कुत्वम् भवति ञित्-प्रत्यये परे, णित्-प्रत्यये परे, नकारे परे ।) इति हकारस्य घकारः ।
दात्रेण – लवित्रेण । दात्रं लवित्रमाबन्धः इत्यमरः ।
सकलत्रः – सकलं त्रातीति सकलत्रः । जगद्रक्षकः ।
उपसमुद्रे – तृतीयासप्तम्योर्बहुलम् (२.४.८४) (अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः स्यात् ।) इति बहुलं सप्तमी ।