अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ।।
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसम्मतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ।।
वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ।।
स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ।।
श्रीमद्भागवतम्,नवमस्कन्धः,षष्ठोऽध्यायः ३,४,५ श्लोकाः

टेकते मे स्वान्तपथे नाभागतनूजः विष्णुपाणिनुन्नसुदर्शनरक्षितः तपोगभस्तिसूर्यः आनन्दितानन्दः चन्दनाङ्गदः अम्बरेश इव भ्राशमाणः शम्बरारिपत्तनगतरथः सम्भप्रादुर्भूतनरहरिपदासक्तः ऐक्ष्वाकुरम्बरीषाह्वयः । सोऽयम् अध्यैष्ट श्रुतिस्मृतिनेत्रान् शास्त्रग्रन्थान् । इयाज देवद्रविणानि । अपारीत् पितॄन् । प्रावृषेण्याभ्रसमवाग्झरीः जनपापपयस्पाशाग्राही अंशुमालीव विभ्राजमाणः छान्दसोऽयं बाहुजः कदाचित् कृतैकादशीव्रतः पारणाय दुर्वाससमतिथिं मेने । तपश्चणः कणकणेषु दृष्टदेवरूपः द्वादशीप्रत्यूषे स्नातुमभ्यटेकत । चिरादनागते सति तपस्विपुङ्गवे व्रतभङ्गसाध्वसात् स्वीचकार दैत्यारिपादकीलम् । ज्ञातवृत्तान्तः ऋषिः अवकृन्तयतित्वा सटां विससर्ज रक्षः । सैकक्षणे पाटलकोमलवनमालिकरप्रयुक्तः अमिताहस्करप्रतिमतीक्ष्णारहस्रवान् दुष्टेरदृष्टः सुदर्शनः अमोडत् राजघ्नम् । ततः दुर्वाससं हिंसितुं परिवर्तितमार्गः तमधावयत् । भीत इव भगवत्पादरजोभिषिक्तो व्रती ब्रह्माणमुपाटिटेक । पदं मदीयं सह क्रीडावसाने विनाशमुखं याति येन तन्नुन्नं कोऽपि न रुणद्धि ऋते आदिदेवमिति धात्रा श्रुतवाक्यः प्रपेदे लोकशङ्करं त्रिशूलकरम् ।
वयं न तात प्रभवाम भूम्नो
भवन्ति काले न भवन्ति हीदृशाः ।
यस्मिन् परेऽन्येऽप्यजजीवकोशाः
सहस्रषो यत्र वयं भ्रमामः ।। (श्रीमद्भागवतम्,नवमस्कन्धः,षष्ठोऽध्यायः)
इत्युक्तः साक्षात्किरीटिनं भक्तकुन्दविकासचन्द्र इव भ्लाशमाणं तत्पादमूले पतितः सुदर्शनापचितिं ययाचे । अहं भक्तपराधीनः अतः विराजं पद्यतामित्यूचे । पश्चादम्बरीषपादमापन्नः तेन निवारितसुदर्शनतापः भूपकीर्त्यै तं तुष्टाव । एवमनुध्यायन् विष्णुं कालान्तरे वैकुण्ठद्वास्थानुमतः सन् अद्यापि रमते विष्णुपदे ।।
टेकते – टिकृ गतौ ।