।।श्रीजयतीर्थगुरुभ्यो नमः।।

सिद्धान्तपञ्चकविधावपि दृग्विरुद्धं मौढ्योपरागमुखखेचरचारक्लृप्तौ। सूर्यस्वयं कुसुमपुर्यभवत् कलौ तु भूगोलवित् कुलप आर्यभटाभिधानः।।
निश्चप्रचं एव यत् भारते विविधशास्त्राधीतिबोधाचरणप्रचारणाः आसन् । तत्र बहवो विचाराधाराधुरीणाः सन्तोषितसरस्वत्यः स्वगोभिः शास्त्रिणः प्रौढताभरान् ग्रन्थान् अभ्यधुः। भास्कराचार्यः पाणिनिः वराहमिहिरः इत्यादयः महामेधाविनः स्वकृतग्रन्थप्रवालैः भारतदेशम् अह्वरन्त । अत्र अतीव प्राचीनतमं शास्त्रं तु गणितशास्त्रमेव । गणितशास्त्रक्षेत्रे भास्कराचार्यादयः तेषां प्रवरबुद्धिसमृद्ध्या भारतदेशं अछर्दयन् । लीलावत्यां भास्कराचार्यः श्लोकरूपेणैव अतिरमणीयतया वर्तुलस्य कोष्ठागारं आह –
वृत्तक्षेत्रे परिधिगुणितं व्यासपादं फलं तत्
क्षुण्णं वेदैरुपरि परितः कन्दुकस्यैव जालम् ।
गोलस्येव तदपि च फलं पृष्ठजं व्यासनिघ्नं
षड्भिर्भक्तं भवति नियतं गोलगर्भं घनाख्यम् ।।
इति शीलिनीवृत्ते लिखितमिमं श्लोकमवलोक्य आधुनिकगणितज्ञाः, कथमेतावत्सुन्दरतया तथा वादरहिततया अतीव गहनविषयं न्यरूरुपन्निति मूकविस्मिताः बभूवुः । अनया रीत्या अखिलशास्त्रेषु अग्रगण्यः तिष्ठति भारतदेशः । साम्प्रतं प्रथमगणितज्योतिषज्ञः यः भारतस्य कीर्तिं ववृधे तथा गणितशास्त्रे दिग्गजवत् भ्राजते तादृश-आर्यभटस्य विषये अस्मिन् लेखे प्रस्तूयते।।
आर्यभटः महागणितज्ञः ज्योतिज्ञः आसीत्। सः क्रिस्तोपूर्वः ४७६ तमे वर्षे कुसुमपुर्यां प्रादुर्भूताः । अद्य लभ्यमानेषु ज्योतिर्गणितशास्त्रग्रन्थेषु आर्यभटस्य ग्रन्थाः एव अतिपुरातनाः । आर्यभटरचितस्य ज्योतिश्शास्त्रग्रन्थस्य आर्यभटीयं इत्येव प्रसिद्धम् । बहुभिः ग्रन्थैः प्रतिपादनीयस्य अतिविस्तृतस्य विषयस्य सूत्रैः इव संक्षिप्य प्रतिपादने आर्यभटस्य महद्वैशिष्ट्यम् वर्तते । आर्यभटीये गीतिपादः गणितपादः कालक्रियापादः गोलपादश्चेति पादचतुष्टयम् विद्यते ।
गीतिपादः
अस्मिन् पादे दशश्लोकाः गीतिच्छन्दसि वर्तन्ते इति कृत्वा अस्य गीतिपादः इति अभिधानम् । सङ्ख्यानां निर्देशाय आर्यभटेन केचन सङ्केताः प्रकल्पिताः । वर्णामालागत-एकैकवर्णस्य सङ्ख्याः सङ्केताः वर्तन्ते । तद्यथा अ = १ इ = १०० ……. आर्यभटः एतानि परिभाषापदानि उपयुज्य सूर्येण ४,३२,००० भ्रमणानि क्रियन्ते इति कथयितुं – ख्यु घृ इति संख्यावाचकं प्रयुनक्ति ख्यु घृ इत्युक्ते खु यु घृ = खु = २* १०,००० = २०,००० + यु = ३०* १०,००० = ३,००,००० + घृ = ४* १०,००,००० = ४०,००,००० = ४३,२०,००० इति भवति अन्येषां ग्रहाणां व्यासः तथा भगमः एवमेव न्यरूरुपत् अस्मिन् पादे ।।
गणितपादः
त्रयस्त्रिंशत्श्लोके अस्मिन् पादे आर्यभटेन अनेके विषयाः प्रतिपादिताः । यथा स्थानमौल्यपद्धतिविषये- (Place value system)
एकं दश च शतं च सहस्रमयुतनियुते तथा प्रयुक्तं ।
कोट्यर्बुधं च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ।। इति
अस्मिन् पादे त्रिकोणशास्त्रमपि आर्यभटेन प्रतिपादितमस्ति । तत्र “Theta” इत्यस्य ज्या इति संज्ञां दत्तवन्तः । भूमित्यां अपि त्रिभुजक्षेत्रफलं वृत्तक्षेत्रफलं इत्यादयः निरूपिताः । एषां अध्ययनेन वस्तुशिल्पशास्त्रं विज्ञातुं शक्यते ।अत्र आश्चर्यविषयो नाम अद्यतन पैथागोरास् वादः अपि श्लोकरूपेणप्रतिपादितः अस्ति।।
आयाममायामगुणं विस्तारं विस्तरेण तु । समस्य वर्गमूलं यत्करणं तद्विदो विदुः इति ।।
उपसंहारः-
एतादृशं साङ्ख्यपूर्णं आर्यभटीयं जगति प्रचुर प्रचारे अद्यापि वरीवर्तते। अस्माकं गौरवं यत् पूर्वतनाः सिद्धान्ताः जगत्प्रख्याताः अभूवन्। महापुरुषः आर्यभटः भारतस्य कीर्तिध्वजं समुत्तोलितवान् इति अस्माकं भावना विद्यते।।
टिप्पणी
स्वगोभिः- निजवाग्भिः।
शास्त्रिणः – शास्त्रिन् शब्दस्य प्रथमाविभक्तिः बहुवचनरूपम्। तदधीते तद्वेद (4.2.59) इत्यनेन सूत्रेण अधीतार्थे अण् प्रत्ययो भवति। तथा च- शास्त्रं अधीयते इति शास्त्रिणः इति विग्रहः।।
प्रौढताभरान्- प्रौढता- कठिनता, भरः- भारः। प्रौढता एव भरः येषां ते प्रौढताभराः तान् प्रौढताभरान् इति विग्रहः।।
अभ्यधुः- अभि उपसर्गपूर्वात् डु दाञ् धारणपोषणयोः इत्यस्मात् लुङ् परस्मैपदम्। दत्तवन्तः वा धृतवन्तः इत्यर्थः।।
अह्वरन्त- ह्वृ संवरणे इत्यस्मात् लङ् परस्मैपदम् । आच्छादितवन्तः इत्यर्थः ।।
अछर्दयन् – छृदी सन्दीप्ते इत्यस्मात् लङ् परस्मैपदम् । प्राकाशयन् इत्यर्थः ।।
कोष्ठागारं- Surface Area.
वादरहिततया – (without any Theorems).
कुसुमपुर्यां – Present Patna.
भगमः- Revolution.
।।श्रीकृष्णार्पणमस्तु।।