महापराक्रमी भीमसेनः

श्रीजयतीर्थगुरुभ्यो नमः

अस्ति पुरा विजितभूमण्डलपराक्रमी पाण्डवललामो महाललामो गदाधरः कौन्तेयः संम्परायकुशलः धिष्ण्याभिख्यः समयसत्यः भीमो नाम । जातः सः तत्क्षणम् द्वीपिनः भीतया कुन्त्या पातितः शतधा भञ्जयामास गोत्रम् । अतः खलु शतशृङ्गः इति नाम्ना विराजते स पर्वतः। अथ कदाचन गजपुर्यां सुयोधनेन प्रदत्तक्ष्वेलभोजनं जग्ध्वा खेलया सुप्तः धार्तराष्ट्रेन च प्रमाणकोट्याख्ये तटाके पातितः सन् अधोभुवने बलिना संम्पूजितःदशसहस्रेभबलदं हाटकरसं पपौ । ततः बहिरागतश्च बलेन । स उपाध्यायात् द्रोणात् शिक्षयन् चापविद्यां आनिनाय विसृष्टं बाणमपि । ततः सः बलरामेण शिक्षितसर्वविद्यः सन् आजगाम हस्तिपुरम् । शठेन दुःर्योधनेन लाक्षागृहे नियोजितः युक्त्या प्रच्यावितोsभूत् । वने हिडिम्बं विप्रोड्य हिडिम्बां ऊढ्वा पाञ्चालेषु स्वयंवरे द्रौपदीं संम्प्राप्य आजगाम नागपुरम् । तत्र कुसुतेन कौ अप्रदत्तायां सत्यां कृष्णप्रभावेन इन्द्रप्रस्थाख्यं पुरं प्रविवेश । राज्यभारं कुर्वन् सुयोधनद्यूते पराजितः सन् द्रौपदीवस्त्रापकर्षणे आह, अहं दुःशासनं हन्मि येन हस्तेन सो वस्त्रापकर्षणं चकार तं हस्तं भञ्जयामि । इति प्रतिज्ञां च चकार । पुनः राज्यं लब्ध्वा मुहुः द्यूते पराजितेन अग्रजेन सह वनं जगाम । तत्र नानाविधान् गन्धर्वसेवकान् राक्षसान् च निहत्य सौगन्धिककुसुमं च प्रदाय पत्न्यै सन्तोषयामास ताम् । तत्र तत्र रक्षयन् ब्राह्मणान् यापयामास द्वादशवर्षकालम् । अज्ञातवासे च विराटनगरे पाचको बभूव वललनाम्ना । स च भीमोत्सवे भीमो मल्लान् अहनत् चतुर्थे मासि । एवं कीचकं उपकीचकान् च अप्रोडत् । अथ प्रारब्धवैराटयुद्धे आहूतो वललवेषधारी भीमः सुशर्माणं सुवर्माणं जिगाय । एवं तत्र निर्विघ्नं त्रयोदशवत्सरात्मके वनवासाज्ञातवासे यापयामास । अथ अक्षमेण क्षमायां पुनः सत्यां अप्रदत्तायां नियोजितपाण्डवधार्तराष्ट्रयुद्धे समारब्धे सति तार्क्ष्यवेगक्षयकरः धर्मेण धर्मी नाभिकुलोत्पन्नः अपरप्लवङ्गमः युयोध भीमो रिपुभिः । सर्वाः प्रतिज्ञाः साधयन् स अहनत् एकोनशतं धार्तराष्ट्रान् । अन्तिमायां अवस्थायां क्षमो वृकोदरः अच्छषत् दुर्योधनम् । अथ लब्धराज्यः सन् बुभुजे पुरभोगान् च । एवं कृष्णे सुदीर्घकालं मनः निधाय अपयत स्वधाम ।।

श्रीकृष्णार्पणमस्तु

टिप्पणी

अस्ति पुरा- यावत्पुरानिपातयोर्लट् इति लट् (“अभिषिच्यते पुरा” सुमध्वविजयः ५ सर्गः १ श्लोकः वत् ) अतीतार्थे स्वीकृतम् ।।

विजितभूमण्डलपराक्रमी – विजितः भूमण्डलः येन सः विजितभूमण्डलः । पराक्रमः अस्य अस्ति इति इति पराक्रमी विजितभूमण्डलश्चासौ पराक्रमी च विजितभूमण्डलपराक्रमी ।।

पाण्डवललामः – ललामम् – प्रधानम् “ललामं पुच्छपुण्ड्राश्वभूषाप्राधन्यकेतुषु ” इत्यमरः ।।

महाललामः – ललामम् – तिलकम् ” ललामं पुच्छपुण्ड्राश्वभूषाप्राधन्यकेतुषु ” इत्यमरः ।।

सम्परायकुशलः – युद्धकुशलः । “युद्धायत्योस्सम्परायः” इत्यमरः ।।

धिष्ण्याभिख्यः – धिष्यम् – अग्निः “धिष्ण्यं स्थाने गृहे भेsग्नौ” इत्यमरः । अभिख्या – कान्तिः “अभिख्या नामशोभयोः” इत्यमरः ।।

समयसत्यः समयः – शपथः “समयाश्शपथाचार” इत्यमरः । सत्यम् – ऋतम् “सत्यं तथ्यमृतं सम्यक्” इत्यमरः

द्वीपिनः – व्याघ्रेण “शार्दूलद्वीपिनौ व्याघ्रे” इत्यमरः पञ्चमी भयेन  इति पञ्चमी।।

क्ष्वेलः विषम् “क्ष्वेलस्तु गरलं विषम्” इत्यमरः ।।

जग्ध्वा – अद भक्षणे त्वान्तमव्ययम् ।।

खेलया – क्रीडया ।।

तटाके – पद्माकरः (सरोवरः) “पद्माकरस्तटाकोस्त्री” इत्यमरः ।।

अधोभुवनम् पातलम् “अधोभुवनपातलम्” इत्यमरः ।।

इभ – गजः “मतङ्गजो गजो नागः कुञ्जरो वारणः करी । इभः स्तम्भेरमः पद्मी” इत्यमरः ।।

विप्रोड्य – वि इत्युपसर्गपूर्वक प्रुड मर्दने इति धातोः ल्यप् ।।

कुसुतेन – कुत्सितानि कुत्सनैः इति तत्पुरुषः कुत्सितश्चासो सुतश्च कुसुतः ।।

कुः – पृथिवी “गोत्रा कुः पृथिवी पृथ्वी” इत्यमरः ।।

अग्रजेन सह – सहयुक्तेऽप्रधाने इति सूत्रेण तृतीया अग्रजशब्दस्य

आह – ब्रूञ् व्यक्तायां वाचि इत्यतः विकल्पे कृते लटः ब्रुवः पञ्चानामादित आहो ब्रुवः इति सूत्रेण ।।

भीमोत्सवे भीमः – रुद्रः “भीमः स्थाणू रुद्र उमापतिः” इत्यमरः ।।

अमोडत् – मुड मर्दने लङ्

क्षमा – मेदनी “क्ष्मावनिर्मेदिनी मही” इत्यमरः ।।

तार्क्ष्यवेगक्षयकरः – तार्क्ष्यः – गरुडः “तुरङ्गगरुडौ तार्क्ष्यौ” इत्यमरः । तार्क्ष्यानां वेगः तार्क्ष्यवेगः तार्क्ष्यवेगस्यापि क्षयं करोति इति तार्क्ष्यवेगक्षयकरः ।।

धर्मेण धर्मी – धर्मेण – स्वभावेन । धर्मी आचारयुक्तः। “धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः” इत्यमरः ।।

नाभिः – क्षत्रियः “क्षत्रियेषु च नाभिर्ना” इत्यमरः ।।

क्षमम् – हितकारि “क्षमं शक्ते हिते त्रिषु” इत्यमरः ।।

अच्छषत् – छष हिंसायाम् आत्मनेपदि लङ्

अपयत – पय गतौ लङ्

Published by अनन्तः

विद्यार्थी

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: